View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.73 अरण्यकांड - त्रिसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रिसप्ततितमस्सर्गः ।

निदर्शयित्वा रामाय सीतायाः प्रतिपादने ।
वाक्यमन्वर्थमर्थज्ञः कबंधः पुनरब्रवीत् ॥ 1 ॥

एष राम शिवः पंथा यत्रैते पुष्पिता द्रुमाः ।
प्रतीचीं दिशमाश्रित्य प्रकाशंते मनोरमाः ॥ 2 ॥

जंबूप्रियालपनसप्लक्षन्यग्रोधतिंधुकाः ।
अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादापाः ॥ 3 ॥

धन्वना नागवृक्षाश्च तिलका नक्तमालकाः ।
नीलाशोकाः कदंबाश्च करवीराश्च पुष्पिताः ॥ 4 ॥

अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ।
तानारुह्याथवा भूमौ पातयित्वा च तान्बलात् ॥ 5 ॥

फलान्यमृतकल्पानि भक्षयंतौ गमिष्यथः ।
तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ॥ 6 ॥

नंदनप्रतिमं चान्यत्कुरवो ह्युत्तरा इव ।
सर्वकालफला यत्र पादपास्तु मधुस्रवाः ॥ 7 ॥

सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ।
फलभारानतास्तत्र महाविटपधारिणः ॥ 8 ॥

शोभंते सर्वतस्तत्र मेघपर्वतसन्निभाः ।
तानारुह्याथवा भूमौ पातयित्वा यथासुखम् ॥ 9 ॥

फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ।
चंक्रमंतौ वरांदेशान्शैलाच्छैलं वनाद्वनम् ॥ 10 ॥

ततः पुष्करिणीं वीरौ पंपां नाम गमिष्यथः ।
अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥ 11 ॥

राम संजातवालूकां कमलोत्पलशालिनीम् ।
तत्र हंसाः प्लवाः क्रौंचाः कुरराश्चैव राघव ॥ 12 ॥

वल्गुस्वना विकूजंति पंपासलिलगोचराः ।
नोद्विजंते नरांदृष्ट्वा वधस्याकोविदाश्शुभाः ॥ 13 ॥

घृतपिंडोपमान् स्थूलांस्तांद्विजान्भक्षयिष्यथः ।
रोहितान्वक्रतुंडांश्च नडमीनांश्च राघव ॥ 14 ॥

पंपायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान् ।
निस्त्वक्पक्षानयस्तप्तानकृशानेककंटकान् ॥ 15 ॥

तव भक्त्या समायुक्तो लक्ष्मणस्संप्रदास्यति ।
भृशते खादतो मत्स्यान्पंपायाः पुष्पसंचये ॥ 16 ॥

पद्मगंधि शिवं वारि सुखशीतमनामयम् ।
उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम् ॥ 17 ॥

असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ।
स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः ॥ 18 ॥

अपां लोभादुपावृत्तान्वृषभानिव नर्दतः ।
रूपावनितांश्च पंपायांद्रक्ष्यसि त्वं नरोत्तम ॥ 19 ॥

सायाह्ने विचरन्राम विटपीन्माल्यधारिणः ।
शीतोदकं च पंपाया दृष्ट्वा शोकं विहास्यसि ॥ 20 ॥

सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् ।
उत्पलानि च फुल्लानि पंकजानि च राघव ॥ 21 ॥

न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ।
न च वै म्लानतां यांति न च शीर्यंति राघव ॥ 22 ॥

मतंगशिष्यास्तत्राऽसन्नृषयस्सुसमाहिताः ।
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥ 23 ॥

ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिंदवः ।
तानि जातानि माल्यानि मुनीनां तपसा तदा ॥ 24 ॥

स्वेदबिंदुसमुत्थानि न विनश्यंति राघव ।
तेषां गतानामद्यापि दृश्यते परिचारिणी ॥ 25 ॥

श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ।
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ॥ 26 ॥

दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ।
ततस्तद्राम पंपायास्तीरमासाद्य पश्चिमम् ॥ 27 ॥

आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ।
न तत्राक्रमितुं नागाश्शक्नुवंति तमाश्रमम् ॥ 28 ॥

विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ।
ऋषेस्तत्र मतंगस्य विधानात्तच्च काननम् ॥ 29 ॥

तस्मिन्नंदनसंकाशे देवारण्योपमे वने ।
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः ॥ 30 ॥

ऋष्यमूकश्च पंपायाः पुरस्तात्पुष्पितद्रुमः ।
सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ॥ 31 ॥

उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ।
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ॥ 32 ॥

यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ।
नत्वेनं विषमाचार पापकर्माऽधिरोहति ॥ 33 ॥

यस्तु तं विषमाचारः पापकर्माऽधिरोहति ।
तत्रैव प्रहऱंत्येनं सुप्तमादाय राक्षसाः ॥ 34 ॥

तत्रापि शिशुनागानामाक्रंधश्श्रूयते महान् ।
क्रीडतां राम पंपायां मतंगारण्यवासिनाम् ॥ 35 ॥

सिक्ता रुधिरधाराभिस्संहृत्य परमद्विपाः ।
प्रचरंति पृथक्कीर्णा मेघवर्णास्तरस्विनः ॥ 36 ॥

ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ।
निर्वृतास्संविगाहंते वनानि वनगोचराः ॥ 37 ॥

ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् ।
रुरूनपेतापजयान् दृष्ट्वा शोकं जयिष्यसि ॥ 38 ॥

राम तस्य तु शैलस्य महती शोभते गुहा ।
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ॥ 39 ॥

तस्या गुहायाः प्राग्द्वारे महान्शीतोदको ह्रदः ।
फलमूलान्वितो रम्यो नानामृगसमावृतः ॥ 40 ॥

तस्यां वसति सुग्रीवश्चतुर्भिस्सह वानरैः ।
कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ॥ 41 ॥

कबंधस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ।
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥ 42 ॥

तं तु खस्थं महाभागं कबंधं रामलक्ष्मणौ ।
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरंतिके ॥ 43 ॥

गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च ।
सुप्रीतौ तावनुज्ञाप्य कबंधः प्रस्थितस्तदा ॥ 44 ॥

स तत्कबंधः प्रतिपद्य रूपं वृतश्श्रिया भास्करतुल्यदेहः ।
निदर्शयन्राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रिसप्ततितमस्सर्गः ॥




Browse Related Categories: