View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.48 युद्धकांड - अष्टचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टचत्वारिंशस्सर्गः ।

भर्तारंनिहतंदृष्टवालक्ष्मणंचमहाबलम् ।
विललापभृशंसीताकरुणंशोककर्शिता ॥ 1 ॥

ऊचुर्लक्षणिकायेमांपुत्रिण्यविधवेतिच ।
तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ॥ 2 ॥

यज्वनोमहिषींयेमामूचुःपत्नींचसत्त्रिणः ।
तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ॥ 3 ॥

ऊचुस्संश्रवणेयेमांद्विजाःकार्तांतिकाश्शुभाम् ।
तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ॥ 4 ॥

वीरपार्थिवपत्नीत्वांयेविदुर्भर्तृपूजिताम् ।
तेऽद्यसर्वेहतेरामेज्ञानिनोऽनृतवादिनः ॥ 5 ॥

इमानिखलुपद्मानिपादयोर्यैःकुलस्त्रियः ।
अधिराज्येऽभिषिच्यंतेनरेंद्रैःपतिभिःसह ॥ 6 ॥

वैधव्यंयांतियैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः ।
नात्मनंतानिपश्यामिपश्यंतीहतलक्षणा ॥ 7 ॥

सत्यनामानिपद्मानिस्त्रीणामुक्तानिलक्षणैः ।
तान्यद्यनिहतेरामेवितथानिभवंतिमे ॥ 8 ॥

केशाह् सूक्ष्माह् समा नीला भ्रुवौ च असम्गते मम ।
वृत्ते च अलोमशे जन्घे दंताश् च अविरला मम ॥ 9 ॥

शंखेनेत्रेकरौपादौगुल्फावूरूचमेचितौ ।
अनुवृत्तनखास्स्निग्धास्समाश्चांगुलयोमम ॥ 10 ॥

स्तनौ च अविरलौ पीनौ मम इमौ मग्न चूचुकौ ।
मग्ना च उत्सन्गिनी नाभिह् पार्श्व उरस्कं च मे चितम् ॥ 11 ॥

ममवर्णोमणिनिभोमृदून्यंगरुहाणिच ।
प्रतिष्ठितांद्वादशभिर्मामूचुश्शुभलक्षणाम् ॥ 12 ॥

समग्रयवमच्छ्रिद्रपाणिपादंचवर्णवत् ।
मंदस्मितेत्येवचमांकन्यालाक्षणिनोद्विजाः ॥ 13 ॥

आधिराज्येऽभिषेकोमेब्राह्मणैःपतिनासह ।
कृतांतकुशलैरुक्तंतत्सर्वंवितथीकृतम् ॥ 14 ॥

शोधयित्वाजनस्थानंप्रवृततिमुपलभ्यच ।
तीर्त्वासागरमक्षोभ्यंभ्रातरौगोष्पदेहतौ ॥ 15 ॥

ननुवारुणमाग्नेयमैंद्रंवायव्यमेवच ।
अस्त्रंब्रह्मशिरश्चैवप्रत्यपद्यताम् ॥ 16 ॥

अदृश्यमानेनरणेमाययावासवोपमौ ।
ममनाथावनाथायानिहतौरामलक्ष्मणौ ॥ 17 ॥

नहिदृष्टिपथंप्राप्यराघवस्यरणेरिपुः ।
जीवन्प्रंतिवर्तेतयद्यपिस्यान्मनोजवः ॥ 18 ॥

नकलस्यातिभारोऽस्तिकृतांतश्चसुदुर्जयः ।
यत्ररामःसहभ्रात्राशेतेयुधिनिपातितः ॥ 19 ॥

नशोचामितथारामंलक्ष्मणंचमहारथम् ।
वात्मानंजननींचापियथाश्वश्रूंतपस्विनीम् ॥ 20 ॥

सातुचिंतयतेनित्यंसमाप्तव्रतमागतम् ।
कदाद्रक्ष्यामिसीतांचलक्ष्मणंचसराघवम् ॥ 21 ॥

परिदेवयमानांतांराक्षसीत्रिजटाब्रवीत् ।
माविषादंकृथादेवी भर्ताऽयंतवजीवति ॥ 22 ॥

कारणानिचवक्ष्यामिमहांतिसदृशानिच ।
यथेमौजीवतोदेवीभ्रातरौरामलक्ष्मणौ ॥ 23 ॥

नहिकोपपरीतानिहर्षपर्युत्सुकानिच ।
भवंतियुधियोधानांमुखानिनिहतेपतौ ॥ 24 ॥

इदंविमानंवैदेही पुष्पकंनामनामतः ।
दिव्यंत्वांदारयन्नैवंयद्येतौगतजीवितौ ॥ 25 ॥

हतवीरप्रधानाहिगतोत्साहानिरुद्यमा ।
सेनाभ्रमतिसङ् ख्येषुहतकर्णेवनौर्जले ॥ 26 ॥

इयंपुनरसंभ्रांतानिरुद्विग्नातरस्विनी ।
सेनारक्षतिकाकुत्स्थौमयाप्रीत्यानिवेदितौ ॥ 27 ॥

सात्वंभवसुविस्रब्धाअनुमानैस्सुखोदयैः ।
अहतौपश्यकाकुत्स्थौस्नेहादेतद्ब्र्रवीमिते ॥ 28 ॥

अनृतंनोक्तपूर्वंमेनचवक्ष्येकदाचन ।
चारित्रसुखशीलत्वात् प्रविष्टाअसिमनःमम ॥ 29 ॥

नेमौशक्यारणेजेतुंसेंद्रैरपिसुरासुरैः ।
तादृशंदर्शनंदृष्टवामयाचावेदितंतव ॥ 30 ॥

इदंचसुमहचचित्रंशरैःपश्यस्वमैथिलि ।
निस्संज्ञावप्युभावेतौनैवलक्ष्मीर्विमुंचति ॥ 31 ॥

प्रायेणगतसत्त्वानांपुरुषाणांगतायुषाम् ।
दृश्यमानेषुवक्त्रेषुपरंभवतिवैकृतम् ॥ 32 ॥

त्यजशोकंचमोहंचदुःखंचजनकात्मजे ।
रामलक्ष्मणयोरर्थेनाद्यशक्यमजीवितुम् ॥ 33 ॥

शुत्वातुवचनंतस्याःसीतासुरसुतोपमा ।
कृतांजलिरुवाचेमामेवमस्त्वितिमैथिलि ॥ 34 ॥

विमानंपुष्पकंतत्तुसन्निवर्त्यमनोजवम् ।
दीनात्रिजटयासीतालंकामेवप्रवेशिता ॥ 35 ॥

ततस्त्रिजटयासार्थंपुष्पकादवरुह्यसा ।
अशोकवनिकामेवराक्षसीभिःप्रवेशिता ॥ 36 ॥

प्रविश्यसीताबहुवृक्षषंडांतांराक्षसेंद्रस्यविहारभूमिम् ।
संप्रेक्ष्यसंचिंत्यचराजपुत्रौपरंविषादंसमुपाजगाम ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टचत्वारिंशस्सर्गः ॥




Browse Related Categories: