View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.68 सुंदरकांड - अष्टषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ अष्टषष्टितमस्सर्गः ।

अथाहमुत्तरं देव्या पुनरुक्त स्ससंभ्रमम् ।
तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥ 1 ॥

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।
यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥ 2 ॥

यदि वा मन्यसे वीर वसैकाहमरिंदम ।
कस्मिंश्चित्संवृते देशे विक्रांतश्श्वो गमिष्यसि ॥ 3 ॥

मम चाप्यल्पभाग्यायास्सान्निध्यात्तव वीर्यवन् ।
अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ॥ 4 ॥

गते हि त्वयि विक्रांते पुनरागमनाय वै ।
प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ 5 ॥

तवादर्शनजश्शोको भूयो मां परितापयेत् ।
दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ॥ 6 ॥

अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ 7 ॥

कथं नु खलु दुष्पारं तरिष्यंति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ 8 ॥

त्रयाणामेव भूतानां सागरस्यास्य लंघने ।
शक्तिस्स्याद्वैनतेयस्य तव वा मारुतस्य वा ॥ 9 ॥

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।
किं पश्यसि समाधानं ब्रूहि कार्यविदां वरः ॥ 10 ॥

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ 11 ॥

बलै स्समग्रैर्यदि मां हत्वा रावणमाहवे ।
विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् ॥ 12 ॥

यथाऽहं तस्य वीरस्य वनादुपधिना हृता ।
रक्षसा तद्भयादेव तथा नार्हति राघवः ॥ 13 ॥

बलैस्तु संकुलां कृत्वा लंकां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ 14 ॥

तद्यथा तस्य विक्रांतमनुरूपं महात्मनः ।
भवेदाहवशूरस्य तथा त्वमुपपादय ॥ 15 ॥

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्याहं तत श्शेषं वाक्यमुत्तरमब्रुवम् ॥ 16 ॥

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवस्सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः ॥ 17 ॥

तस्य विक्रमसंपन्नास्सत्त्ववंतो महाबलाः ।
मन स्संकल्पसंपाता निदेशे हरयः स्थिताः ॥ 18 ॥

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः ।
न च कर्मसु सीदंति महत्स्वमिततेजसः ॥ 19 ॥

असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ 20 ॥

मद्विशिष्टाश्च तुल्याश्च संति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ॥ 21 ॥

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
न हि प्रकृष्टाः प्रेत्यंते प्रेष्यंते हीतरे जनाः ॥ 22 ॥

तदलं परितापेन देवि मन्युर्व्यपैतु ते ।
एकोत्पातेन ते लंकामेष्यंति हरियूथपाः ॥ 23 ॥

मम पृष्ठगतौ तौ च चंद्रसूर्याविवोदितौ ।
त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ॥ 24 ॥

अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणिं लंकाद्वारमुपस्थितम् ॥ 25 ॥

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।
वानरान्वारणोंद्राभान् क्षिप्रं द्रक्षसि संगतान् ॥ 26 ॥

शैलांबुदनिकाशानां लंकामलयसानुषु ।
नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ॥ 27 ॥

निवृत्तवनवासं च त्वया सार्धमरिंदमम् ।
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ 28 ॥

ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।
जगाम शांतिं मम मैथिलात्मजा तवापि शोकेन तदाभिपीडिता ॥ 29 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे अष्टषष्टितमस्सर्गः ॥




Browse Related Categories: