View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.23 युद्धकांड - त्रयोविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रयोविंशस्सर्गः ।

निमित्तानिनिमित्ताज्ञोदृष्टवालक्ष्मणपूर्वजः ।
सौमित्रिंसंपरिष्वज्यैदंवचनमब्रवीत् ॥ 1 ॥

निमित्तानिपरिगृह्योदकंशीतंवनानिफलवंतिच ।
बलौघंसंविभज्येमंव्यूह्यतिष्ठेमलक्ष्मण ॥ 2 ॥

लोकक्षयकरंभीमंभयंपश्याम्युपस्थितम् ।
निबर्हणंप्रवीराणामृक्षवानररक्षसाम् ॥ 3 ॥

वाताश्चकलुषावांतिकंपतेचवसुंधराः ।
पर्वताग्राणिवेपंतेपतंतिचमहीरुहाः ॥ 4 ॥

मेघाःक्रव्यादसंकाशाःपरुषाःपरुषस्वनाः ।
क्रूराःक्रूरंप्रवर्षंतिमिश्रंशोणितबिंदुभिः ॥ 5 ॥

रक्तचंदनसंकाशासंध्यापरमदारुणा ।
ज्वलतःप्रपतत्येतदादित्यादग्निमंडलम् ॥ 6 ॥

दीनादीनस्वराःक्रूरास्सर्वतोमृगपक्षिणः ।
प्रत्यादित्यंविनर्धंतिजनयंतोमहाद्भयम् ॥ 7 ॥

रजन्यामप्रकाशस्तुसंतापयतिचंद्रमाः ।
कृष्णरक्तांशुपर्यंतोलोकक्षयैवोदितः ॥ 8 ॥

ह्रस्वोरूक्षोऽप्रशस्तश्चपरिवेषस्सुलोहितः ।
आदित्येविमलेनीलंलक्ष्मलक्ष्मणदृश्यते ॥ 9 ॥

रजसामहताचापिनक्षत्राणिहतानिच ।
युगांतमिवलोकानांपश्यशंसंतीवलक्ष्मण ॥ 10 ॥

काकाश्श्येनास्तथानीचागृध्राःपरिपतंतिच ।
शिवाश्चाप्यशिवान्नादान्नदंतिसुमहाभयान् ॥ 11 ॥

शैलैश्शूलैश्चखढगैश्चविसृष्टैःकपिराक्षसैः ।
भविष्यत्यावृताभूमिर्मांसशोणितकर्दमा ॥ 12 ॥

क्षिप्रमद्यैवदुर्दर्षांपुरींरावणपालिताम् ।
अभियामजनेनैवसर्वतोहरिभिर्ववृताः ॥ 13 ॥

इत्येवमुक्त्वाधर्मात्माधनवीसंग्रामहर्षणः ।
प्रतस्थेपुरतोरामोलंकामभिमुखोविभुः ॥ 14 ॥

सविभीषणसुग्रीवास्ततस्तेवानरर्षभाः ।
प्रतस्थिरेविनर्दंतोनिश्चिताद्विषतांवधे ॥ 15 ॥

राघवस्यप्रियार्थंतुसुतरांवीर्यशालिनाम् ।
हरीणांकर्मचेष्टाभिस्तुतोषरघुपुंगवः ॥ 16 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रयोविंशस्सर्गः ॥




Browse Related Categories: