View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.18 अरण्यकांड - अष्टादश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ अष्टादशस्सर्गः ।

ततश्शूर्पणखां रामः कामपाशावपाशिताम् ।
स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥ 1 ॥

कृतदारोऽस्मि भवति भार्येयं दयिता मम ।
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥ 2 ॥

अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः ।
श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥ 3 ॥

अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः ।
अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ॥ 4 ॥

एनं भज विशालाक्षि भर्तारं भ्रातरं मम ।
असपत्ना वरारोहे मेरुमर्कप्रभा यथा ॥ 5 ॥

इति रामेण सा प्रोक्ता राक्षसी काममोहिता ।
विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥ 6 ॥

अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी ।
मया सह सुखं सर्वांदंडकान्विचरिष्यसि ॥ 7 ॥

एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः ।
ततश्शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥ 8 ॥

कथं दासस्य मे दासी भार्या भवितुमिच्छसि ।
सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि ॥ 9 ॥

समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी ।
आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥ 10 ॥

एनां विरूपामसतीं करालां निर्णतोदरीम् ।
भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥ 11 ॥

को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि ।
मानुषीषु वरारोहे कुर्याद्भावं विचक्षणः ॥ 12 ॥

इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी ।
मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा ॥ 13 ॥

सा रामं पर्णशालायामुपविष्टं परंतपम् ।
सीतया सह दुर्दर्षमब्रवीत्काममोहिता ॥ 14 ॥

एनां विरूपामसतीं करालां निर्णतोदरीम् ।
वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ॥ 15 ॥

अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् ।
त्वया सह चरिष्यामि निस्सपत्ना यथासुखम् ॥ 16 ॥

इत्युक्त्वा मृगशाबाक्षीमलातसदृशेक्षणा ।
अभ्यधावत्सुसंकृद्धा महोल्कां रोहिणीमिव ॥ 17 ॥

तां मृत्युपाशप्रतिमामापतंतीं महाबलः ।
निगृह्य रामः कुपित स्ततो लक्ष्मणमब्रवीत् ॥ 18 ॥

क्रूरैरनार्यै स्सौमित्रे परिहासः कथंचन ।
न कार्यः पश्यवैदेहीं कथंचित्सौम्य जीवतीम् ॥ 19 ॥

इमां विरूपामसतीमतिमत्तां महोदरीम् ।
राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥ 20 ॥

इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः ।
उद्धृत्य खंगं चिच्छेद कर्णनासं महाबलः ॥ 21 ॥

निकृत्तकर्णनासा तु विस्वरं सा विनद्य च ।
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ 22 ॥

सा विरूपा महाघोरा राक्षसी शोणितोक्षिता ।
ननाद विविधान्नादान्यथा प्रावृषि तोयदः ॥ 23 ॥

सा विक्षरंती रुधिरं बहुधा घोरदर्शना ।
प्रगृह्य बाहू गर्जंती प्रविवेश महावनम् ॥ 24 ॥

ततस्तु सा राक्षससंघसंवृतं खरं जनस्थानगतं विरूपिता ।
उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाऽशनिः ॥ 25 ॥

ततस्सभार्यं भयमोहमूर्छिता सलक्ष्मणं राघवमागतं वनम् ।
विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे अष्टादशस्सर्गः ॥




Browse Related Categories: