View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.69 अरण्यकांड - एकोनसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकोनसप्ततितमस्सर्गः ।

कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ ।
अवेक्षंतौ वने सीतां पश्चिमां जग्मतुर्दिशम् ॥ 1 ॥

तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ ।
अविप्रहतमैक्ष्वाकौ पंथानं प्रतिपेदतुः ॥ 2 ॥

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् ।
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥ 3 ॥

व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम् ।
सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥ 4 ॥

ततः परं जनस्थानातत्रिक्रोशं गम्य राघवौ ।
क्रौंचारण्यं विविशतुर्गहनं तौ महौजसौ ॥ 5 ॥

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः ।
नानापक्षिगणैर्युक्तं नानाव्यालमृगैर्युतम् ॥ 6 ॥

दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः ।
तत्र तत्रावतिष्ठंतौ सीताहरणकर्शितौ ॥ 7 ॥

ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा ।
क्रौंचारण्यमतिक्रम्य मतंगाश्रममंतरा ॥ 8 ॥

दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम् ।
ननासत्त्वसमाकीर्णं सर्वं गहनपादपम् ॥ 9 ॥

ददृशाते तु तौ तत्र दरीं दशरथात्मजौ ।
पातालसमगंभीरां तमसा नित्यसंवृताम् ॥ 10 ॥

आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः ।
ददृशाते महारूपां राक्षसीं विकृताननाम् ॥ 11 ॥

भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् ।
लंबोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम् ॥ 12 ॥

भक्षयंतीं मृगान्भीमान्विकटां मुक्तमूर्धजाम् ।
प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ॥ 13 ॥

सा समासाद्य तौ वीरौ व्रजंतं भ्रातुरग्रतः ।
एहि रंस्यावहेत्युक्त्वा समालंबत लक्ष्मणम् ॥ 14 ॥

उवाच चैनं वचनं सौमित्रिमुपगूह्य सा ।
अहं त्वयोमुखी नाम लब्धा ते त्वमसि प्रियः ॥ 15 ॥

नाथ पर्वतकूटेषु नदीनां पुलिनेषु च ।
आयुश्शेषमिमं वीर त्वं मया सह रंस्यसे ॥ 16 ॥

एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः ।
कर्णनासास्तनं तस्या निचकर्तारिसूदनः ॥ 17 ॥

कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च ।
यथागतं प्रदुद्राव राक्षसी भीमदर्शना ॥ 18 ॥

तस्यां गतायां गहनं व्रजंतौ वनमोजसा ।
आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ॥ 19 ॥

लक्ष्मणस्तु महातेजास्सत्त्ववान् शीलवान् शुचिः ।
अब्रवीत्प्रांजलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥ 20 ॥

स्पंदते च दृढं बाहुरुद्विग्नमिव मे मनः ।
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ 21 ॥

तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् ।
ममैव हि निमित्तानि सद्यश्शंसंति संभ्रमम् ॥ 22 ॥

एष वंचुलको नाम पक्षी परमदारुणः ।
आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥ 23 ॥

तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ।
संजज्ञे विपुलः शब्दो प्रभंजन्निव तद्वनम् ॥ 24 ॥

संवेष्टितमिवात्यर्थं गगनं मातरिश्वना ।
वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव ॥ 25 ॥

तं शब्दं कांक्षमाणस्तु रामः कक्षे सहानुजः ।
ददर्श सुमहाकायं राक्षसं विपुलोदरम् ॥ 26 ॥

आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् ।
विवृद्धमशिरोग्रीवं कबंधमुदरे मुखम् ॥ 27 ॥

रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोछ्रितम् ।
नीलमेघनिभं रौद्रं मेघस्तनितनिस्वनम् ॥ 28 ॥

अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता ।
महापक्ष्मेण पिंगेन विपुलेनायतेन च ॥ 29 ॥

एकेनोरसि घोरेण नयनेनाशुदर्शिना ।
महादंष्ट्रोपपन्नं तल्लेलिहानं महामुखम् ॥ 30 ॥

भक्षयंतं महाघोरानृक्षसिंहमृगद्विपान् ।
घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ॥ 31 ॥

कराभ्यां विविधान्गृह्यऋक्षान्पक्षिगणान्मृगान् ।
आकर्षंतं विकर्षंतमनेकान्मृगयूथपान् ॥ 32 ॥

स्थितमावृत्य पंथानं तयोर्भ्रात्रोः प्रपन्नयोः ।
अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः ॥ 33 ॥

महांतं दारुणं भीमं कबंधं भुजसंवृम् ।
कबंधमिव संस्थानादतिघोरप्रदर्शनम् ॥ 34 ॥

स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ ।
जग्राह सहितावेव राघवौ पीडयन्बलात् ॥ 35 ॥

खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ ।
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ॥ 36 ॥

तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे ।
बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे ॥ 37 ॥

उवाच स विषण्णस्सन्राघवं राघवानुजः ।
पश्य मां वीर विवशं राक्षसस्य वशं गतम् ॥ 38 ॥

मयैकेन विनिर्युक्तः परिमुंचस्व राघव ।
मां हि भूतबलिं दत्वा पलायस्व यथासुखम् ॥ 39 ॥

अधिगंतासि वैदेहीमचिरेणेति मे मतिः ।
प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम् ॥ 40 ॥

तत्र मां राम राज्यस्थस्स्मर्तुमर्हसि सर्वदा ।
लक्ष्मणेनैवमुक्तस्तु रामस्सौमित्रिमब्रवीत् ॥ 41 ॥

मा स्म त्रासं कृथा वीर न हि त्वादृग्विषीदति ।
एतस्मिन्नंतरे क्रूरो भ्रातरौ रामलक्ष्मणौ ॥ 42 ॥

पप्रच्छ घननिर्घोषः कबंधो दानवोत्तमः ।
कौ युवां वृषभस्कंधौ महाखड्गधनुर्धरौ ॥ 43 ॥

घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ ।
वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ॥ 44 ॥

इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ।
सबाणचापखड्गौ च तीक्ष्णशृंगाविवर्षभौ ॥ 45 ॥

ममास्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः ।
तस्य तद्वचनं श्रुत्वा कबंधस्य दुरात्मनः ॥ 46 ॥

उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ।
कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रमः ॥ 47 ॥

व्यसनं जीवितांताय प्राप्तमप्राप्य तां प्रियाम् ।
कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण ॥ 48 ॥

त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ।
नातिभारोस्ति कालस्य सर्वभूतेषु लक्ष्मण ॥ 49 ॥

शूराश्च बलवंतश्च कृतास्त्राश्च रणाजिरे ।
कालाभिपन्नास्सीदंति यथा वालुकसेतवः ॥ 50 ॥

इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् ।
अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाऽकरोत् ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकोनसप्ततितमस्सर्गः ॥




Browse Related Categories: