View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.37 सुंदरकांड - सप्तत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ सप्तत्रिंशस्सर्गः ।

सीता तद्वचनं श्रुत्वा पूर्णचंद्रनिभानना ।
हनूमंतमुवाचेदं धर्मार्थसहितं वचः ॥ 1 ॥

अमृतं विषसंसृष्टं त्वया वानर भाषितम् ।
यच्च नान्यमना रामो यच्च शोकपरायणः ॥ 2 ॥

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषं बद्ध्वा कृतांतः परिकर्षति ॥ 3 ॥

विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम ।
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ 4 ॥

शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति ।
प्लवमानः परिश्रांतो हतनौ स्सागरे यथा ॥ 5 ॥

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।
लंकामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ 6 ॥

स वाच्यस्संत्वरस्वेति यावदेव न पूर्यते ।
अयं संवत्सरः कालस्तावद्धि मम जीवितम् ॥ 7 ॥

वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम ।
रावणेन नृशंसेन समयो यः कृतो मम ॥ 8 ॥

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।
अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम् ॥ 9 ॥

मम प्रतिप्रदानं हि रावणस्य न रोचते ।
रावणं मार्गते संख्ये मृत्युः कालवशं गतम् ॥ 10 ॥

ज्येष्ठा कन्या नला नाम विभीषणसुता कपे ।
तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ॥ 11 ॥

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।
अंतरात्मा च मे शुद्धस्तस्मिंश्च बहवो गुणाः ॥ 12 ॥

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।
विक्रमश्च प्रभावश्च संति वानर राघवे ॥ 13 ॥

चतुर्दशसहस्राणि राक्षसानां जघान यः ।
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥ 14 ॥

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।
अहं तस्य प्रभावज्ञा शक्रस्येव पुलोमजा ॥ 15 ॥

शरजालांशुमान्शूरः कपे रामदिवाकरः ।
शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ॥ 16 ॥

इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।
आश्रुसंपूर्णनयनामुवाच वचनं कपिः ॥ 17 ॥

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ।
चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम् ॥ 18 ॥

अथवा मोचयिष्यामि त्वामद्यैव वरानने ।
अस्माद्धुःखादुपारोह मम पृष्ठमनिंदिते ॥ 19 ॥

त्वां हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम् ।
शक्तिरस्ति हि मे वोढुं लंकामपि सरावणाम् ॥ 20 ॥

अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि ।
प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः ॥ 21 ॥

द्रक्ष्यस्यद्वैव वैदेहि राघवं सहलक्ष्मणम् ।
व्यवसायसमायुक्तं विष्णुं दैत्यवधे यथा ॥ 22 ॥

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।
पुरंदरमिवासीनं नागराजस्य मूर्धनि ॥ 23 ॥

पृष्ठमारोह मे देवि मा विकांक्षस्व शोभने ।
योगमन्विच्छ रामेण शशांकेनेव रोहिणी ॥ 24 ॥

कथयंतीव चंद्रेण सूर्येण च महार्चिषा ।
मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवौ ॥ 25 ॥

न हि मे संप्रयातस्य त्वामितो नयतोऽंगने ।
अनुगंतुं गतिं शक्तास्सर्वे लंकानिवासिनः ॥ 26 ॥

यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।
यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ॥ 27 ॥

मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम् ।
हर्षविस्मितसर्वांगी हनुमंतमथाब्रवीत् ॥ 28 ॥

हनुमंदूरमध्वानं कथं मां वोढुमिच्छसि ।
तदेव खलु ते मन्ये कपित्वं हरियूथप ॥ 29 ॥

कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।
सकाशं मानवेंद्रस्य भर्तुर्मे प्लवगर्षभ ॥ 30 ॥

सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः ।
चिंतयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥ 31 ॥

न मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा ।
तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः ॥ 32 ॥

इति संचिंत्य हनुमांस्तदा प्लवगसत्तमः ।
दर्शयामास वैदेह्यास्स्वरूपमरिमर्दनः ॥ 33 ॥

स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।
ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ॥ 34 ॥

मेरुमंदरसंकाशो बभौ दीप्तानलप्रभः ।
अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ॥ 35 ॥

हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः ।
वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ॥ 36 ॥

सपर्वतवनोद्देशां साट्टप्राकारतोरणाम् ।
लंकामिमां सनाथां वा नयितुं शक्तिरस्ति मे ॥ 37 ॥

तदवस्थाप्यतां बुद्धिरलं देवि विकांक्षया ।
विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ॥ 38 ॥

तं दृष्ट्वा भीमसंकाशमुवाच जनकात्मजा ।
पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ॥ 39 ॥

तव सत्त्वं बलं चैव विजानामि महाकपे ।
वायोरिव गतिं चैव तेजश्चाग्नेरिवाद्भुतम् ॥ 40 ॥

प्राकृतोऽन्यः कथं चेमां भूमिमागंतुमर्हति ।
उदधेरप्रमेयस्य पारं वानरपुंगव ॥ 41 ॥

जानामि गमने शक्तिं नयने चापि ते मम ।
अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ॥ 42 ॥

अयुक्तं तु कपिश्रेष्ठ मम गंतुं त्वयाऽनघ ।
वायुवेगसवेगस्य वेगो मां मोहयेत्तव ॥ 43 ॥

अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।
प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेव गच्छतः ॥ 44 ॥

पतिता सागरे चाहं तिमिनक्रझषाकुले ।
भवेयमाशु विवशा यादसामन्नमुत्तमम् ॥ 45 ॥

न च शक्ष्ये त्वया सार्धं गंतुं शत्रुविनाशन ।
कलत्रवति संदेहस्त्वय्यपि स्यादसंशयः ॥ 46 ॥

ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।
अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ॥ 47 ॥

तैस्त्वं परिवृतश्शूरैश्शूलमुद्गरपाणिभिः ।
भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ॥ 48 ॥

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।
कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ॥ 49 ॥

युध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।
प्रपतेयं हि ते पृष्ठाद्भयार्ता कपिसत्तम ॥ 50 ॥

अथ रक्षांसि भीमानि महांति बलवंति च ।
कथंचित्सांपराये त्वां जयेयुः कपिसत्तम ॥ 51 ॥

अथवा युध्यमानस्य पतेयं विमुखस्य ते ।
पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ॥ 52 ॥

मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा ।
अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥ 53 ॥

अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।
त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु ॥ 54 ॥

कामं त्वमसि पर्याप्तो निहंतुं सर्वराक्षसान् ।
राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ॥ 55 ॥

अथवाऽदाय रक्षांसि न्यसेयुस्सम्वृते हि माम् ।
यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ॥ 56 ॥

आरंभस्तु मदर्थोऽयं ततस्तव निरर्थकः ।
त्वया हि सह रामस्य महानागमने गुणः ॥ 57 ॥

मयि जीवितमायत्तं राघवस्य महात्मनः ।
भ्रात्रूणां च महाबाहो तव राजकुलस्य च ॥ 58 ॥

तौ निराशौ मदर्थं तु शोकसंतापकर्शितौ ।
सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ॥ 59 ॥

भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर ।
न स्पृशामि शरीरं तु पुंसो वानरपुंगव ॥ 60 ॥

यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।
अनीशा किं करिष्यामि विनाथा विवशा सती ॥ 61 ॥

यदि रामो दशग्रीवमिह हत्त्वा सबांधवम् ।
मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ॥ 62 ॥

श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।
न देवगंधर्वभुजंगराक्षसा भवंति रामेण समा हि संयुगे ॥ 63 ॥

समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।
सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ॥ 64 ॥

सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।
सहेत को वानरमुख्य संयुगे युगांतसूर्यप्रतिमं शरार्चिषम् ॥ 65 ॥

स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।
चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ॥ 66 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे सप्तत्रिंशस्सर्गः ॥




Browse Related Categories: