View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.16 किष्किंधाकांड - षोडश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ षोडशस्सर्गः ।

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ 1 ॥

गर्जतोऽस्य च सुसंभ्रश्च भ्रातुः शत्रोर्विशेषतः ।
मर्षयिष्याम्यहं केन कारणेन वरानने ॥ 2 ॥

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।
धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ 3 ॥

सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे ।
सुग्रीवस्य च सम्रंभं हीनग्रीवस्य गर्जतः ॥ 4 ॥

न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ 5 ॥

निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥ 6 ॥

प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम् ।
दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥ 7 ॥

अहं ह्याजौस्थितस्यास्य करिष्यामि यथेप्सितम् ।
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ 8 ॥

न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् ।
कृतं तारे सहांयत्वं सौहृदं दर्शितं मयि ॥ 9 ॥

शापिताऽपि मम प्राणैर्निवर्तस्व जयेन च ।
अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥ 10 ॥

तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।
चकार रुदती मंदं दक्षिणा सा प्रदक्षिणम् ॥ 11 ॥

ततः स्वस्त्ययनं कृत्वा मंत्रविद्विजयैषिणी ।
अंतःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ 12 ॥

प्रविष्टायां तु तारायां सह स्त्रीभिस्स्वमालयम् ।
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ 13 ॥

स निश्श्वस्य महातेजा वाली परमरोषणः ।
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकांक्षया ॥ 14 ॥

स ददर्श ततश्श्रीमान् सुग्रीवं हेमपिंगलम् ।
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ 15 ॥

स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् ।
गाढं परिदधे वासो वाली परमरोषणः ॥ 16 ॥

स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥ 17 ॥

श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः ।
सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् ॥ 18 ॥

तं वाली क्रोधताम्राक्षस्सुग्रीवं रणपंडितम् ।
आपतंतं महावेगमिदं वचनमब्रवीत् ॥ 19 ॥

एष मुष्टिर्मयाबद्धो गाढस्सन्निहितांगुलिः ।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ 20 ॥

एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् ।
तवैव चा हरन्प्राणान्मुष्टिः पततु मूर्धनि ॥ 21 ॥

ताडितस्तेन संकृद्धस्समभिक्रम्य वेगितः ।
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥ 22 ॥

सुग्रीवेण तु निस्संगं सालमुत्पाट्य तेजसा ।
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥ 23 ॥

स तु वाली प्रचलितस्सालताडनविह्वलः ।
गुरुभारसमाक्रांतो नौ सार्थ इव सागरे ॥ 24 ॥

तौ भीमबलविक्रांतौ सुपर्णसमवेगिनौ ।
प्रवृद्धौ घोरवपुषौ चंद्रसूर्याविवांबरे ।
परस्परममित्रघ्नौ च्छिद्रान्वेषणतत्परौ ॥ 25 ॥

ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ।
सूर्यपुत्रो महावीर्यस्सुग्रीवः परिहीयते ॥ 26 ॥

वालिना भग्नदर्पस्तु सुग्रीवो मंदविक्रमः ।
वालिनं प्रति सामर्षो दर्शयामास लाघवम् ॥ 27 ॥

वृक्षैः स्सशाखै स्सशिखैर्वज्रकोटिनिभैर्नखैः ॥ 28 ॥

मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः ।
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ 29 ॥

तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ ।
मेघाविव महाशब्दै स्तर्जमानौ परस्परम् ॥ 30 ॥

हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम् ।
वीक्षमाणं दिशश्चैव राघवस्स मुहुर्मुहुः ॥ 31 ॥

ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् ।
शरं च वीक्षते वीरो वालिनो वधकारणात् ॥ 32 ॥

ततो धनुषि संधाय शरमाशीविषोपमम् ।
पुरयामास तच्चापं कालचक्रमिवांतकः ॥ 33 ॥

तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः ।
प्रदुद्रुवुर्मृगाश्चैव युगांत इव मोहिताः ॥ 34 ॥

मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।
राघवेण महाबाणो वालिवक्षसि पातितः ॥ 35 ॥

ततस्तेन महातेजा वीयौटत्सिक्तः कपीश्वरः ।
वेगेनाभिहतो वाली निपपात महीतले ॥ 36 ॥

इंद्रध्वज इवोद्धूतः पौर्णमास्यां महीतले ।
आश्वयुक्समये मासि गतश्रीको विचेतनः ॥ 37 ॥

नरोत्तमः कालयुगांतकोपमं शरोत्तमं कांचनरूप्यभुषितम् ।
ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः ॥ 38 ॥

अथोक्षितश्शोणिततोयविस्रवै स्सुपुष्पिताशोक इवानिलोद्धतः ।
विचेतनो वासवसूनुराहवे विभ्रंशितेंद्रध्वजवत्क्षितिं गतः ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे षोडशस्सर्गः ॥




Browse Related Categories: