View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.23 अयोध्याकांड - त्रयोविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रयोविंशस्सर्गः ।

इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः ।
श्रृत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ॥ 1 ॥

तदा तु बध्द्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः ।
निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ 2 ॥

तस्य दुष्प्रतिवीक्षं तद्भ्रुकुटीसहितं तदा ।
बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ 3 ॥

अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः ।
तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥ 4 ॥

अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ।
अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् ॥ 5 ॥

धर्मदोष प्रसंगेन लोकस्यानतिशंकया ।
कथंह्येतदसंभ्रांतस्त्वद्विधो वक्तुमर्हति ॥ 6 ॥

यथा दैवमशौडीरं शौंडीर क्षत्रियर्षभ ।
किन्नाम कृपणं दैवमशक्तमभिशंससि ॥ 7 ॥

पापयोस्ते कथं नाम तयोश्शंका न विद्यते ।
संति धर्मोपधा श्लक्ष्णाः धर्मात्मन्किं न बुध्यसे ॥ 8 ॥

तयोस्सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः ।
यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ॥ 9 ॥

तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ।
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् ।
नोत्सहे सहितुं वीर तत्र मे क्षंतुमर्हसि ॥ 10 ॥

येनेय मागता द्वैधं तव बुद्धिर्महामते ।
स हि धर्मो मम द्वेष्यः प्रसंगाद्यस्य मुह्यसि ॥ 11 ॥

कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ।
करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ 12 ॥

यद्ययं किल्बिषाद्भेदः कृतोऽप्येवं न गृह्यते ।
जायते तत्र मे दुःखं धर्मसंगश्च गर्हितः ॥ 13 ॥

मनसाऽपि कथं कामं कुर्यास्त्वं कामवृत्तयोः ।
तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ॥ 14 ॥

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।
तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ 15 ॥

विक्लबो वीर्यहीनो यस्स दैवमनुवर्तते ।
वीरास्संभावितात्मानो न दैवं पर्युपासते ॥ 16 ॥

दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् ।
न दैवेन विपन्नार्थः पुरुषस्सोऽवसीदति ॥ 17 ॥

द्रक्ष्यंति त्वद्य दैवस्य पौरुषं पुरुषस्य च ।
दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ 18 ॥

अद्य मत्पौरुषहतं दैवं द्रक्ष्यंति वै जनाः ।
यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ 19 ॥

अत्यंकुशमिवोद्दामं गजं मदबलोद्धतम् ।
प्रधावितमहं दैवं पौरुषेण निवर्तये ॥ 20 ॥

लोकपालास्समस्ता स्ते नाद्य रामाभिषेचनम् ।
न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥ 21 ॥

यैर्निवासस्तवारण्ये मिथो राजन्समर्थितः ।
अरण्ये ते निवत्स्यंति चतुर्दश समास्तथा ॥ 22 ॥

अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव ।
अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ 23 ॥

मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा ।
प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ 24 ॥

ऊर्ध्वं वर्षसहस्रांते प्रजापाल्यमनंतरम् ।
आर्यपुत्राः करिष्यंति वनवासं गते त्वयि ॥ 25 ॥

पूर्वं राजर्षिवृत्त्या हि वनवासो विधीयते ।
प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने ॥ 26 ॥

स चेद्राजन्यनेकाग्रे राज्यविभ्रमशंकया ।
नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ 27 ॥

प्रतिजाने च ते वीर माऽभूवं वीरलोकभाक् ।
राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ 28 ॥

मंगलैरभिषिंचस्व तत्र त्वं व्यापृतो भव ।
अहमेको महीपालानलं वारयितुं बलात् ॥ 29 ॥

न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ।
नाऽसिराबंधनार्थाय न शरास्तंभहेतवः ॥ 30 ॥

अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ।
न चाहं कामयेऽत्यर्थं यस्स्याच्छत्रुर्मतो मम ॥ 31 ॥

असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा ।
प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ 32 ॥

खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे ।
हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ॥ 33 ॥

खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः ।
पतिष्यंति द्विपा भूमौ मेघा इव सविद्युतः ॥ 34 ॥

बद्धगोधांगुलित्राणे प्रगृहीतशरासने ।
कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते ॥ 35 ॥

बहुभिश्चैकमत्यस्यन्नेकेन च बहून्जनान् ।
विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु ॥ 36 ॥

अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति ।
राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं तव च प्रभोः ॥ 37 ॥

अद्य चंदनसारस्य केयूरामोक्षणस्य च ।
वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ 38 ॥

अनुरूपाविमौ बाहू राम कर्म करिष्यतः ।
अभिषेचनविघ्नस्य कर्तृणां ते निवारणे ॥ 39 ॥

ब्रवीहि कोऽद्यैव मया वियुज्यतां तवा सुहृत्प्राणयशस्सुहृज्जनैः ।
यथा तवेयं वसुधा वशे भवे त्तथैव मां शाधि तवास्मि किंकरः ॥ 40 ॥

विमृज्य बाष्पं परिसांत्व्यचासकृत् स लक्ष्मणं राघववंशवर्धनः ।
उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेष हि सौम्य सत्पथः ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रयोविंशस्सर्गः ॥




Browse Related Categories: