View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.6 अरण्यकांड - षष्ठ सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षष्ठस्सर्गः ।

शरभंगे दिवं प्राप्ते मुनिसंघास्समागताः ।
अभ्यगच्छंत काकुत्स्थं रामं ज्वलिततेजसम् ॥ 1 ॥

वैखानसा वालखिल्यास्संप्रक्षाला मरीचिपाः ।
अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः ॥ 2 ॥

दंतोलूखलिनश्चैव तथैवोन्मज्जकाः परे ।
गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः ॥ 3 ॥

मुनयस्सलिलाहारावायुभक्षा स्तथापरे ।
आकाशनिलयाश्चैव तथा स्थंडिलशायिनः ॥ 4 ॥

व्रतोपवासिनो दांतास्तथाऽर्द्रपटवाससः ।
सजपाश्च तपोनित्यास्तथा पंचतपोऽन्विताः ॥ 5 ॥

सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगास्समाहिताः ।
शरभंगाश्रमे राममभिजग्मुश्च तापसाः ॥ 6 ॥

अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् ।
ऊचुः परमधर्मज्ञमृषिसंघास्समाहिताः ॥ 7 ॥

त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ ।
प्रधानश्चासि नाथश्च देवानां मघवानिव ॥ 8 ॥

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च ।
पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ॥ 9 ॥

त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् ।
अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षंतुमर्हसि ॥ 10 ॥

अधर्मस्सुमहांस्तात भवेत्तस्य महीपतेः ।
यो हरेद्बलिषड्भागां न च रक्षति पुत्रवत् ॥ 11 ॥

युंजानस्स्वानिव प्राणान्प्राणैरिष्टान्सुतानिव ।
नित्ययुक्तस्सदा रक्षन्सर्वान्विषयवासिनः ॥ 12 ॥

प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम् ।
ब्रह्मणस्स्थानमासाद्य तत्र चापि महीयते ॥ 13 ॥

यत्करोति परं धर्म मुनिर्मूलफलाशनः ।
तत्र राज्ञश्चतुर्भाग प्रजा धर्मेण रक्षितः ॥ 14 ॥

सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् ।
त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम् ॥ 15 ॥

एहि पश्य शरीराणि मुनीनां भावितात्मनाम् ।
हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने ॥ 16 ॥

पंपानदीनिवासानामनुमंदाकिनीमपि ।
चित्रकूटालयानां च क्रियते कदनं महत् ॥ 17 ॥

एवं वयं न मृष्यामो विप्रकारं तपस्विनाम् ।
क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः ॥ 18 ॥

ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः ।
परिपालय नो राम वध्यमानान्निशाचरैः ॥ 19 ॥

परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते ।
परिपालय न स्सर्वान्राक्षसेभ्यो नृपात्मज ॥ 20 ॥

एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् ।
इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः ॥ 21 ॥

नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनाम् ।
केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम् ॥ 22 ॥

विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम् ।
पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् ॥ 23 ॥

भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया ।
तस्य मेऽयं वने वासो भविष्यति महाफलः ॥ 24 ॥

तपस्विनां रणे शत्रून्हंतुमिच्छामि राक्षसान् ।
पश्यंतु वीर्यमृषयस्सभ्रातुर्मे तपोधनाः ॥ 25 ॥

दत्त्वाऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन ।
तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षष्ठस्सर्गः ॥




Browse Related Categories: