View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.33 सुंदरकांड - त्रयस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ त्रयस्त्रिंशस्सर्गः ।

सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ 1 ॥

तामब्रवीन्महातेजा हनूमान्मारुतात्मजः ।
शिरस्यंजलिमाधाय सीतां मधुरया गिरा ॥ 2 ॥

का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।
द्रुमस्य शाखामालंब्य तिष्ठसि त्वमनिंदिते ॥ 3 ॥

किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।
पुंडरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ 4 ॥

सुराणामसुराणां वा नागगंधर्वरक्षसाम् ।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ 5 ॥

का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
वसूनां हि वरारोहे देवता प्रतिभासि मे ॥ 6 ॥

कि नु चंद्रमसा हीना पतिता विबुधालयात् ।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठसर्वगुणान्विता ॥ 7 ॥

का त्वं भवसि कल्याणि त्वमनिंदितलोचने ।
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ॥ 8 ॥

वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुंधती ।
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ॥ 9 ॥

अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।
रोदनादतिनिश्श्वासाद्भूमिसंस्पर्शनादपि ॥ 10 ॥

न त्वां देवीमहं मन्ये राज्ञ स्सर्वज्ञावधारणात् ।
व्यंजनानि च ते यानि लक्षणानि च लक्षये ॥ 11 ॥

महिषी भूमिपालस्य राजकन्या च मे मता ।
रावणेन जनस्थानाद्बलादपदहृता यदि ॥ 12 ॥

सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ॥ 13 ॥

तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ॥ 14 ॥

उवाच वाक्यं वैदेही हनुमंतं द्रुमाश्रितम् ।
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः ॥ 15 ॥

स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।
दुहिता जनकस्याहं वैदेहस्य महात्मनः ॥ 16 ॥

सीतेति नाम नाम्नाऽहं भार्या रामस्य धीमतः ।
समा द्वादश तत्राहं राघवस्य निवेशने ॥ 17 ॥

भुंजाना मानुषान्भोगान्सर्वकामसमृद्धिनी ।
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनंदनम् ॥ 18 ॥

अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।
तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने ॥ 19 ॥

कैकयी नाम भर्तारं देवी वचनमब्रवीत् ।
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ॥ 20 ॥

एष मे जीवितस्यांतो रामो यद्यभिषिच्यते ।
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ॥ 21 ॥

तच्छेन्न वितथं कार्यं वनं गच्छतु राघवः ।
स राजा सत्यवाग्देव्या वरदानमनुस्मरन् ॥ 22 ॥

मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ॥ 23 ॥

ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ।
स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् ॥ 24 ॥

मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।
दद्यान्न प्रतिगृह्णीयान्न ब्रूयात्किंचिदप्रियम् ॥ 25 ॥

अपि जीवितहेतोर्वा रामस्सत्यपराक्रमः ।
स विहायोत्तरीयाणि महार्हाणि महायशाः ॥ 26 ॥

विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ॥ 27 ॥

न हि मे तेन हीनाया वासस्स्वर्गेऽपि रोचते ।
प्रागेव तु महाभागस्सौमित्रिर्मित्रनंदनः ॥ 28 ॥

पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः ।
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः ॥ 29 ॥

प्रविष्टास्स्म पुरादृष्टं वनं गंभीरदर्शनम् ।
वसतो दंडकारण्ये तस्याहममितौजसः ॥ 30 ॥

रक्षसाऽपहृता भार्या रावणेन दुरात्मना ।
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे त्रयस्त्रिंशस्सर्गः ॥




Browse Related Categories: