View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.38 किष्किंधाकांड - अष्टत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ अष्टत्रिंशस्सर्गः ।

प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् ।
वानरान्सांत्वयित्वा च सर्वानेव व्यसर्जयत् ॥ 1 ॥

विसर्जयित्वा स हरीन् शूरांस्तान्कृतकर्मणः ।
मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ 2 ॥

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन् ॥ 3 ॥

किष्किंधाया विनिष्क्राम यदि ते सौम्य रोचते ।
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ 4 ॥

सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह ।
एवं भवतु गच्छावः स्थेयं त्वच्छासने मया ॥ 5 ॥

तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम् ।
विसर्जयामास तदा तारामन्याश्च योषितः ॥ 6 ॥

एतेत्युच्चैर्हरिवरान्सुग्रीवस्समुदाहरत् ।
तस्य तद्वचनं श्रुत्वा हरयश्शीघ्रमाययुः ॥ 7 ॥

बद्धांजलिपुटास्सर्वे ये स्युः स्त्रीदर्शनक्षमाः ।
तानुवाच ततः प्राप्तान्राजाऽर्कसदृशप्रभः ॥ 8 ॥

उपस्थापयत क्षिप्रं शिबिकां मम वानराः ।
श्रुत्वा तु वचनं तस्य हरयश्शीघ्रविक्रमाः ॥ 9 ॥

समुपस्थापयामासुश्शिबिकां प्रियदर्शनाम् ।
तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ॥ 10 ॥

लक्ष्मणाऽरुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ।
इत्युक्त्वा कांचनं यानं सुग्रीवस्सूर्यसन्निभम् ॥ 11 ॥

बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ।
पांडुरेणातपत्रेण म्रियमाणेन मूर्धनि ॥ 12 ॥

शुक्लैश्च वालव्यजनैर्धूयमानैस्समंततः ।
शंखभेरीनिनादैश्च हरिभिश्चाभिवंदितः ॥ 13 ॥

निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ।
स वानरशतैस्तीक्ष्णैर्बहुभि श्शस्त्रपाणिभिः ॥ 14 ॥

परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः ।
स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ॥ 15 ॥

अवातरन्महातेजा श्शिबिकायास्सलक्ष्मणः ।
आसाद्य च ततो रामं कृतांजलिपुटोऽभवत् ॥ 16 ॥

कृतांजलौ स्थिते तस्मिन्वानराश्चाभवंस्तथा ।
तटाकमिव तं दृष्ट्वा रामः कुड्मलपंकजम् ॥ 17 ॥

वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत् ।
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ॥ 18 ॥

प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे ।
परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ 19 ॥

निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः ।
धर्ममर्थं च कामं च यस्तु काले निषेवते ॥ 20 ॥

विभज्य सततं वीर स्स राजा हरिसत्तम ।
हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते ॥ 21 ॥

स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ।
अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ॥ 22 ॥

त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ।
उद्योगसमयस्त्वेषप्राप्तश्शत्रुविनाशन ॥ 23 ॥

संचिंत्यतां हि पिंगेश हरिभिस्सह मंत्रिभिः ।
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ 24 ॥

प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
त्वत्प्रसादान्महाबाहो पुनःप्राप्तमिदं मया ॥ 25 ॥

तव देव प्रसादाच्च भ्रातुश्च जयतां वर ।
कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥ 26 ॥

एते वानरमूख्याश्च शतशश्शत्रुसूदन ।
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥ 27 ॥

ऋक्षाश्चावहिताश्शूरा गोलांगूलाश्च राघव ।
कांतारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ 28 ॥

देवगंधर्वपुत्राश्च वानराः कामरूपिणः ।
स्वैस्स्वैः परिवृतास्सैन्यैर्वर्तंते पथि राघव ॥ 29 ॥

शतैश्शतसहस्रैश्च वर्तंते कोटिभिश्च प्लवंगमाः ।
अयुतैश्चावृता वीराश्शंकुभिश्च परंतप ॥ 30 ॥

अर्बुदैरर्बुदशतैर्मध्यैश्चांत्यैश्च वानराः ।
समुद्रैश्च परार्धैश्च हरयो हरियूथपाः ॥ 31 ॥

आगमिष्यंति ते राजन्महेंद्रसमविक्रमाः ।
मेरुमंदरसंकाशा विंध्य मेरुकृतालयाः ॥ 32 ॥

ते त्वामभिगमिष्यंति राक्षसं ये सबांधवम् ।
निहत्य रावणं सख्ये ह्यानयिष्यंति मैथिलीम् ॥ 33 ॥

ततस्तमुद्योगमवेक्ष्य बुद्धिमा न्हरिप्रवीरस्य निदेशवर्तिनः ।
बभूव हर्षाद्वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे अष्टत्रिंशस्सर्गः ॥




Browse Related Categories: