View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.31 सुंदरकांड - एकत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकत्रिंशस्सर्गः ।

एवं बहुविधां चिंतां चिंतयित्वा महाकपिः ।
संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ॥ 1 ॥

राजा दशरथो नाम रथकुंजरवाजिमान् ।
पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः ॥ 2 ॥

राजर्षीणां गुणश्रेष्ठस्तपसा चर्षिभि स्समः ।
चक्रवर्तिकुले जातः पुरंदरसमो बले ॥ 3 ॥

अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः ।
मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवान् लक्ष्मिवर्धनः ॥ 4 ॥

पार्थिवव्यंजनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ।
पृथिव्यां चतुरंतायां विश्रुतस्सुखदस्सुखी ॥ 5 ॥

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।
रामो नाम विशेषज्ञः श्रेष्ठ स्सर्वधनुष्मताम् ॥ 6 ॥

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
रक्षिता जीवलोकस्य धर्मस्य च परंतपः ॥ 7 ॥

तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुः ।
सभार्यस्सह च भ्रात्रा वीरः प्रव्राजितो वनम् ॥ 8 ॥

तेन तत्र महारण्ये मृगयां परिधावता ।
राक्षसा निहताश्शूरा बहवः कामरूपिणः ॥ 9 ॥

जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।
ततस्त्वमर्षापहृता जानकी रावणेन तु ॥ 10 ॥

वंचयित्वा वने रामं मृगरूपेण मायया ।
स मार्गमाणस्तां देवीं रामस्सीतामनिंदिताम् ॥ 11 ॥

आससाद वने मित्रं सुग्रीवं नाम वानरम् ।
तत स्स वालिनं हत्वा रामः परपुरंजयः ॥ 12 ॥

प्रायच्छत्कपिराज्यं तत्सुग्रीवाय महाबलः ।
सुग्रीवेणापि संदिष्टा हरयः कामरूपिणः ॥ 13 ॥

दिक्षु सर्वासु तां देवीं विचिन्वंति सहस्रशः ।
अहं संपातिवचनाच्छतयोजनमायतम् ॥ 14 ॥

अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान्प्लुतः ।
यथारूपां यथावर्णां यथालक्ष्मीवतीं च निश्चिताम् ॥ 15 ॥

अश्रौषं राघवस्याहं सेयमासादिता मया ।
विररामैवमुक्त्वासौ वाचं वानरपुंगवः ॥ 16 ॥

जानकी चापि तच्छ्रुत्वा परं विस्मयमागता ।
ततस्सा वक्रकेशांता सुकेशी केशसंवृतम् ॥ 17 ॥

उन्नम्य वदनं भीरुश्शिंशुपावृक्षमैक्षत ।
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।
स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरंती ॥ 18 ॥

सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिंत्यबुद्धिम् ।
ददर्श पिंगाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकत्रिंशस्सर्गः ॥




Browse Related Categories: