View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.32 युद्धकांड - द्वात्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्वात्रिंशस्सर्गः ।

सासीतातच्छिरोदृष्टवातच्चकार्मुकमुत्तमम् ।
सुग्रीवप्रतिसंपर्गमाख्यातंचहनूमता ॥ 1 ॥

नयनेमुखवर्णंचभर्तुस्तत्सदृशंमुखम् ।
केशान् केशांतदेशंचतंचचूडामणिंशुभम् ॥ 2 ॥

एतैस्सर्वेरभिज्ञानैरभिज्ञायसुदुःखिता ।
निजगर्हेचकैकेयींक्रोशंतीकुररीयथा ॥ 3 ॥

सकामाभवकैकेयीहतोऽयंकुलनंदनः ।
कुलमुत्सादितंसर्वंत्वयाकलहशीलया ॥ 4 ॥

आर्येणकिंतेकैकेयी कृतंरामेणविप्रियम् ।
यन्मयाचीरवसनस्त्वयाप्रस्थापितोवनम् ॥ 5 ॥

एवं उक्त्वा तु वैदेही वेपमाना तपस्विनी ।
जगाम जगतीं बाला चिन्ना तु कदली यथा ॥ 6 ॥

सामुहूर्तात्समाश्वास्यप्रतिलभ्यचचेतनाम् ।
तच्छिरस्समुपाघ्रायविललासायतेक्षणा ॥ 7 ॥

हाहताऽस्मिमहाबाहो वीरव्रतमनुव्रत ।
इमांतेपश्चिमावस्थांगताऽस्मिविधवाकृता ॥ 8 ॥

प्रथमंमरणंनार्याभर्तुर्वैगुण्यमुच्यते ।
सुवृत्तः स्साधुवृत्तायास्सम्वृत्तस्त्वंममाग्रतः ॥ 9 ॥

दुःखाद्दुःखंप्रपन्नायामग्नायाश्शोकसागरे ।
योहिमामुद्यतनिस्त्रातुंसोऽपित्वंविनिपातितः ॥ 10 ॥

साश्वश्रूर्ममकौसल्यात्वयापुत्रेणराघवः ।
वत्सेनेवयथाधेनुर्विवत्सावत्सलाकृता ॥ 11 ॥

आद्दिष्टंदीर्घमायुस्तेयैरचिंत्यपराक्रम ।
अनृतंवचनंतेषामल्पायुरपिराघव ॥ 12 ॥

अथवानश्यतिप्रज्ञाप्राज्ञस्यापिसतस्तव ।
पचत्येनंयथाकालोभूतानांप्रभवोऽह्ययम् ॥ 13 ॥

अदृष्टंमृत्युमापन्नःकस्मात्त्वंनयशास्त्रवित् ।
व्यसनानामुपायज्ञःकुशलोह्यसिवर्जने ॥ 14 ॥

तथा त्वं संपरिष्वज्य रौद्रया अतिनृशंसया ।
काल रात्र्या मया आच्चिद्य हृतः कमल लोचन ॥ 15 ॥

उपशेषेमहाबाहोः मांविहायतपस्विनीम् ।
प्रियामिवसमालशिष्यपृथिवींपुरुषर्षभ ॥ 16 ॥

अर्चितंसततंयत्तद्गंधमाल्यैर्मयातव ।
इदंतेमप्रतियंवीरधनुःकांचानभूषणम् ॥ 17 ॥

पित्रादशरथेनत्वंश्वशुरेणममानघः ।
सर्वैश्चपितृभिस्सार्थंनूनंस्वर्गेसमागतः ॥ 18 ॥

दिविनक्षत्रभूतस्त्वंमहात्कर्मकृतप्रियम् ।
पुण्यंराजर्षिवंशंत्वमात्मनस्समुपेक्षसे ॥ 19 ॥

किंमांनप्रेक्षसेराजन् किंमांनप्रतिभाषसे ।
बालांबाल्येनसंप्राप्तांभार्यांमांसहचारिणीम् ॥ 20 ॥

संश्रुतंगृह्णतापाणिंचरिष्यामीतियत्त्वया ।
स्मरतन्ममकाकुत्स्थनयमामपिदुःखिताम् ॥ 21 ॥

कस्मान्मामपहायत्वंगतोगतिमतांवर ।
अस्माल्लोकादमुंलोकंत्यक्त्वामामपिदुःखिताम् ॥ 22 ॥

कल्याणैरुचितंयत्तत्परिष्वक्तंमयैवतु ।
क्रव्यादैस्तच्छरीरंतेमानंविपरिकृष्यते ॥ 23 ॥

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
अग्निहोत्रेणसंस्कारंकेनत्वंनतुलप्स्यसे ॥ 24 ॥

प्रव्रज्यामुपपन्नानांत्रयाणामेकमागतम् ।
परिप्रक्ष्यतिकौसल्यालक्ष्मणंशोकलालसा ॥ 25 ॥

सतस्याःपरिपृच्छंत्यावधंमित्रबलस्यते ।
तवचाख्यास्यतेनूनंनिशायांराक्षसैर्वधम् ॥ 26 ॥

सात्वांसुप्तंहतंश्रुत्वामांचरक्षोगृहंगताम् ।
हृदयेनविदीर्णेननभविष्यतिराघव ॥ 27 ॥

ममहेतोरनार्यायाह्यनर्हःपार्थिवात्मः ।
रामस्सागरमुततीर्यसत्त्ववान् गोष्पदेहतः ॥ 28 ॥

अहंदाशरथेनोढामोहात्स्वकुलपांसनी ।
आर्यपुत्रस्यरामस्यभार्यामृत्युरजायत ॥ 29 ॥

नूनमन्यांमयाजातिंवारितंदानमुत्तमम् ।
याहमद्येहशोचामिभार्यासर्वतिथेरपि ॥ 30 ॥

साधुपातयमांक्षिप्रंरामस्योपरिरावण ।
समानयपतिंपंत्याकुरुकल्याणमुत्तमम् ॥ 31 ॥

शिरसामेशिरश्चास्यकायंकायेनयोजय ।
रावणानुगमिष्यामिगतिंभर्तुर्महात्मनः ॥ 32 ॥

इतिसदुःखसंतप्ताविललापायतेक्षणा ।
भर्तुश्शिरोधनुस्तत्रसमीक्ष्यचपुनःपुनः ॥ 33 ॥

एवंलालप्यमानायांसीतायांतत्रराक्षसः ।
अभिचक्रामभर्तारमनीकस्थःकृतांजलिः ॥ 34 ॥

विजयस्वार्यपुत्रेतिसोऽभिवाद्यप्रसाद्यच ।
न्यवेदयदनुप्राप्तंप्रहस्तंवाहिनीपतिम् ॥ 35 ॥

अमात्यैस्सहितस्सर्वैःप्रहस्तस्समुपस्थितः ।
तेनदर्शनकामेनवयंप्रस्थापिताःप्रभो ॥ 36 ॥

नूनमस्तिमहाराज राजभावात्क्षमान्वितम् ।
किंचिदात्ययिकंकार्यंतेषांत्वंदर्शनंकुरु ॥ 37 ॥

एतच्छ्रुत्वादशग्रीवोराक्षसप्रतिवेदितम् ।
अशोकन्विकांत्यक्त्वामंत्रिणांदर्शनंययौ ॥ 38 ॥

सतुसर्वंसमर्थ्यैवमंत्रिभिःकृत्यमात्मनः ।
सभांप्रविश्यविदधेविदित्वारामविक्रमम् ॥ 39 ॥

अंतर्थानंतुतच्छीर्षंतच्चकार्मुकमुत्तमम् ।
जगामरावणस्यैवनिर्याणसमनंतरम् ॥ 40 ॥

राक्षसेंद्रस्तुतैस्सार्धंमंत्रिभिर्भीमविक्रमैः ।
समर्थयामासतदारामकार्यविनिश्चयम् ॥ 41 ॥

अविदूरस्थितान्सर्वान्बलाध्यक्षाहनितैषिणः ।
अब्रवीत्कालसदृशोरावणोराक्षसाधिपः ॥ 42 ॥

शीघ्रंभेरीनिनादेनस्फुटंकोणाहतेनमे ।
समानयध्वंसैन्यानिवक्तव्यंचनकारणम् ॥ 43 ॥

ततस्तथेतिप्रतिगृह्यतद्वचोबलाधिपास्तेमहदात्मनोबलम् ।
समानयंश्चैवसमागमंचतेन्यवेदयन्भर्तरियुद्धकांक्षिणि ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्वात्रिंशस्सर्गः ॥




Browse Related Categories: