श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनचत्वारिंशस्सर्गः ।
रामस्य तु वचः शृत्वा मुनिवेशधरं च तम् ।
समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ 1 ॥
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् ।
न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ 2 ॥
रामस्य तु वचः शृत्वा मुनिवेशधरं च तम् ।
समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ 3 ॥
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् ।
न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ 4 ॥
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः ।
विललाप महाबाहू राममेवानुचिंतयन् ॥ 5 ॥
मन्ये खलु मया पूर्वं विवत्सा बहवःकृताः ।
प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम् ॥ 6 ॥
न त्वेवानागते काले देहाच्च्यवति जीवितम् ।
कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ 7 ॥
योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम् ।
विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ 8 ॥
एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः ।
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ 9 ॥
एवमुक्त्वा तु वचनं बाष्पेण पिहितेंद्रियः ।
रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह ॥ 10 ॥
संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः ।
नेत्राभ्यामश्रुपूर्णाभ्यां सुमंत्रमिदमब्रवीत् ॥ 11 ॥
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।
प्रापयैनं महाभागमितो जनपदात्परम् ॥ 12 ॥
एवं मन्ये गुणवतां गुणानां फलमुच्यते ।
पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ 13 ॥
राज्ञो वचनमाज्ञाय सुमंत्रः शीघ्रविक्रमः ।
योजयित्वाऽययौ तत्र रथमश्वैरलंकृतम् ॥ 14 ॥
तं रथं राजपुत्राय सूतः कनकभूषितम् ।
आचचक्षेऽंजलिं कृत्वा युक्तं परमवाजिभिः ॥ 15 ॥
राजा सत्वरमाहूय व्यापृतं वित्तसंंचये ।
उवाच देशकालज्ञो निश्चितं सर्वत श्शुचिम् ॥ 16 ॥
वासांसि च महार्हाणि भूषणानि वराणि च ।
वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥ 17 ॥
नरेंद्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।
प्रायच्छत्सर्वमाहृत्य सीतायै सममेव तत् ॥ 18 ॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।
भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ 19 ॥
व्यराजयत वैदेही वेश्म तत्सुविभूषिता ।
उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ॥ 20 ॥
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् ।
अनाचरंती कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥ 21 ॥
असत्य स्सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैः ।
भर्तारं नानुमन्यंते विनिपातगतं स्त्रियः ॥ 22 ॥
एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदं प्राप्य दुष्यंति प्रजहत्यपि ॥ 23 ॥
असत्यशीला विकृता दुर्ग्राह्यहृदयास्सदा ।
युवत्यः पापसंंकल्पाः क्षणमात्राद्विरागिणः ॥ 24 ॥
न कुलं न कृतं विद्या न दत्तं नापि संग्रहः ।
स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥ 25 ॥
साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शमे ।
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ 26 ॥
स त्वया नावमंतव्यः पुत्रः प्रव्राजितो मम ।
तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा ॥ 27 ॥
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् ।
कृतांजलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥ 28 ॥
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् ।
अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥ 29 ॥
न मामसज्जनेनार्या समानयितुमर्हति ।
धर्माद्विचलितुं नाहमलं चंद्रादिव प्रभा ॥ 30 ॥
नातंत्री वाद्यते वीणा नाचक्रो वर्तते रथः ।
नापतिस्सुखमेधेत या स्यादपि शतात्मजा ॥ 31 ॥
मितं ददाति हि पिता मितं माता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ 32 ॥
साहमेवं गता श्रेष्ठा श्रुतधर्मपरावरा ।
आर्ये किमवमन्येऽहं स्त्रीणां भर्ता हि दैवतम् ॥ 33 ॥
सीताया वचनं श्रुत्वा कौशल्या हृदयंगमम् ।
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ 34 ॥
तां प्रांजलिरभिक्रम्य मातृमध्येऽतिसत्कृताम् ।
रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ 35 ॥
अंब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम ।
क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ 36 ॥
सुप्तायास्ते गमिष्यंति नव वर्षाणि पंच च ।
सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ 37 ॥
एतावदभिनीतार्थमुक्त्वा स जननीं वचः ।
त्रयश्शतशतार्धाश्च ददर्शा वेक्ष्य मातरः ॥ 38 ॥
ता श्चापि स तथैवार्ता मातृर्दशरथात्मजः ।
धर्मयुक्तमिदं वाक्यं निजगाद कृतांजलिः ॥ 39 ॥
संवासात्परुषं किंचिदज्ञानाद्वापि यत्कृतम् ।
तन्मे समनुजानीत सर्वाश्चामंत्रयामि वः ॥ 40 ॥
वचनं राघवस्यैतध्दर्मयुक्तं समाहितम् ।
शुश्रुवुस्ताः स्त्रियंस्सर्वा श्शोकोपहतचेतसः ॥ 41 ॥
जज्ञेऽथ तासां सन्नादः क्रौंचीनामिव निस्वनः ।
मानवेंद्रस्य भार्याणामेवं वदति राघवे ॥ 42 ॥
मुरजपणवमेघघोषवत् दशरथवेश्म बभूव यत्पुरा ।
विलपितपरिदेवनाकुलं व्यसनगतं तदभूत्सुदुःखितम् ॥ 43 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनचत्वारिंशस्सर्गः ॥