श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकोनविंशस्सर्गः ।
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ 1 ॥
सदृशं राजशार्दूल तवैतद्भुवि नान्यथा ।
महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ 2 ॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।
कुरूष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥ 3 ॥
अहंनियममातिष्ठे सिध्यर्थं पुरुषर्षभ ।
तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ 4 ॥
व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ ।
मारीचश्च सुबाहुश्च वीर्यवंतौ सुशिक्षितौ ॥ 5 ॥
समांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ।
अवधूते तथाभूते तस्मिन्नियमनिश्चये ॥ 6 ॥
कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे ।
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ॥ 7 ॥
तथा भूता हि सा चर्या न शापस्तत्र मुच्यते ।
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ॥ 8 ॥
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ।
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ॥ 9 ॥
राक्षसा ये विकर्तारस्तेषामपि विनाशने ।
श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ॥ 10 ॥
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ।
न च तौ राममासाद्य शक्तौ स्थातुं कथंचन ॥ 11 ॥
न च तौ राघवादन्यो हंतुमुत्सहते पुमान् ।
वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ॥ 12 ॥
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ।
न च पुत्रकृतस्नेहं कर्तुमर्हसि पार्थिव ॥ 13 ॥
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ।
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ॥ 14 ॥
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ।
यदि ते धर्मलाभं च यशश्च परमं भुवि ॥ 15 ॥
स्थितमिच्छसि राजेंद्र रामं मे दातुमर्हसि ।
यदिह्यनुज्ञां काकुत्स्थ ददते तव मंत्रिणः ॥ 16 ॥
वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय ।
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ॥ 17 ॥
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ।
नात्येति कालो यज्ञस्य यथाऽयं मम राघव ॥ 18 ॥
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ।
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ॥ 19 ॥
विरराम महातेजा विश्वामित्रो महामुनिः ।
स तन्निशम्य राजेंद्रो विश्वामित्रवचश्शुभम् ॥ 20 ॥
शोकमभ्यगमत्तीव्रं व्यषीदत भयान्वितः ।
इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् ।
नरपतिरभवन्महांस्तदा व्यथितमनाः प्रचचाल चासनात् ॥ 21 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकोनविंशस्सर्गः ॥