View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.32 बालकांड - द्वात्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ द्वात्रिंशस्सर्गः ।

ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥ 1 ॥

स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् ।
वैदर्भ्यां जनयामास चतुरस्सदृशान् सुतान् ॥ 2 ॥

कुशांबं कुशनाभं च अधूर्तरजसं वसुम् ।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ 3 ॥

तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्राः धर्मं प्राप्स्यथ पुष्कलम् ॥ 4 ॥

ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ 5 ॥

कुशांबस्तु महातेजाः कौशांबीमकरोत्पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ 6 ॥

अधूर्तरजसो राम धर्मारण्यं महीपतिः ।
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ 7 ॥

एषा वसुमती राम वसोस्तस्य महात्मनः ।
एते शैलवराः पंच प्रकाशंते समंततः ॥ 8 ॥

सुमागधी नदी रम्या मगधान् विश्रुताययौ ।
पंचानां शैलमुख्यानां मध्ये मालेव शोभते ॥ 9 ॥

सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ 10 ॥

कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनंदन ॥ 11 ॥

तास्तु यौवनशालिन्यो रूपवत्य स्स्वलंकृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ 12 ॥

गायंत्यो नृत्यमानाश्च वादयंत्यश्च सर्वशः ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ 13 ॥

अथ ताश्चारुसर्वांग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनांतरे ॥ 14 ॥

तास्सर्वगुणसंपन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ 15 ॥

अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावः दीर्घमायुरवाप्स्यथ ॥ 16 ॥

चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षय्यं यौवनं प्राप्ताः अमर्यश्च भविष्यथ ॥ 17 ॥

तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ 18 ॥

अंतश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम ।
प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ 19 ॥

कुशनाभसुतास्सर्वाः समर्थास्त्वां सुरोत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ 20 ॥

माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम् ।
नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥ 21 ॥

पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ 22 ॥

तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभंज भगवान् प्रभुः ॥ 23 ॥

ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रापतन् भुवि संभ्रांतास्सलज्जा स्सास्रलोचनाः ॥ 24 ॥

स च ता दयिता दीनाः कन्याः परमशोभनाः ।
दृष्ट्वा भग्नास्तदा राजा संभ्रांत इदमब्रवीत् ॥ 25 ॥

किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वा वेष्टंत्यो नाभिभाषथ ।
एवं राजा विनिश्श्वस्य समाधिं संदधे ततः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे द्वात्रिंशस्सर्गः ॥




Browse Related Categories: