View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.15 युद्धकांड - पंचदश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचदशस्सर्गः ।

बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्ययत्नेनविभीषणस्य ।
ततोमहात्मावचनंबभाषेतत्रेंद्रजिन्नैरृतयूथमुख्यः ॥ 1 ॥

किंनामतेतातकनिष्ठवाक्यमनर्थकंचेवेसुबसुभीतवच्च ।
अस्मिन्कुलेयोऽपिभवेन्नजातस्सोऽपीदृशंनैववदेन्नकुर्यात् ॥ 2 ॥

सत्त्वेनवीर्येणपराक्रमेणशौर्येणधैर्येणचतेजसाच ।
एकःकुलेऽस्मिन्पुरुषोविमुक्तोविभीषणस्तातकनिष्ठएषः ॥ 3 ॥

किंनामतौमानुषराजपुत्रावस्माकमेकेनहिराक्षसेन ।
सुप्राकृतेनापिरणेनिहंतुमेतौशक्यौकुतोभीषयसेस्मभीरो ॥ 4 ॥

त्रिलोकनाथोननुदेवराजश्शक्रोमयाभूमितलेनिविष्टः ।
भयार्पिताश्चापिदिशःप्रपन्नास्सर्वेतथादेवगणास्समग्राः ॥ 5 ॥

ऐरावतोविस्वरमुन्नदन् सनिपातितोभूमितलेमयातु ।
विकृष्यदंतौतुमयाप्रसह्यवित्रासितादेवगणास्समग्राः ॥ 6 ॥

सोऽहंसुराणामपिदर्पहंतादैत्योत्तमानामपिशोकदाता ।
कथंनरेंद्रात्मजयोर्नशक्तोमनुष्ययोःप्राकृतयोस्सुवीर्यः ॥ 7 ॥

अथेंद्रकल्पस्यदुरासदस्यमहौजसस्तद्वचनंनिशम्य ।
ततोमहार्थवचनंबभाषेविभीषणश्शस्त्रभृतांवरिष्ठः ॥ 8 ॥

नतातमंत्रेतवनिश्चयोऽस्तिबालस्त्वमद्याप्यविपक्वबुद्धिः ।
तस्मात्त्वयाप्यात्मविनाशनायवचोऽर्धहीनंबहुविप्रलप्तम् ॥ 9 ॥

पुत्रप्रवादेवतुरावणस्यत्वमिंद्रजिन्मित्रमुखोऽसिशत्रुः ।
यस्येदृशंराघवतोविनाशंनिशम्यमोहादनुमन्यसेत्वम् ॥ 10 ॥

त्वमेव वध्यश्च सुदुर्मतिश्च ।
स चापि वध्यो य ऐहानयत्त्वाम् ।
बालं दृढं साहासिकं च योऽद्य ।
प्रावेशयन्मंत्रक्R​तां समीपम् ॥ 11 ॥

मूढोऽप्रगल्भोऽविनयोपपन्नस्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा ।
मूर्खस्त्वमत्यर्थसुदुर्मतिश्चत्वमिंद्रजिद्बालतयाब्रवीषि ॥ 12 ॥

कोब्रह्मदंडप्रतिमप्रकाशानर्चिष्मतःकालनिकाशरूपान् ।
सहेतबाणान्यमदंडकल्पान्समक्षमुक्तान्युधिराघवेण ॥ 13 ॥

धनानिरत्नानिसुभूषणानिवासांसिदिव्यानिमणींश्च ।
चित्रान् सीतांचरामायनिवेद्यदेवींवसेमराजन् निहवीतशोकाः ॥ 14 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचदशस्सर्गः ॥




Browse Related Categories: