View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.56 अयोध्याकांड - षट्पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षट्पंचाशस्सर्गः ।

अथ रात्र्यां व्यतीतायामवसुप्तमनंतरम् ।
प्रबोधयामास शनैर्लक्ष्मणं रघुनंदनः ॥ 1 ॥

सौमित्रे श्रुणु वन्यानां वल्गु व्याहरतां स्वनम् ।
संप्रतिष्ठामहे काल प्रस्थानस्य परंतप ॥ 2 ॥

स सुप्तस्समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
जहौ निद्रां च तंद्रीं च प्रसक्तं च पथि श्रमम् ॥ 3 ॥

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्या श्शिवं जलम् ।
पंथानमृषिणाऽदिष्टं चित्रकूटस्य तं ययुः ॥ 4 ॥

ततस्संप्रस्थितः काले रामस्सौमित्रिणा सह ।
सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ॥ 5 ॥

आदिप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् ।
स्वैः पुष्पैः किंशुकान् पश्य मालिनशिशिरात्यये ॥ 6 ॥

पश्य भल्लातकान् फुल्लान्नरै रनुपसेवितान् ।
फलपत्रैरवनता न्नूनं शक्ष्याम जीवितुम् ॥ 7 ॥

पश्य द्रोणप्रमाणानि लंबमानानि लक्ष्मण ।
मधूनि मधुकारीभि स्संभृतानि नगे नगे ॥ 8 ॥

एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति ।
रमणीये वनोद्देशे पुष्पसंस्तरसंकटे ॥ 9 ॥

मातंगयूथानुसृतं पक्षिसंंघानुनादितम् ।
चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ 10 ॥

समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।
पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥ 11 ॥

ततस्तौ पादचारेण गच्छंतौ सह सीतया ।
रम्यमासेदतुश्शैलं चित्रकूटं मनोरमम् ॥ 12 ॥

तंतु पर्वतमासाद्य नानापक्षिगणायुतम् ।
बहुमूलफलं रम्यं संपन्नं सरसोदकम् ॥ 13 ॥

मनोज्ञोऽयं गिरिस्सौम्य नानाद्रुमलतायुतः ।
बहुमूलफलो रम्य स्स्वाजीवः प्रतिभाति मे ॥ 14 ॥

मुनयश्च महात्मानो वसंत्यस्मि शिलोच्चये ।
अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ 15 ॥

इति सीता च रामश्च लक्ष्मणश्च कृतांजलिः ।
अभिगम्याऽश्रमं सर्वे वाल्मीकि मभिवादयन् ॥ 16 ॥

तान्महर्षि प्रमुदितः पूजयामास धर्मवित् ।
अस्यतामिति चोवाच स्वागंतु निवेद्य च ॥ 17 ॥

ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः ।
सन्निवेद्य यथान्याय मात्मानमृषये प्रभुः ॥ 18 ॥

लक्ष्मणाऽऽनय दारूणि दृढानि च वराणि च ।
कुरुष्वाऽवसथं सौम्य वासे मेऽभिरतं मनः ॥ 19 ॥

तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् ।
आजहार तत श्चक्रे पर्णशालामरिंदमः ॥ 20 ॥

तां निष्ठितां बद्धकटां दृष्ट्वा रामस्सुदर्शनाम् ।
शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ॥ 21 ॥

ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ।
कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ॥ 22 ॥

मृगं हत्वाऽऽनय क्षिप्रं लक्ष्मणेह शुभेक्षण ।
कर्तव्य श्शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ॥ 23 ॥

भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा ।
चकार स यथोक्तं च तं राम पुनरब्रवीत् ॥ 24 ॥

ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम् ।
त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम् ॥ 25 ॥

स लक्ष्मणः कृष्णमृगं मेध्यं हत्वा प्रतापवान् ।
अथ चिक्षेप सौमित्रिस्समिद्धे जातवेदसि ॥ 26 ॥

तंतु पक्वं परिज्ञाय निष्टप्तं छिन्नशोणितम् ।
लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ 27 ॥

अयं सर्वः समस्ताग्ङः श्रृतः कृष्णमृगो मया ।
देवतां देवसंकाश यजस्व कुशलो ह्यसि ॥ 28 ॥

रामः स्नात्वा तु नियतो गुणवान् जप्यकोविदः ।
संग्रहेणाकरोत् स्रवार्न मंत्रान् सत्रावसानिकान् ॥ 29 ॥

इष्ट्वा देवगणान्सर्वान्विवेशाऽवसथं शुचिः ।
बभूव च मनोह्लादो रामस्यामिततेजसः ॥ 30 ॥

वैश्वदेवबलिं कृत्वा रौद्रं वैष्णव मेव च ।
वास्तुसंशमनीयानि मंगलानि प्रवर्तयन् ॥ 31 ॥

जपं च न्यायत कृत्वा स्नात्वा नद्यां यथाविधि ।
पापसंशमनं राम श्चकार बलिमुत्तमम् ॥ 32 ॥

वेदिस्थलविधानानि चैत्यान्यायतनानि च ।
आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥ 33 ॥

वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि ।
अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः ॥ 34 ॥

तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।
तदा विविशतु श्शालां सुशुभां शुभलक्षणौ ॥ 35 ॥

तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् ।
वासाय सर्वे विविशुस्समेतास्सभां यथा देवगणास्सुधर्माम् ॥ 36 ॥

अनेकनानामृगपक्षिसंकुले विचित्रपत्रस्तबकैर्द्रुमैर्युते ।
वनोत्तमे व्यालमृगानुनादिते तदा विजह्रु स्सुसुखं जितेंद्रियाः ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षट्पंचाशस्सर्गः ॥




Browse Related Categories: