View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.18 बालकांड - अष्टादश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ अष्टादशस्सर्गः ।

निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनः ।
प्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम् ॥ 1 ॥

समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ 2 ॥

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।
मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुंगवम् ॥ 3 ॥

श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः ।
बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ 4 ॥

गतेषु पृथिवीशेषु राजा दशरथस्तदा ।
प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥ 5 ॥

शांतया प्रययौ सार्धमृश्यशृंगस्सुपूजितः ।
अन्वीयमानो राज्ञाऽथ सानुयात्रेण धीमता ॥ 6 ॥

एवं विसृज्य तान्सर्वान्राजा संपूर्णमानसः ।
उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिंतयन् ॥ 7 ॥

ततो यज्ञे समाप्ते तु ऋतूनां षट्समत्ययुः ।
ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ 8 ॥

नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पंचसु ।
ग्रहेषु कर्कटे लग्ने वाक्पताविंदुना सह ॥ 9 ॥

प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम् ॥ 10 ॥

विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुवर्धनम् ।
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ॥ 11 ॥

यथा वरेण देवानामदितिर्वज्रपाणिना ।
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ॥ 12 ॥

साक्षाद्विष्णोश्चतुर्भागस्सर्वैस्समुदितो गुणैः ।
अथ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत्सुतौ ॥ 13 ॥

वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ।
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ॥ 14 ॥

सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ ।
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ॥ 15 ॥

गुणवंतोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ।
जगुः कलं च गंधर्वा ननृतुश्चाप्सरोगणाः ॥ 16 ॥

देवदुंदुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।
उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ 17 ॥

रथ्याश्च जनसंबाधा नटनर्तकसंकुलाः ।
गायनैश्च विराविण्यो वादनैश्च तथाऽपरैः ॥ 18 ॥

प्रदेयांश्च ददौ राजा सूतमागधवंदिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ 19 ॥

अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् ।
ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ 20 ॥

सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।
वसिष्ठः परमप्रीतो नामानि कृतवान् तदा ॥ 21 ॥

ब्राह्मणान्भोजयामास पौरांजानपदानपि ।
अददाद्ब्रह्मणानां च रत्नौघममितं बहु ॥ 22 ॥

तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ 23 ॥

बभूव भूयो भूतानां स्वयंभूरिव सम्मतः ।
सर्वे वेदविदश्शूरास्सर्वे लोकहिते रताः ॥ 24 ॥

सर्वे ज्ञानोपसंपन्नास्सर्वे समुदिता गुणैः ।
तेषामपि महातेजा रामस्सत्यपराक्रमः ॥ 25 ॥

इष्टस्सर्वस्य लोकस्य शशांक इव निर्मलः ।
गजस्कंधेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥ 26 ॥

धनुर्वेदे च निरतः पितृशुश्रूषणे रतः ।
बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ 27 ॥

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।
सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ 28 ॥

लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः ।
न च तेन विना निद्रां लभते पुरुषोत्तमः ॥ 29 ॥

मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।
यदा हि हयमारूढो मृगयां याति राघवः ॥ 30 ॥

तदैनं पृष्ठतोऽन्वेति सधनुः परिपालयन् ।
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥ 31 ॥

प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ।
स चतुर्भिर्महाभागैःपुत्रैर्दशरथः प्रियैः ॥ 32 ॥

बभूव परमप्रीतो देवैरिव पितामहः ।
ते यदा ज्ञानसंपन्नास्सर्वैस्समुदिता गुणैः ॥ 33 ॥

ह्रीमंतः कीर्तिमंतश्च सर्वज्ञा दीर्घदर्शिनः ।
तेषामेवं प्रभावानां सर्वेषां दीप्ततेजसाम् ॥ 34 ॥

पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥ 35 ॥

पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ।
अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥ 36 ॥

चिंतयामास धर्मात्मा सोपाध्यायस्सबांधवः ।
तस्य चिंतयमानस्य मंत्रिमध्ये महात्मनः ॥ 37 ॥

अभ्यगच्छन्महातेजा विश्वामित्रो महामुनिः ।
स राज्ञो दर्शनाकांक्षी द्वाराध्यक्षानुवाच ह ॥ 38 ॥

शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनस्सुतम् ।
तच्छ्रुत्वा वचनं त्रासाद्राज्ञो वेश्म प्रदुद्रुवुः ॥ 39 ॥

संभ्रांतमनसस्सर्वे तेन वाक्येन चोदिताः ।
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥ 40 ॥

प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे तदा ।
तेषां तद्वचनं श्रुत्वा सपुरोधास्समाहितः ॥ 41 ॥

प्रत्युज्जगाम तं हृष्टो ब्रह्माणमिव वासवः ।
तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥ 42 ॥

प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ।
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥ 43 ॥

कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ।
2 पुरे कोशे जनपदे बांधवेषु सुहृत्सु च ॥ 44 ॥

कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः ।
अपि ते सन्नतास्सर्वे सामंता रिपवो जिताः ॥ 45 ॥

दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ।
वसिष्ठं च समागम्य कुशलं मुनिपुंगवः ॥ 46 ॥

ऋषींश्च तान्यथान्यायं महाभागानुवाच ह ।
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥ 47 ॥

विविशुः पूजितास्तत्र निषेदुश्च यथार्हतः ।
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥ 48 ॥

उवाच परमोदारो हृष्टस्तमभिपूजयन् ।
यथाऽमृतस्य संप्राप्तिर्यथावर्षमनूदके ।
यथा सदृशदारेषु पुत्रजन्माऽप्रजस्य च ॥ 49 ॥

प्रणष्टस्य यथालाभो यथा हर्षो महोदये ।
तथैवागमनं मन्ये स्वागतं ते महामुने ॥ 50 ॥

कं च ते परमं कामं करोमि किमु हर्षितः ॥ 51 ॥

पात्रभूतोऽसि मे ब्रह्मंदिष्टया प्राप्ताऽसि कौशिक ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ 52 ॥

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ॥ 53 ॥

तदद्भुतमिदं ब्रह्मन्पवित्रं परमं मम ।
शुभक्षेत्रगतश्चाहं तव संदर्शनात्प्रभो ॥ 54 ॥

ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति ।
इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥ 55 ॥

कार्यस्य न विमर्शं च गंतुमर्हसि कौशिक ।
कर्ता चाहमशेषेण दैवतं हि भवान्मम ॥ 56 ॥

मम चायमनुप्राप्तो महानभ्युदयो द्विज ।
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥ 57 ॥

इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणैर्विशिष्टः परमऋषिः परमं जगाम हर्षम् ॥ 58 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे अष्टादशस्सर्गः ॥




Browse Related Categories: