View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.18 किष्किंधाकांड - अष्टादश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ अष्टादशस्सर्गः ।

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।
परुषं वालिना रामो निहतेन विचेतसा ॥ 1 ॥

तं निष्प्रभमिवादित्यं मुक्ततोयमिवांबुदम् ।
उक्तवाक्यं हरिश्रेष्ठमुपशांतमिवानलम् ॥ 2 ॥

धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम् ।
अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ॥ 3 ॥

धर्ममर्थं च कामं च समयं चापि लौकिकम् ।
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ 4 ॥

अपृष्ट्वा बुद्धिसंपन्नान्वृद्धानाचार्यसम्मतान् ।
सौम्य वानरचापल्यात्किं मावक्तुमिहेच्छसि ॥ 5 ॥

इक्ष्वाकूणामियं भूमिस्सशैलवनकानना ।
मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥ 6 ॥

तां पालयति धर्मात्मा भरतस्सत्यवागृजुः ।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ 7 ॥

नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् ।
विक्रमश्च यथा दृष्टस्स राजा देशकालवित् ॥ 8 ॥

तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ।
चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः ॥ 9 ॥

तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले ।
पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ॥ 10 ॥

ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः ।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥ 11 ॥

त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः ।
कामतंत्रप्रधानश्च न स्थितो राजवर्त्मनि ॥ 12 ॥

ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ।
त्रयस्ते पितरो ज्ञेया धर्म्ये च पथि वर्तिनः ॥ 13 ॥

यवीयानात्मनः पुत्रशशिष्यश्चापि गुणोदितः ।
पुत्रवत्ते त्रयश्चिंत्या धर्मश्चेदत्रकारणम् ॥ 14 ॥

सूक्ष्मः परमदुरजेयस्सतां धर्मः प्लवंगम ।
हृदिस्थस्सर्वभूतानामात्मा वेद शुभाशुभम् ॥ 15 ॥

चपलश्चपलैस्सार्धं वानरैरकृतात्मभिः ।
जात्यंध इव जात्यंधैर्मंत्रयन् प्रेक्षसे नु किम् ॥ 16 ॥

अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते ।
न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ॥ 17 ॥

तदेतत्कारणं पश्य यदर्थं त्वं मया हतः ।
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥ 18 ॥

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।
रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥ 19 ॥

तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर ।
भ्रातृभार्यावमर्शेऽस्मिंदंडोऽयं प्रतिपादितः ॥ 20 ॥

न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः ।
दंडादन्यत्र पश्यामि निग्रहं हरियूथप ॥ 21 ॥

न हि ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः ।
औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ॥ 22 ॥

प्रचरेत नरः कामात्तस्य दंडो वधः स्मृतः ।
भरतस्तु महीपालो वयं त्वादेशवर्तिनः ॥ 23 ॥

त्वं तु धर्मादतिक्रांतः कथं शक्यं उपेक्षितुम् ।
गुरूर्धर्मव्यतिक्रांतं प्राज्ञो धर्मेण पालयन् ॥ 24 ॥

भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ।
वयं तु भरतादेश विधिं कृत्वा हरीश्वर ।
त्वद्विधान्भिन्नमर्यादान्नियंतुपर्यवस्थिताः ॥ 25 ॥

सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा ।
दारराज्यनिमित्तं च निःश्रेयसि रत स्स मे ॥ 26 ॥

प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ ।
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥ 27 ॥

तदेभिः कारणैस्सर्वैर्महद्भिर्धर्मसंहितैः ॥ 28 ॥

शासनं तप यद्युक्तं तद्भवाननुमन्यताम् ।
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥ 29 ॥

वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यतः ।
शक्यं त्वयाऽपि तत्कार्यं धर्ममेवानुपश्यता ॥ 30 ॥

श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ ।
गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे ॥ 31 ॥

राजभिर्धृतदंडास्तु कृत्वा पापानि मानवाः ।
निर्मलास्स्वर्गमायांति संतस्सुकृतिनो यथा ॥ 32 ॥

शासनाद्वाऽपिमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते ।
राजात्वशासन्पापस्य तदवाप्नोति किल्बिषम् ॥ 33 ॥

आर्येण मम मांधात्रा व्यसनं घोरमीप्सितम् ।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ 34 ॥

अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः ।
प्रायश्चित्तं च कुर्वंति तेन तच्छाम्यते रजः ॥ 35 ॥

तदलं परितापेन धर्मतः परिकल्पितः ।
वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥ 36 ॥

शृणु चाप्यपरं भूयः कारणं हरिपुंगव ।
यच्छ्रुत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि ॥ 37 ॥

न मे तत्र मनस्तापो न मन्युर्हरिपुंगव ।
वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ 38 ॥

प्रतिच्छन्नाश्च दृश्याश्च गृह्णंति सुबहून्मृगान् ।
प्रधावितान्वा वित्रस्तान्विस्रब्धांश्चापि निष्ठितान् ॥ 39 ॥

प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् ।
विध्यंति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥ 40 ॥

यांति राजर्षयश्चात्र मृगयां धर्मकोविदाः ।
तस्मात्त्वं निहतो युद्धे मया बाणेन वानर ॥ 41 ॥

अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ।
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ॥ 42 ॥

राजानो वानरश्रेष्ठ प्रदातारो न संशयः ।
तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ॥ 43 ॥

देवा मानुषरूपेण चरंत्येते महीतले ।
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ॥ 44 ॥

प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ।
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ॥ 45 ॥

न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः ।
प्रत्युवाच ततो रामं प्रांजलिर्वानरेश्वरः ॥ 46 ॥

यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः ।
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ॥ 47 ॥

यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् ।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ।
तदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम् ।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ॥ 48 ॥

त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः ।
कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया ॥ 49 ॥

मामप्यगतधर्माणं व्यतिक्रांतपुरस्कृतम् ।
धर्मसंहितया वाचा धर्मज्ञ परिपालय ॥ 50 ॥

न त्वात्मानमहं शोचे न तारां न च बांधवान् ।
यथा पुत्रं गुणज्येष्ठमंगदं कनकांगदम् ॥ 51 ॥

स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः ।
तटाक इव पीतांबुरुपशोषं गमिष्यति ॥ 52 ॥

बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः ।
तारेयो राम भवता रक्षणीयो महाबलः ॥ 53 ॥

सुग्रीवे चांगदे चैव विधत्स्व मतिमुत्तमाम् ।
त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ॥ 54 ॥

या ते नरपते वृत्तिर्भरते लक्ष्मणे च या ।
सुग्रीवे चांगदे राजंस्तां त्वमाधातुमिहासि ॥ 55 ॥

मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् ।
सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि ॥ 56 ॥

त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम् ॥ 57 ॥

त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ।
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ॥ 58 ॥

त्वत्तोऽहं वधमाकांक्षन्वार्यमाणोऽपि तारया ।
सुग्रीवेण सह भ्रात्रा द्वंद्वयुद्धमुपागतः ॥ 59 ॥

इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः ।
स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ॥ 60 ॥

सामसंपन्नया वाचा धर्मतत्त्वार्थयुक्तया ।
न संतापस्त्वया कार्य एतदर्थं प्लवंगम ॥ 61 ॥

न वयं भवता चिंत्या नाप्यात्मा हरिसत्तम ।
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ 62 ॥

दंड्ये यः पातयेद्दंडं दंड्यो यश्चापि दंड्यते ।
कार्यकारणसिद्धार्था वुभौ तौ नावसीदतः ॥ 63 ॥

तद्भवांदंडसंयोगादस्माद्विगतकल्मषः ।
गतस्स्वां प्रकृतिं धर्म्यं धर्मदृष्टेन वर्त्मना ॥ 64 ॥

त्यज शोकं च मोहं च भयं च हृदये स्थितम् ।
त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम् ॥ 65 ॥

यथा त्वय्यंगदो नित्यं वर्तते वानरेश्वर ।
तथा वर्तेत सुग्रीवे मयि चापि न संशयः ॥ 66 ॥

स तस्य वाक्यं मधुरं महात्मन स्समाहितं धर्मपथानुवर्तिनः ।
निशम्य रामस्य रणावमर्दिनो वचस्सुयुक्तं निजगाद वानरः ॥ 67 ॥

शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो ।
इदं महेंद्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर ॥ 68 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे अष्टादशस्सर्गः ॥




Browse Related Categories: