View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.50 किष्किंधाकांड - पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ पंचाशस्सर्गः ।

सह तारांगदाभ्यां तु संगम्य हनुमान्कपिः ।
विचिनोति स्म विंध्यस्य गुहाश्च गहनानि च ॥ 1 ॥

सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तदा ।
विषमेषु नगेंद्रस्य महाप्रस्रवणेषु च ॥ 2 ॥

आसेदुस्तस्य शैलस्य कोटिं दक्ष्णिपश्चिमाम् ।
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ 3 ॥

स हि देशो दुरन्वेषो गुहागहनवान्महान् ।
तत्र वायुसुतस्सर्वं विचिनोति स्म पर्वतम् ॥ 4 ॥

परस्परेण हनुमा नन्योन्यस्याविदूरतः ।
गजो गवाक्षो गवयश्शरभो गंधमादनः ॥ 5 ॥

मैंदश्च द्विविदश्चैव सुषेणो जांबवान्नलः ।
अंगदो युवराजश्च तारश्च वनगोचरः ॥ 6 ॥

गिरिजालावृतांदेशान्मार्गित्वा दक्षिणां दिशम् ।
विचिन्वंतस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥ 7 ॥

दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् ।
क्षुत्पिपासापरीताश्च श्रांताश्च सलिलार्थिनः ॥ 8 ॥

अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ।
तत्र क्रौंचाश्च हंसाश्च सारसाश्च विनिष्क्रमन् ॥ 9 ॥

जलार्द्राश्चक्रवाकाश्च रक्तांगाः पद्मरेणुभिः ।
ततस्तद्बिलमासाद्य सुगंधि दुरतिक्रमम् ॥ 10 ॥

विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।
संंजातपरिशंकास्ते तद्बिलं प्लवगोत्तमाः ॥ 11 ॥

अभ्यपद्यंत संहृष्टास्तेजोवंतो महाबलाः ।
नानासत्त्वसमाकीर्णं दैत्येंद्रनिलयोपमम् ॥ 12 ॥

दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ।
ततः पर्वतकूटाभो हनूमान्पवनात्मजः ॥ 13 ॥

अब्रवीद्वानरान्सर्वान्कांतारवनकोविदः ।
गिरिजालावृतांदेशान्मार्गित्वा दक्षिणां दिशम् ॥ 14 ॥

वयं सर्वे परिश्रांता न च पश्याम मैथिलीम् ।
अस्माच्चापि बिलाद्धंसाः क्रौंचाश्च सह सारसैः ॥ 15 ॥

जलार्द्राश्चक्रवाकाश्च निष्पतंति स्म सर्वशः ।
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ॥ 16 ॥

तथा चेमे बिलद्वारि स्निग्धास्तिष्ठंति पादपाः ।
इत्युक्त्वा तद्बिलं सर्वे विविशुस्तिमिरावृतम् ॥ 17 ॥

अचंद्रसूर्यं हरयो ददृशू रोमहर्षणम् ।
निशाम्य तस्मात् शिंहांश्च तांस्तांश्च मृगपक्ष्णिः ॥ 18 ॥

प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ।
न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः ॥ 19 ॥

वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ।
ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुंजराः ॥ 20 ॥

प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ।
ततस्तस्मिन्बिले दुर्गे नानापादपसंकुले ॥ 21 ॥

अन्योन्यं संपरिष्वज्य जग्मुर्योजनमंतरम् ।
ते नष्टसंज्ञास्तृषितास्संभ्रांतास्सलिलार्थिनः ॥ 22 ॥

परिपेतुर्बिले तस्मिन्कंचित्कालमतंद्रिताः ।
ते कृशा दीनवदनाः परिश्रांताः प्लवंगमाः ॥ 23 ॥

आलोकं ददृशुर्वीरा निराशा जीविते यदा ।
ततस्तं देशमागम्य सौम्या वितिमिरं वनम् ॥ 24 ॥

ददृशुः कांचनान्वृक्षांदीप्तवैश्वानरप्रभान् ।
सालां स्तालांश्च पुन्नागान्ककुभान्वंजुलांधवान् ॥ 25 ॥

चंपकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ।
स्तबकैः कांचनैश्चित्रै रक्तैः किसलयैस्तथा ॥ 26 ॥

आपीडैश्च लताभिश्च हेमाभरणभूषितान् ।
तरुणादित्यसंकाशान्वैढूर्यकृतवेदिकान् ॥ 27 ॥

विभ्राजमानान्वपुषा पादपांश्च हिरण्मयान् ।
नीलवैढूर्यवर्णाश्च पद्मिनीः पतगावृताः ॥ 28 ॥

महद्भिः कांचनैः पद्मैर्वृता बालार्कसन्निभैः ।
जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ॥ 29 ॥

तपनीय गवाक्षाणि मुक्ता जाल आवृतानि च ।
हैम राजत भौमानि वैदूर्य मणिमंति च ॥ 30 ॥

तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।
हैमराजतभौमानि वैदूर्यमणिमंति च ॥ 31 ॥

कांचन भ्रमरान् चैव मधूनि च समंततः ।
मणि कांचन चित्राणि शयनानि आसनानि च ॥ 32 ॥

कांचनभ्रमरांश्चैव मधूनि च समंततः ।
मणिकांचनचित्राणि शयनान्यासनानि च ॥ 33 ॥

महार्हाणि चयानानि ददृशुस्ते समंततः ।
हैमराजतकांस्यानां भाजनानां च संंचयान् ॥ 34 ॥

अगरूणां च दिव्यानां चंदनानां च संंचायान् ।
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ 35 ॥

महार्हाणि च पानानि मधूनि रसवंति च ।
दिव्यानामंबराणां च महार्हाणां च संचयान् ॥ 36 ॥

कंबलानां च चित्राणामजिनानां च संचयान् ।
तत्र तत्र च विन्यस्तांदीप्तान्वैश्वानरप्रभान् ॥ 37 ॥

ददृशुर्वानराश्शुभ्रांजातरूपस्य संचयान् ।
तत्र तत्र विचिन्वंतो बिले तस्मिन्महाबलाः ॥ 38 ॥

ददृशुर्वानराश्शूराः स्त्रियं कांचिददूरतः ।
तां दृष्ट्वा भृशसंत्रस्ताश्चीरकृष्णाजिनांबराम् ॥ 39 ॥

तापसीं नियताहारां ज्वलंतीमिव तेजसा ।
विस्मिता हरयस्तत्र व्यवतिष्ठंत सर्वशः ॥ 40 ॥

पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ।
ततो हनूमान्गिरिसन्निकाशः कृताज्ञलिस्तामभिवाद्य वृद्धाम् ।
पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे पंचाशस्सर्गः ॥




Browse Related Categories: