View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.17 अयोध्याकांड - सप्तदश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तदशस्सर्गः ।

स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः ।
पताकाध्वजसंपन्नं महार्हागरुधूपितम् ॥ 1 ॥

अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम् ।
स गृहैरभ्रसंकाशैः पांडुरैरुपशोभितम् ॥ 2 ॥

राजमार्गं ययौ रामो मध्येनागरुधूपितम् ।
चंदनानां च मुख्यानामगरूणां च संचयैः ॥ 3 ॥

उत्तमानां च गंधानां क्षौमकोशांबरस्य च ।
अविद्धाभिश्च मुक्ताभिरुत्तमैस्स्फाटिकैरपि ॥ 4 ॥

शोभमानमसंबाधैस्तं राजपथमुत्तमम् ।
संवृतं विविधैःपुष्पैर्भक्ष्यैरुच्चावचैरपि ॥ 5 ॥

ददर्श तं राजपथं दिवि देवपथं यथा ।
दध्यक्षतहविर्लाजैर्धूपैरगरुचंदनैः ॥ 6 ॥

नानामाल्योपगंधैश्च सदाऽभ्यर्चितचत्वरम् ।
अशीर्वादान्बहून् शृण्वन्सुहृद्भिस्समुदीरितान् ॥ 7 ॥

यथार्हं चापि संपूज्य सर्वानेव नरान्ययौ ।
पितामहैराचरितं तथैव प्रपितामहैः ॥ 8 ॥

अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ।
यथास्म पोषिताः पित्रा यथा सर्वैः पितामहैः ॥ 9 ॥

ततस्सुखतरं रामे वत्स्यामस्सति राजनि ।
अलमद्य हि भुक्तेन परमार्थैरलं च नः ॥ 10 ॥

यदि पश्याम निर्यांतं रामं राज्ये प्रतिष्ठितम् ।
अतो हि नः प्रियतरं नान्यत्किंचिद्भविष्यति ॥ 11 ॥

यथाऽभिषेको रामस्य राज्येनामिततेजसः ।
एताश्चान्याश्च सुहृदामुदासीनः कथाश्शुभाः ॥ 12 ॥

आत्मसंपूजनीश्शृण्वन्ययौ रामो महापथम् ।
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ॥ 13 ॥

नर श्शक्नोत्यपाक्रष्टुमतिक्रांतेऽपि राघवे ।
यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥ 14 ॥

निंदित स्सर्वल्लोकेषु स्वात्माऽप्येनं विगर्हते ।
सर्वेषु हि स धर्मात्मा वर्णानां कुरुते दयाम् ॥ 15 ॥

चतुर्णां हि वयः स्थानां तेन ते तमनुव्रताः ।
चतुष्पथांदेवपथांश्चैत्यान्यायतनानि च ॥ 16 ॥

प्रदक्षिणं परिहरन् जगाम नृपते स्सुतः ।
स राजकुलमासाद्य मेघसंघोपमै श्शुभैः ॥ 17 ॥

प्रासादशृंगैर्विविधैःकैलास शिखरोपमैः ।
आवारयद्भिर्गगनं विमानैरिव पांडुरैः ॥ 18 ॥

वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ।
तत्पृथिव्यां गृहवरं महेंद्रसदनोपमम् ॥ 19 ॥

राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ।
स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥ 20 ॥

पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।
स सर्वा स्समतिक्रम्य कक्ष्या दशरथात्मजः ।
सन्निवर्त्य जनं सर्वं शुद्धांतः पुरमभ्यगात् ॥ 21 ॥

तस्मिन् प्रविष्टे पितुरंतिकं तदा जन स्स सर्वो मुदितो नृपात्मजे ।
प्रतीक्षते तस्य पुनः स्म निर्गमं यथोदयं चंद्रमसस्सरित्पतिः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तदशस्सर्गः ॥




Browse Related Categories: