श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचनवतितमस्सर्गः ।
तानितानिसहस्राणिसारोहाणां च वाजिनाम् ।
रथानांत्वग्निवर्णानांसध्वजानांसहस्रशः ॥ 1 ॥
राक्षसानांसहस्राणिगदापरिघयोधिनाम् ।
कांचनध्वजचित्राणांशूराणांकामरूपिणाम् ॥ 2 ॥
निहतानिशरैर्दीस्तीक्ष्णैस्तप्तकांचनभूषणैः ।
रावणेनप्रयुक्तानिरामेणाक्लिष्टकर्मणा ॥ 3 ॥
दृष्टवाश्रुत्वा च संभ्रांताहतशेषानिशाचराः ।
राक्षसीश्चसमागम्यदीनाश्चिंतापरिप्लुताः ॥ 4 ॥
विधवाहतपुत्राश्चक्रोशंत्योहतबांदवाः ।
राक्षस्यःसहसंगम्यदुःखार्ताःपर्यदेवयन् ॥ 5 ॥
कथंशूर्पणखावृद्धाकरालानिर्णतोदरी ।
आससादवनेरामंकंदर्पमिवरूपिणम् ॥ 6 ॥
सुकुमारंमहासत्त्वंसर्वभूतहितेरतम् ।
तंदृष्टवालोकनिंद्यासाहीनरूपाप्रकामिता ॥ 7 ॥
कथंसर्वगुणैर्हीनागुणवंतंमहौजसम् ।
सुमुखंदुर्मुखीरामंकामयामासराक्षसी ॥ 8 ॥
जनस्यास्याल्पभाग्यत्वाद्वलिनीश्वेतमूर्धजा ।
अकार्यमपहास्यं च सर्वलोकविगर्हितम् ॥ 9 ॥
राक्षसानांविनाशायदूषणस्यखरस्य च ।
चकाराप्रतिरूपासाराघवस्यप्रधर्षणम् ॥ 10 ॥
तन्निमित्तमिदंवैरंरावणेनकृतंमहत् ।
वधायसीतासासीतादशग्रीवेणरक्षसा ॥ 11 ॥
न च सीतांदशग्रीवःप्राप्नोतिजनकात्मजाम् ।
बद्धंबलवतावैरमक्षयंराघवेण च ॥ 12 ॥
वैदेहींप्रार्थयानंतंविराधंप्रेक्षयराक्षसम् ।
हतमेकेनरामेणपर्याप्तंतन्निदर्शनम् ॥ 13 ॥
चतुर्धशसहस्राणिरक्षसांभीमकर्मणाम् ।
निहतानिजनस्थानेशरैरग्निशिखोपमैः ॥ 14 ॥
खरश्चनिहतःसंख्येदूषणस्त्रिशिरास्तथा ।
शरैरादितसंकाशैःपर्याप्तंतन्निदर्शनम् ॥ 15 ॥
हतोयोजनबाहुश्चकबंदोरुदिराशनः ।
क्रोधान्नादंनदन् सोऽथपर्याप्तंतन्निदर्शनम् ॥ 16 ॥
जघानबलिनंरामस्सहस्रनयनात्मजम् ।
वालिनंमेरुसंकाशंपर्याप्तंतन्निदर्शनम् ॥ 17 ॥
ऋष्यमूकेवसंश्चैवदीनोभग्नमनोरथः ।
सुग्रीवःप्रापितोराज्यंपर्याप्तंतन्निदर्शनम् ॥ 18 ॥
धर्मार्थसहितंवाक्यंसर्वेषांरक्षसांहितम् ।
युक्तंविभीषणेनोक्तंमोहत्तस्य न रोचते ॥ 19 ॥
विभीषणवचःकुर्याद्यदिस्मधनदानुजः ।
श्मशानभूतादुःखार्तानेयंलंकाभविष्यति ॥ 20 ॥
कुंभकर्णंहतंश्रुत्वाराघवेणमहाबलम् ।
अतिकायं च दुर्मर्षंलक्ष्मणेनहतंतदा ॥ 21 ॥
प्रियंचेंद्रजितंपुत्रंरावणोनावबुध्यते ।
ममपुत्रोममभ्राताममभर्तारणेहतः ॥ 22 ॥
इत्येषश्रूयतेशब्दोराक्षसीनांकुलेकुले ।
रथश्चाश्वाश्चनागाश्चहताःशतसहस्रशः ॥ 23 ॥
रणेरामेणशूरेणहताश्चापिपदातयः ।
रुद्रोवायदिवाविष्णुर्महेंद्रोवाशतक्रतुः ॥ 24 ॥
हंतिनोरामरूपेणयदिवास्वयमंतकः ।
हतप्रवीरारामेणनिराशाजीवितेवयम् ॥ 25 ॥
अपश्य्नत्योभयस्यांतमनाथाविलपामहे ।
रामहस्ताद्धशग्रीवश्शूरोदत्तमहावरः ॥ 26 ॥
इदंभयंमहाघोरंसमुत्पन्नं न बुध्यते ।
तं न देवा न गंधर्वा न पिशाचा न राक्षसाः ॥ 27 ॥
उपसृष्टंपरित्रातुंशक्तारामेणसम्युगे ।
त्पताश्चापिदृश्यंतेरावणस्यरणेरणे ॥ 28 ॥
कथयंतिहिरामेणरावणस्यनिबर्हणम् ।
पितामहेनप्रीतेनदेवदानवराक्षसैः ॥ 29 ॥
रावणस्याभयंदत्तंमनुष्येभ्यो न याचितम् ।
तदिदंमानुषंमन्येप्राप्तंनिःसंशयंभयम् ॥ 30 ॥
जीवितांतकंघोरंरक्षसांरावणस्य च ।
पीड्यमानास्तुबलिनावरदानेनरक्षसा ॥ 31 ॥
दीप्स्सैस्तपोभिर्विबुधाःपितामहमपूजयन् ।
देवतानांहितार्थायमहात्मावैपितामहः ॥ 32 ॥
उवाचदेवताःसर्वाइदंतुष्टोमहद्वचः ।
अद्यप्रभृतिलोकांस्त्रीन् सर्वेदानवराक्षसाः ॥ 33 ॥
भयेनप्रावृतानित्यंविचरिष्यंतिशाश्वतम् ।
दैवतैस्तुसमागम्यसर्वैश्चेंद्रपुरोगमैः ॥ 34 ॥
वृषध्वजस्त्रिपुरहामहादेवःप्रसादितः ।
प्रसन्नस्तुमहादेवोदेवानेतद्वचोऽब्रवीत् ॥ 35 ॥
उत्पत्स्यतिहितार्थंवोनारीरक्षःक्षयावहा ।
एषादेवैःप्रयुक्तातुक्षुद्यथादानवान् पुरा ॥ 36 ॥
भक्षयिष्यतिनःसीताराक्षसघ्नीसरावणान् ।
रावणस्यापनीतेनदुर्विनीतस्यदुर्मतेः ॥ 37 ॥
अयंनिष्टानकोघोरंशोकेनसमभिप्लुतः ।
तंन पश्यामहेलोकेयोनःशरणदोभवेत् ॥ 38 ॥
राघवेणोपसृष्टानां कालेनेव युगक्षये ।
नास्तिनःशरणंकश्चिद्भयेमहतितिष्ठताम् ॥ 39 ॥
दावाग्निवेष्टितानांहिकरेणूनांयथावने ।
प्राप्तकालंकृतंतेनपौलस्त्येनमहात्मना ॥ 40 ॥
यतएवंभयंदृष्टंतमेवशरणंगतः ।
इतीवसर्वारजनीचरस्त्रियःपरस्परंसंपरिरभ्यबाहुभिः ।
विषेदुरार्तातिभयाभिपीडिताविनेदुरुच्चैश्चतदासुदारुणम् ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचनवतितमस्सर्गः ॥