View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.29 किष्किंधाकांड - एकोनत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकोनत्रिंशस्सर्गः ।

समीक्ष्य विमलं व्योम गतविद्युद्वलाहकम् ।
सारसाकुलसंघुष्टं रम्यज्योत्स्नानुलेपनम् ॥ 1 ॥

समृद्धार्थं च सुग्रीवं मंदधर्मार्थसंग्रहम् ।
अत्यर्थमसतां मार्गमेकांतगतमानसम् ॥ 2 ॥

निर्वृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा ।
प्राप्तवंतमभिप्रेतान्सर्वानेव मनोरथान् ॥ 3 ॥

स्वां च पत्नीमभिप्रेतां तारां चापि समीप्सिताम् ।
विहरंतमहोरात्रं कृतार्थं विगतज्वरम् ॥ 4 ॥

क्रीडंतमिव देवेशं नंदनेऽप्सरसां गणैः ।
मंत्रिषु न्यस्तकार्यं च मंत्रिणामनवेक्षकम् ॥ 5 ॥

उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम् ।
निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित् ॥ 6 ॥

प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः ।
वाक्यविद्वाक्य तत्त्वज्ञं हरीशं मारुतात्मजः ॥ 7 ॥

हितं तत्त्वं च पथ्यं च सामधर्मार्थनीतिमत् ।
प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम् ।
हरीश्वरमुपागम्य हनूमान्वाक्यमब्रवीत् ॥ 8 ॥

राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता ।
मित्राणां संग्रहश्शेषस्तं भवान्कर्तुमर्हति ॥ 9 ॥

यो हि मित्रेषु कालज्ञस्सततं साधु वर्तते ॥ 10 ॥

तस्य राज्यं च कीर्तिश्च प्रतापश्चाभि वर्धते ।
यस्य कोशश्च दंडश्च मित्राण्यात्मा च भूमिप ॥ 11 ॥

समवेतानि सर्वाणि स राज्यं महदश्नुते ।
तद्भवान्वृत्तसंपन्नः स्थितः पथि निरत्यये ॥ 12 ॥

मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति ।
संत्यज्य सर्वकर्माणि मित्रार्थे योऽनुवर्तते ॥ 13 ॥

संभ्रमाद्धि कृतोत्साहस्सोऽनर्थैर्नावरुध्यते ।
यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते ॥ 14 ॥

स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते ।
यदिदं मित्रकार्यं वीर नोमित्रकार्यमरिंदम ॥ 15 ॥

क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम् ।
तदिदं वीर कार्यं ते कालातीतमरिंदम ॥ 16 ॥

न च कालमतीतं ते निवेदयति कालवित् ।
त्वरमाणोऽपि सन्प्राज्ञस्तव राजन्वशानुगः ॥ 17 ॥

कुलस्य हेतुः स्फीतस्य दीर्घबंधुश्च राघवः ।
अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः ॥ 18 ॥

तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव ।
हरीश्वर कपिश्रेष्ठानाज्ञापयितुमर्हसि ॥ 19 ॥

न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते ।
चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः ॥ 20 ॥

अकर्तुरपि कार्यस्य भवान्कर्ता हरीश्वर किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च ॥ 21 ॥

शक्तिमानपिविक्रांतो वानरर्क्षगणेश्वर ।
कर्तुं दाशरथेः प्रीतिमाज्ञायां किन्न सज्जसे ॥ 22 ॥

कामं खलु शरैश्शक्तस्सुरासुरमहोरगान् ।
वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां हि कांक्षते ॥ 23 ॥

प्राणत्यागाविशंकेन कृतं तेन तवप्रियम् ।
तस्य मार्गाम वैदेहीं पृथिव्यामपि चांबरे ॥ 24 ॥

देवदानव गंधर्वा नसुरास्समरुद्गणाः ।
न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः ॥ 25 ॥

तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तव ।
रामस्यार्हसि पिंगेश कर्तुं सर्वात्मना प्रियम् ॥ 26 ॥

नाधस्तादवनौ नाप्सु गतिर्नोपरि चांबरे ।
कस्यचित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया ॥ 27 ॥

तदाज्ञापय कः किं ते कुतो वापि व्यवस्यतु ।
हरयोऽह्यप्रधृष्यास्ते संति कोट्यग्रतोऽनघ ॥ 28 ॥

तस्य तद्वचनं श्रुत्वा काले साधु निवेदनम् ।
सुग्रीवस्सत्त्वसंपन्नश्चकार मतिमुत्तमाम् ॥ 29 ॥

स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम् ।
दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे ॥ 30 ॥

यथा सेना समग्रा मे यूथपालाश्च सर्वशः ।
समागच्छंत्यसंगेन सेनाग्राणि तथा कुरु ॥ 31 ॥

ये त्वंतपालाः प्लवगाश्शीघ्रगा व्यवसायिनः ।
समानयंतु ते सैन्यं त्वरिताश्शासनान्मम ॥ 32 ॥

स्वयं चानंतरं सैन्यं भवानेवानुपश्यतु ।
त्रिपंचरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः ।
तस्य प्राणांतिको दंडो नात्र कार्या विचारणा ॥ 33 ॥

हरींश्च वृद्धानुपयातु सांगदो भवान्ममाज्ञामधिकृत्य निश्चिताम् ।
इति व्यवस्थां हरिपुंगवेश्वरो विधाय वेश्म प्रविवेश वीर्यवान् ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकोनत्रिंशस्सर्गः ॥




Browse Related Categories: