View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.10 बालकांड - दशम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ दशमस्सर्गः ।

सुमंत्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा ।
यथर्श्यशृंगस्त्वानीत श्श्रुणु मे मंत्रिभिस्सह ॥ 1 ॥

रोमपादमुवाचेदं सहामात्यः पुरोहितः ।
उपायो निरपायोऽयमस्माभिरभिचिंतितः ॥ 2 ॥

ऋश्यशृंगो वनचरस्तपस्स्वाध्ययने रतः ।
अनभिज्ञस्स नारीणां विषयाणां सुखस्य च ॥ 3 ॥

इंद्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः ।
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥ 4 ॥

गणिकास्तत्र गच्छंतु रूपवत्यस्स्वलंकृताः ।
प्रलोभ्य विविधोपायैरानेष्यंतीह सत्कृताः ॥ 5 ॥

श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् ।
पुरोहितो मंत्रिणश्च तथा चक्रुश्च ते तदा ॥ 6 ॥

वारमुख्याश्च तच्छ्रुत्वा वनं प्रविविशुर्महत् ।
आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वंति दर्शने ॥ 7 ॥

ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः ।
पितुस्सनित्यसंतुष्टो नातिचक्राम चाश्रमात् ॥ 8 ॥

न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना ।
स्त्री वा पुमान्वा यच्चान्यत्सर्वं नगरराष्ट्रजम् ॥ 9 ॥

ततः कदाचित्तं देशमाजगाम यदृच्छया ।
विभंडकसुतस्तत्र ताश्चापश्यद्वरांगनाः ॥ 10 ॥

ताश्चित्रवेषाः प्रमदा गायंत्यो मधुरस्वराः ।
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥ 11 ॥

कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम् ।
एकस्त्वं विजने घोरे वने चरसि शंस नः ॥ 12 ॥

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः ।
हार्दात्तस्य मतिर्जाता व्याख्यातुं पितरं स्वकम् ॥ 13 ॥

पिता विभंडकोऽस्माकं तस्याहं सुत औरसः ।
ऋश्यशृंग इति ख्यातं नाम कर्म च मे भुवि ॥ 14 ॥

इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः ।
करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥ 15 ॥

ऋषिपुत्रवचश्श्रुत्वा सर्वासां मतिरास वै ।
तदाश्रमपदं द्रष्टुं जग्मुस्सर्वाश्च तेन ताः ॥ 16 ॥

आगतानां ततः पूजामृषिपुत्रश्चकार ह ।
इदमर्घ्यमिदं पाद्यमिदं मूलमिदं फलं च नः ॥ 17 ॥

प्रतिगृह्य च तां पूजां सर्वा एव समुत्सुकाः ।
ऋषेर्भीताश्च शीघ्रं ता गमनाय मतिं दधुः ॥ 18 ॥

अस्माकमपि मुख्यानि फलानीमानि वै द्विज ।
गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम् ॥ 19 ॥

ततस्तास्तं समालिंग्य सर्वा हर्षसमन्विताः ।
मोदकान्प्रददुस्तस्मै भक्ष्यांश्च विविधान् बहून् ॥ 20 ॥

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते ।
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥ 21 ॥

आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च ।
गच्छंति स्मापदेशात्ता भीतास्तस्य पितुस्स्त्रियः ॥ 22 ॥

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः ।
अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते ॥ 23 ॥

ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् ।
मनोज्ञा यत्र ता दृष्टा वारमुख्यास्स्वलंकृताः ॥ 24 ॥

दृष्ट्वैव च तास्तदा विप्रमायांतं हृष्टमानसाः ।
उपसृत्य ततस्सर्वास्तास्तमूचुरिदं वचः ॥ 25 ॥

एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् ।
तत्राप्येष विधिश्श्रीमान् विशेषेण भविष्यति ॥ 26 ॥

श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम् ।
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥ 27 ॥

तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि ।
ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा ॥ 28 ॥

वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः ।
प्रत्युद्गम्य मुनिं प्रह्वश्शिरसा च महीं गतः ॥ 29 ॥

अर्घ्यं च प्रददौ तस्मै न्यायतस्सुसमाहितः ।
वव्रे प्रसादं विप्रेंद्रान्मा विप्रं मन्युराविशेत् ॥ 30 ॥

अंतःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि ।
शांतां शांतेन मनसा राजा हर्षमवाप सः ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे दशमस्सर्गः ॥




Browse Related Categories: