View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.39 अयोध्याकांड - एकोनचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनचत्वारिंशस्सर्गः ।

रामस्य तु वचः शृत्वा मुनिवेशधरं च तम् ।
समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ 1 ॥

नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् ।
न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ 2 ॥

रामस्य तु वचः शृत्वा मुनिवेशधरं च तम् ।
समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ 3 ॥

नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् ।
न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ 4 ॥

स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः ।
विललाप महाबाहू राममेवानुचिंतयन् ॥ 5 ॥

मन्ये खलु मया पूर्वं विवत्सा बहवःकृताः ।
प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् ॥ 6 ॥

न त्वेवानागते काले देहाच्च्यवति जीवितम् ।
कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ 7 ॥

योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् ।
विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ 8 ॥

एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः ।
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ 9 ॥

एवमुक्त्वा तु वचनं बाष्पेण पिहितेंद्रियः ।
रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह ॥ 10 ॥

संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः ।
नेत्राभ्यामश्रुपूर्णाभ्यां सुमंत्रमिदमब्रवीत् ॥ 11 ॥

औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।
प्रापयैनं महाभागमितो जनपदात्परम् ॥ 12 ॥

एवं मन्ये गुणवतां गुणानां फलमुच्यते ।
पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ 13 ॥

राज्ञो वचनमाज्ञाय सुमंत्रः शीघ्रविक्रमः ।
योजयित्वाऽययौ तत्र रथमश्वैरलंकृतम् ॥ 14 ॥

तं रथं राजपुत्राय सूतः कनकभूषितम् ।
आचचक्षेऽंजलिं कृत्वा युक्तं परमवाजिभिः ॥ 15 ॥

राजा सत्वरमाहूय व्यापृतं वित्तसंंचये ।
उवाच देशकालज्ञो निश्चितं सर्वत श्शुचिम् ॥ 16 ॥

वासांसि च महार्हाणि भूषणानि वराणि च ।
वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥ 17 ॥

नरेंद्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।
प्रायच्छत्सर्वमाहृत्य सीतायै सममेव तत् ॥ 18 ॥

सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।
भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ 19 ॥

व्यराजयत वैदेही वेश्म तत्सुविभूषिता ।
उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ॥ 20 ॥

तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् ।
अनाचरंती कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥ 21 ॥

असत्य स्सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ।
भर्तारं नानुमन्यंते विनिपातगतं स्त्रियः ॥ 22 ॥

एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदं प्राप्य दुष्यंति प्रजहत्यपि ॥ 23 ॥

असत्यशीला विकृता दुर्ग्राह्यहृदयास्सदा ।
युवत्यः पापसंंकल्पाः क्षणमात्राद्विरागिणः ॥ 24 ॥

न कुलं न कृतं विद्या न दत्तं नापि संग्रहः ।
स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥ 25 ॥

साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे ।
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ 26 ॥

स त्वया नावमंतव्यः पुत्रः प्रव्राजितो मम ।
तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा ॥ 27 ॥

विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् ।
कृतांजलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥ 28 ॥

करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् ।
अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥ 29 ॥

न मामसज्जनेनार्या समानयितुमर्हति ।
धर्माद्विचलितुं नाहमलं चंद्रादिव प्रभा ॥ 30 ॥

नातंत्री वाद्यते वीणा नाचक्रो वर्तते रथः ।
नापतिस्सुखमेधेत या स्यादपि शतात्मजा ॥ 31 ॥

मितं ददाति हि पिता मितं माता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ 32 ॥

साहमेवं गता श्रेष्ठा श्रुतधर्मपरावरा ।
आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥ 33 ॥

सीताया वचनं श्रुत्वा कौशल्या हृदयंगमम् ।
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ 34 ॥

तां प्रांजलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् ।
रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ 35 ॥

अंब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम ।
क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ 36 ॥

सुप्तायास्ते गमिष्यंति नव वर्षाणि पंच च ।
सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ 37 ॥

एतावदभिनीतार्थमुक्त्वा स जननीं वचः ।
त्रयश्शतशतार्धाश्च ददर्शा वेक्ष्य मातरः ॥ 38 ॥

ता श्चापि स तथैवार्ता मातृर्दशरथात्मजः ।
धर्मयुक्तमिदं वाक्यं निजगाद कृतांजलिः ॥ 39 ॥

संवासात्परुषं किंचिदज्ञानाद्वापि यत्कृतम् ।
तन्मे समनुजानीत सर्वाश्चामंत्रयामि वः ॥ 40 ॥

वचनं राघवस्यैतध्दर्मयुक्तं समाहितम् ।
शुश्रुवुस्ताः स्त्रियंस्सर्वा श्शोकोपहतचेतसः ॥ 41 ॥

जज्ञेऽथ तासां सन्नादः क्रौंचीनामिव निस्वनः ।
मानवेंद्रस्य भार्याणामेवं वदति राघवे ॥ 42 ॥

मुरजपणवमेघघोषवत् दशरथवेश्म बभूव यत्पुरा ।
विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम् ॥ 43 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनचत्वारिंशस्सर्गः ॥




Browse Related Categories: