View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.43 किष्किंधाकांड - त्रिचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ त्रिचत्वारिंशस्सर्गः ।

ततस्संदिश्य सुग्रीवश्श्वशुरं पश्चिमां दिशम् ।
वीरं शतवलिं नाम वानरं वानरर्षभः ॥ 1 ॥

उवाच राजा धर्मज्ञस्सर्ववानरसत्तमम् ।
वाक्यमात्म हितं चैव रामस्य च हितं तथा ॥ 2 ॥

वृतश्शतसहस्रेण त्वद्विधानां वनौकसाम् ।
वैवस्वतसुतैस्सार्धं प्रतिष्ठस्व स्वमंत्रिभिः ॥ 3 ॥

दिशं ह्युदीचीं विक्रांतां हिमशैलावतंसकाम् ।
सर्वतः परिमार्गध्वं रामपत्नीमनिंदिताम् ॥ 4 ॥

अस्मिन्कार्येविनिर्वृत्ते कृते दाशरथेः प्रिये ।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ 5 ॥

कृतं हि प्रियमस्माकं राघवेण महात्मना ।
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ 6 ॥

अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।
तस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः ॥ 7 ॥

एतां बुद्धिमवस्थाय दृश्यते जानकी यथा ।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ 8 ॥

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।
अस्मासु चागतः प्रीती रामः परपुरंजयः ॥ 9 ॥

इमानि वनदुर्गाणि नद्यश्शैलांतराणि च ।
भवंतः परिमार्गंतु बुद्धिविक्रमसंपदा ॥ 10 ॥

तत्र म्लेच्छान्पुलिंदांश्च शूरसेनांस्तथैव च ।
प्रस्थलान्भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ 11 ॥

कांबोजान्यवनां श्चैव शकानारट्टकानपि ।
बाह्लीकानृषिकां श्चैव पौरवानथ टंकणान् ॥ 12 ॥

चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः ।
अन्विष्यदरदांश्चैव हिमवंतं तथैव च ॥ 13 ॥

लोध्रपद्मकषंडेषु देवदारुवनेषु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 14 ॥

ततस्सोमाश्रमं गत्वा देवगंधर्वसेवितम् ।
कालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ 15 ॥

महत्सु तस्य शैलस्य निर्दरेषु गुहासु च ।
विचिनुध्वं महाभागां रामपत्नींततस्ततः ॥ 16 ॥

तमतिक्रम्य शैलेंद्रं हेमगर्भं महागिरिम् ।
ततस्सुदर्शनं नाम गंतुमर्हथ पर्वतम् ॥ 17 ॥

ततो देवसखो नाम पर्वतः पतगालयः ।
नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ 18 ॥

तस्य काननषंडेषु निर्घरेषु गुहासु च ।
रावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 19 ॥

तमतिक्रम्य चाकाशं सर्वतश्शतयोजनम् ।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ 20 ॥

तं तु शीघ्रमतिक्रम्य कांतारं रोमहर्षणम् ।
कैलासं पांडुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ 21 ॥

तत्र पांडुरमेघाभं जांबूनदपरिष्कृतम् ।
कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा ॥ 22 ॥

विशाला नलिनी यत्र प्रभूतकमलोत्पला ।
हंसकारंडवाकीर्णाप्सरोगणसेविता ॥ 23 ॥

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ।
धनदो रमते श्रीमान्गुह्यकैस्सह यक्षराट् ॥ 24 ॥

तस्य चंद्रनिकाशेषु पर्वतेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 25 ॥

क्रौंचं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ 26 ॥

वसंति हि महात्मानस्तत्र सूर्यसमप्रभाः ।
देवैरप्यर्चिता स्सम्यग्देवरूपा महर्षयः ॥ 27 ॥

क्रौंचस्य तु गुहाश्चान्या स्सानूनिशिखराणि च ।
निर्दराश्च नितंबाश्च विचेतव्या स्ततस्ततः ॥ 28 ॥

कौंचस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।
अवृक्षं कामशैलं च मानसं विहगालयम् ।
न गतिस्तत्र भूतानां देवदानव रक्षसाम् ॥ 29 ॥

स च सर्वैर्विचेतव्यस्ससानुप्रस्थभूधरः ।
क्रौंचं गिरिमतिक्रम्य मैनाको नाम पर्वतः ॥ 30 ॥

मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ 31 ॥

मैनाकस्तु विचेतव्य स्ससानुप्रस्थकंदरः ।
स्त्रीणामश्वमुखीनां तु निकेतास्तत्र तत्र तु ॥ 32 ॥

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।
सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ 33 ॥

वंद्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः ।
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ 34 ॥

हेमपुष्करसंछन्नं तस्मिन् वैखानसं सरः ।
तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः ॥ 35 ॥

औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ।
गजः पर्येति तं देशं सदा सह करेणुभिः ॥ 36 ॥

तत्सरस्समतिक्रम्य नष्टचंद्रदिवाकरम् ।
अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ 37 ॥

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ।
विश्राम्यद्भिस्तपस्सिद्धैर्देवकल्पैः स्वयंप्रभैः ॥ 38 ॥

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥ 39 ॥

ते नयंति परं तीरं सिद्धान्प्रत्यानयंति च ।
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ 40 ॥

ततः कांचनपद्माभिः पद्भिनीभिः कृतोदकाः ।
नीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः ॥ 41 ॥

रक्तोत्पलवनैश्चात्र मंडिताश्च हिरण्मयैः ।
तरुणादित्यसंकाशैर्भांति तत्र जलाशयाः ॥ 42 ॥

महार्हमणिरत्नैश्च कांचनप्रभकेसरैः ।
निलोत्पलवनैश्चित्रै स्स देश स्सर्वतो वृतः ॥ 43 ॥

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ।
सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ॥ 44 ॥

जातरूपमयैश्चापि हुताशनसमप्रभैः ।
नित्यपुष्पफलास्तत्र नगाः पत्त्ररथाकुलाः ॥ 45 ॥

दिव्यगंधरसस्पर्शाः सर्वान्कामान् स्रवंति च ।
नानाकाराणि वासांसि फलंत्यन्ये नगोत्तमाः ॥ 46 ॥

मुक्ता वैढूर्यचित्राणि भूषणानि तथैव च ।
स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च ॥ 47 ॥

सर्वर्तुसुख सेव्यानि फलंत्यन्ये नगोत्तमाः ।
महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः ॥ 48 ॥

शयनानि प्रसूयंते चित्रास्तरणवंति च ।
मनःकांतानि माल्यानि फलंत्यत्रापरे द्रुमाः ॥ 49 ॥

पानानि च महार्हाणि भक्ष्याणि विविधानि च ।
स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः ॥ 50 ॥

गंधर्वाः किन्नरास्सिद्धा नागा विद्याधरास्तथा ।
रमंते सततं स्तत्र नारीभिर्भास्करप्रभाः ॥ 51 ॥

सर्वे सुकृतकर्माण स्सर्वे रतिपरायणाः ।
सर्वे कामार्थसहिता वसंति सहयोषितः ॥ 52 ॥

गीतवादित्रनिर्घोष स्सोत्कृष्टहसितस्वनः ।
श्रूयते सततं तत्र सर्वभूतमनोहरः ॥ 53 ॥

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ।
अहन्यहनि वर्धंते गुणास्तत्र मनोरमाः ॥ 54 ॥

समतिक्रम्य तं देशमुत्तरः पयसां निधिः ।
तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ॥ 55 ॥

इंद्रलोकगता ये च ब्रह्मलोकगताश्च ये ।
देवास्तं समवेक्षंते गिरिराजं दिवं गताः ॥ 56 ॥

स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ।
सूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता ॥ 57 ॥

भगवानपि विश्वात्मा शंभुरेकादशात्मकः ।
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ 58 ॥

न कथंचन गंतव्यं कुरूणामुत्तरेण वः ।
अन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ 59 ॥

स हि सोमगिरिर्नाम देवानामपि दुर्गमः ।
तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥ 60 ॥

एतावद्वानरैश्शक्यं गंतुं वानरपुंगवाः ।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ 61 ॥

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ 62 ॥

ततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् ।
कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ 63 ॥

ततः कृतार्थाः सहितास्सबांधवाः मयाऽर्चितास्सर्वगुणैर्मनोरमैः ।
चरिष्यथोर्वीं प्रति शांतशत्रव स्सहप्रिया भूतधराः प्लवंगमाः ॥ 64 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे त्रिचत्वारिंशस्सर्गः ॥




Browse Related Categories: