View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.3 युद्धकांड - तृतीय सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ तृतीयस्सर्गः ।

सुग्रीवस्यवचश्श्रुत्वाहेतुमत्परमार्थवत् ।
प्रतिजग्राहकाकुत्स्थोहनूमंतमथाब्रवीत् ॥ 1 ॥

तपसासेतुबंधेनसागरोच्छोषणेनच ।
सर्वथासुसमर्थोऽस्मिसागरस्यास्यलंघने ॥ 2 ॥

कतिदुर्गाणिदुर्गायालंकायाब्रूहितानिमे ।
ज्ञातुमिच्छामितत्सर्वंदर्शनादिववानर ॥ 3 ॥

बलस्यपरिमाणंचद्वारदुर्गक्रियामपि ।
गुप्तिकर्मचलंकायारक्षसांसदनानिच ॥ 4 ॥

यथासुखंयथावच्छलंकायामसिदृष्टवान् ।
सर्वमाचक्ष्वतत्त्वेनसर्वथाकुशलोह्यसि ॥ 5 ॥

श्रुत्वारामस्यवचनंहनुमान्मारुतात्मजः ।
वाक्यंवाक्यविदांश्रेष्ठोरामंपुनरथाब्रवीत् ॥ 6 ॥

श्रूयतांसर्वमाख्यास्येदुर्गकर्मविधानतः ।
गुप्तापुरीयथालंकारक्षिताचयथाबलैः ॥ 7 ॥

राक्षसाश्चयथास्निग्धारावणस्यचतेजसा ।
परांसमृद्धिंलंकायास्सागरस्यचभीमताम् ॥ 8 ॥

विभागंचबलौघस्यनिर्देशंवाहनस्यच ।
एवमुक्त्वाकपिश्रेष्ठःकथयामासतत्त्ववितः ॥ 9 ॥

हृष्टप्रमुदितालंकामत्तद्विपसमाकुला ।
महतीरथसंपूर्णारक्षोगणसमाकुला ॥ 10 ॥

दृढबद्धकवाटानिमहापरिघवंतिच ।
द्वाराणिविपुलान्यस्याश्चत्वारिसुमहांतिच ॥ 11 ॥

तत्रेषूपलयंत्राणिबलवंतिमहांतिच ।
आगतंपरसैन्यंतैस्तत्रप्रतिनिवार्यते ॥ 12 ॥

द्वारेषुसंस्कृताभीमाःकालायसमयाश्शिताः ।
शतशोरचितावीरैश्शतघ्नयोरक्षसांगणै ॥ 13 ॥

सौवर्णस्तुमहांस्तस्याःप्राकारोदुष्प्रधर्षणः ।
मणीविद्रुमवैदूर्यमुक्ताविरचितांतरः ॥ 14 ॥

सर्वतश्चमहाभीमाश्शीततोयवहाश्शुभाः ।
अगाधाग्राहवत्यश्चपरिखामीनसेविता ॥ 15 ॥

द्वारेषुतासांचत्वारस्संक्रमाःपरमायताः ।
यंत्रैरुपेताबहुभिर्महद्भिर्गृहपंक्तिभिः ॥ 16 ॥

त्रायंतेसंक्रमास्तत्रपरसैन्यागतेसति ।
यंत्रैस्तैरवकीर्यंतेपरिखासुसमंततः ॥ 17 ॥

एकस्त्वकंप्योबलवान्संक्रमस्सुमहादृढः ।
कांचनै र्बहुभिस्स्तंभैर्वेदिकाभिश्चशोभितः ॥ 18 ॥

स्वयंप्रकृतिमापन्नोयुयुत्सूराम रावणः ।
उत्थितश्चाप्रमत्तश्चबलानामनुदर्शने ॥ 19 ॥

लंकापुनर्निरालंबादेवदुर्गाभयावहा ।
नादेयंपार्वतंवान्यंकृत्रिमंचचतुर्विधम् ॥ 20 ॥

स्थितापारेसमुद्रस्यदूरपारस्यराघव ।
नौपथोपिश्चनास्त्यत्रनिरादेशश्चसर्वशः ॥ 21 ॥

शैलाग्रेरचितादुर्गासापुरैर्देवपुरोपमा ।
वाजिवारणासंपूर्णालंकापरमदुर्जया ॥ 22 ॥

परिखाश्चशतघ्नयश्चयंत्राणिविविधानिच ।
शोभयंतिपुरींलंकांरावणस्यदुरात्मनः ॥ 23 ॥

अयुतंरक्षसामत्रपूर्वद्वारंसमाश्रितम् ।
शूलहस्तादुराधर्षास्सर्वेखंगाग्रयोधिनः ॥ 24 ॥

नियुतंरक्षसामत्रदक्षिणद्वारमाश्रितम् ।
चतुरंगेणसैन्येनयोधास्तत्राप्यनुत्तमाः ॥ 25 ॥

प्रयुतंरक्षसामत्रपश्चिमद्वारमाश्रितम् ।
चर्मखंगधरास्सर्वेतथासर्वास्त्रकोविदाः ॥ 26 ॥

न्यर्बुदंरक्षसामत्राप्युत्तरद्वारमाश्रितम् ।
रथिनश्चाश्ववाहाश्चकुलपुत्त्रास्सुपूजिताः ॥ 27 ॥

शतशोऽथसहस्राणिमध्यमंस्कंधमाश्रिताः ।
यातुधानादुराधर्षास्साग्रकोटिश्चरक्षसाम् ॥ 28 ॥

तेमयासंक्रमाभग्नाःपरिखाश्चावपूरिताः ।
दग्धाचनगरीलंकाप्राकाराश्चावसादिताः ॥ 29 ॥

बलैकदेशःक्षपितोराक्षसानांमहात्मनाम् ।
येनकेनतुमार्गेणतरामवरुणालयम् ।
हतेतिनगरीलंकावानरैरवधार्यताम् ॥ 30 ॥

अंगदोद्विविदोमैंदोजांबवान्पनसोऽनलः ।
नीलस्सेनापतिश्चेवबलशेषेणकिंतव ॥ 31 ॥

प्लवमानाहिगत्वातांरावणस्यमहापुरीम् ॥ 32 ॥

सपर्वतवनांभित्त्वासखातांचसप्रतोरणाम् ।
सप्राकारांसभवनामानयिष्यंतिराघव ॥ 33 ॥

एवमाज्ञापयक्षिप्रंबलानांसर्वसंग्रहम् ।
मुहूर्तेनतुयुक्तेनप्रस्थानमभिरोचय ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे तृतीयस्सर्गः ॥




Browse Related Categories: