View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.36 किष्किंधाकांड - षट्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ षट्त्रिंशस्सर्गः ।

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ।
मृदुस्वभावस्सौमित्रिः प्रतिजग्राह तद्वचः ॥ 1 ॥

तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ।
लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ 2 ॥

ततः कंठगतं माल्यं चित्रं बहुगुणं महत् ।
चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ॥ 3 ॥

स लक्ष्मणं भीमबलं सर्ववानरसत्तमः ।
अब्रवीत्प्रश्रितं वाक्यं सुग्रीव स्संप्रहर्षयन् ॥ 4 ॥

प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।
रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ॥ 5 ॥

कश्शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।
तादृशं विक्रमं वीर प्रतिकर्तुमरिंदम ॥ 6 ॥

सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।
सहायमात्रेण मया राघव स्स्वेन तेजसा ॥ 7 ॥

सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः ।
शैलश्च वसुधा चैव बाणेनैकेन दारिताः ॥ 8 ॥

धनुर्विष्फारयानस्य यस्य शब्देन लक्ष्मण ।
सशैला कंपिता भूमिस्सहायैः किन्नु तस्य वै ॥ 9 ॥

अनुयात्रां नरेंद्रस्य करिष्येऽहं नरर्षभ ।
गच्छतो रावणं हंतुं वैरिणं सपुरस्सरम् ॥ 10 ॥

यदि किंचिदतिक्रांतं विश्वासात्प्रणयेन वा ।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ 11 ॥

ति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः ।
अभवल्लक्ष्मणः प्रीतः प्रेम्णा चैवमुवाच ह ॥ 12 ॥

सर्वथा हि मम भ्राता सनाथो वानरेश्वर ।
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥ 13 ॥

यस्ते प्रभाव स्सुग्रीव यच्च ते शौचमार्जवम् ।
अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ 14 ॥

सहायेन तु सुग्रीव त्वया रामः प्रतापवान् ।
वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥ 15 ॥

धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः ।
उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ 16 ॥

दोषज्ञस्सति सामर्थ्ये कोऽन्यो भाषितुमर्हति ।
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ 17 ॥

सदृशश्चासि रामस्य विक्रमेण बलेन च ।
सहायो दैवतैर्दत्तश्चिराय हरिपुंगव ॥ 18 ॥

किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह ।
सांत्वयस्व वयस्यं च त्वं भार्याहरणकर्शितम् ॥ 19 ॥

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ।
मया त्वं परुषाण्युक्तस्तच्चत्वं क्षंतु मर्हसि ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे षट्त्रिंशस्सर्गः ॥




Browse Related Categories: