View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.111 अयोध्याकांड - एकादशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकादशाधिकशततमस्सर्गः ।

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः ।
अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ 1 ॥

पुरुषस्येह जातस्य भवंति गुरवस्त्रयः ।
आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥ 2 ॥

पिता ह्येवं जनयति पुरुषं पुरुषर्षभ ।
प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ 3 ॥

सोऽहं ते पितुराचार्यस्तव चैव परंतप ।
मम त्वं वचनं कुर्वन्नातिवर्तेस्सतां गतिम् ॥ 4 ॥

इमा हि ते परिषद श्श्रेणयश्च द्विजास्तथा ।
एषु तात चरंधर्मं नातिवर्तेः सतां गतिम् ॥ 5 ॥

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् ।
अस्या हि वचनं कुर्वन्नातिवर्तेस्सतां गतिम् ॥ 6 ॥

भरतस्य वचः कुर्वन्याचमानस्य राघव ।
आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ॥ 7 ॥

एवं मधुरमुक्तस्सन् गुरुणा राघवस्स्वयम् ।
प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥ 8 ॥

यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।
न सुप्रतिकरं तत् तु मात्रा पित्रा च यत्कृतम् ॥ 9 ॥

यथाशक्ति प्रदानेन स्वापनोच्छादनेन च ।
नित्यं च प्रियवादेन तथा संवर्धनेन च ॥ 10 ॥

यन्मातापितरौ वृत्तं तनये कुरुतस्सदा ।
न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ 11 ॥

यथाशक्तिप्रदानेन स्वापनोच्छादनेन च ।
नित्यं च प्रियवादेन तथा संवर्धनेन च ॥ 12 ॥

स हि राजा जनयिता पिता दशरथो मम ।
आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ 13 ॥

एवमुक्तस्तु रामेण भरतः प्रत्यनंतरम् ।
उवाच परमोदारस्सूतं परमदुर्मनाः ॥ 14 ॥

इह मे स्थंडिले शीघ्रं कुशानास्तर सारथे ।
आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ 15 ॥

अनाहारो निरालोको धनहीनो यथा द्विजः ।
शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति ॥ 16 ॥

स तु राममवेक्षंतं सुमंत्रं पेक्ष्य दुर्मनाः ।
कुशोत्तरमुपस्थाप्य भूमावेवाऽस्तरत्स्वयम् ॥ 17 ॥

तमुवाच महातेजा रामो राजर्षिसत्तमः ।
किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ 18 ॥

ब्राह्मणो ह्येकपार्श्वेन नरान्रोद्धुमिहार्हति ।
न तु मूर्धाभिषिक्तानां विधिः प्रत्युपवेशने ॥ 19 ॥

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।
पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ॥ 20 ॥

आसीनस्त्वेव भरतः पौरजानपदं जनम् ।
उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥ 21 ॥

ते तदोचुर्महात्मानं पौरजानपदा जनाः ।
काकुत्स्थमभिजानीमः सम्यग् वदति राघवः ॥ 22 ॥

एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति ।
अत एव न शक्ताः स्मो व्यावर्तयितुमंजसा ॥ 23 ॥

तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।
एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ 24 ॥

एतच्चैवोभयं श्रुत्वा सम्यक्संपश्य राघव ।
उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ 25 ॥

अथोत्थाय जलंस्पृष्ट्वा भरतो वाक्यमब्रवीत् ।
श्रुण्वंतु मे परिषदो मंत्रिण श्श्रेणयस्तथा ॥ 26 ॥

न याचे पितरं राज्यं नानुशासामि मातरम् ।
आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ 27 ॥

यदित्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः ।
अहमेव निवत्स्यामि चतुर्दश समा वने ॥ 28 ॥

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः ।
उवाच राम स्संप्रेक्ष्य पौरजानपदं जनम् ॥ 29 ॥

विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम ।
न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ 30 ॥

उपधिर्न मया कार्यो वनवासे जुगुप्सितः ।
युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ 31 ॥

जानामि भरतं क्षांतं गुरुसत्कारकारिणम् ।
सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि ॥ 32 ॥

अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः ।
भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ 33 ॥

वृतो हि राजा कैकेय्या मया तद्वचनं कृतम् ।
अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकादशाधिकशततमस्सर्गः ॥




Browse Related Categories: