View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.59 अरण्यकांड - एकोनषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकोनषष्टितमस्सर्गः ।

अथाश्रमादुपावृत्तमंतरा रघुनंदनः ।
परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ॥ 1 ॥

तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् ।
यदा सा तव विश्वासाद्वने विरहिता मया ॥ 2 ॥

दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण ।
शंकमानं महत्पापं यत्सत्यं व्यथितं मनः ॥ 3 ॥

स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे ।
दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ॥ 4 ॥

एवमुक्तंतु सौमित्रिर्लक्ष्मणश्शुभलक्षणः ।
भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ 5 ॥

न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः ।
प्रचोदित स्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥ 6 ॥

आर्येणेव पराक्रुष्टं हासीते लक्ष्मणेति च ।
परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥ 7 ॥

सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली ।
गच्छ गच्छेति मामाह रुदंती भयविह्वला ॥ 8 ॥

प्रचोद्यमानेन मया गच्छेति बहुशस्तया ।
प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥ 9 ॥

न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् ।
निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ॥ 10 ॥

विगर्हितं च नीचं च कथमार्योऽभिधास्यति ।
त्राहीति वचनं सीते यस्त्रायेत्रिदशानपि ॥ 11 ॥

किं निमित्तं तु केनापि भ्रातुरालंब्य मे स्वरम् ।
राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने ॥ 12 ॥

विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ।
न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ 13 ॥

अलं वैक्लब्यमालंब्य स्वस्था भव निरुत्सुका ।
न सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे ॥ 14 ॥

जातो वा जायमानो वा संयुगे यः पराजयेत् ।
न जय्यो राघवो युद्धे देवैश्शक्रपुरोगमैः ॥ 15 ॥

एवमुक्ता तु वैदेही परिमोहितचेतना ।
उवाचाश्रूणि मुंचंती दारुणं मामिदं वचः ॥ 16 ॥

भावो मयि तवात्यर्थं पाप एव निवेशितः ।
विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ॥ 17 ॥

संकेताद्भरतेन त्वं रामं समनुगच्छसि ।
क्रोशंतं हि यथात्यर्थं नैवमभ्यवपद्यसे ॥ 18 ॥

रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ।
राघवस्यांतरप्रेप्सुस्तथैनं नाभिपद्यसे ॥ 19 ॥

एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः ।
क्रोधात्प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः ॥ 20 ॥

एवं ब्रुवाणं सौमित्रिं रामस्संतापमोहितः ।
अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः ॥ 21 ॥

जानन्नपि समर्थं मां रक्षसां विनिवारणे ।
अनेन क्रोधवाक्येन मैथिल्या निस्सृतो भवान् ॥ 22 ॥

न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् ।
क्रुद्धायाः परुषं श्रुत्वा तां विहाय त्वमागतः ॥ 23 ॥

सर्वथा त्वविनीतं ते सीतया यत्प्रचोदितः ।
क्रोधस्य वशमापन्नो नाकरोश्शासनं मम ॥ 24 ॥

असौ हि राक्षसश्शेते शरेणाभिहतो मया ।
मृगरूपेण येनाहमाश्रमादपवाहितः ॥ 25 ॥

विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया ।
मार्गीं तनुं त्यज्य स विक्लबस्वरो बभूव केयूरधरस्सराक्षसः ॥ 26 ॥

शराहतेनैव तदार्तया गिरा स्वरं समालंब्य सुदूरसुश्रवम् ।
उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकोनषष्टितमस्सर्गः ॥




Browse Related Categories: