View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.77 अयोध्याकांड - सप्तसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तसप्ततितमस्सर्गः ।

ततो दशाहेऽतिगते कृतशौचो नृपात्मजः ।
द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत् ॥ 1 ॥

ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम् ।
वासांसि च महार्हाणि रत्नानि विविधानि च ॥ 2 ॥

बास्तिकं बहु शुक्लं च गाश्चापि शतशस्तथा ।
दासीदासं च यानं च वेश्मानि सुमहांति च ॥ 3 ॥

ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम् ।
ततः प्रभातसमये दिवसेऽथ त्रयोदशे ॥ 4 ॥

विललाप महाबाहुर्भरत श्शोकमूर्छितः ।
शब्दापिहितकंठस्तु शोधनार्थमुपागतः ॥ 5 ॥

चितामूले पितुर्वाक्यमिदमाह सुदुःखितः ।
तात यस्मिन्निसृष्टोऽहं त्वया भ्रातरि राघवे ॥ 6 ॥

तस्मिन्वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया ।
यस्या गतिरनाथायाः पुत्रः प्रवाजितो वनम् ।
तामंबां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप ॥ 7 ॥

दृष्ट्वा भस्मारुणं तच्च दग्धास्थि स्थानमंडलम् ॥ 8 ॥

पितु श्शरीरनिर्वाणं निष्टनन्विषसाद सः ।
स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले ॥ 9 ॥

उत्थाप्यमानश्शक्रस्य यंत्रध्वज इव च्युतः ।
अभिपेतुस्ततस्सर्वे तस्यामात्याश्शुचिव्रतम् ॥ 10 ॥

अंतकाले निपतितं ययातिमृषयो यथा ।
शत्रुघ्न श्चापि भरतं दृष्ट्वा शोकं परिप्लुतः ॥ 11 ॥

विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन् ।
उन्मत्त इव निश्चेता विललाप सुदुःखितः ॥ 12 ॥

स्मृत्वा पितुर्गुणांगानि तानि तानि तथा तथा ।
मंथराप्रभवस्तीव्रः कैकेयीग्राहसंकुलः ॥ 13 ॥

वरदानमयोऽक्षोभ्योऽमंजयच्छोकसागरः ।
सुकुमारं च बालं च सततं लालितं त्वया ॥ 14 ॥

क्व तात भरतं हित्वा विलपंतं गतो भवान् ।
ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च ॥ 15 ॥

प्रवारयसि नस्सर्वान् तन्नः कोऽन्यः करिष्यति ।
अवदारणकाले तु पृथिवी नावदीर्यते ॥ 16 ॥

या विहीना त्वया राज्ञा धर्मज्ञेन महात्मना ।
पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते ॥ 17 ॥

किं मे जीवितसामर्थ्यं प्रवेक्ष्यामि हुताशनम् ।
हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम् ॥ 18 ॥

अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम् ।
तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत् ॥ 19 ॥

भृशमार्ततरा भूयस्सर्वएवानुगामिनः ।
ततो विषण्णौ श्रांतौ च शत्रुघ्नभरतावुभौ ॥ 20 ॥

धरण्यां संव्यवेष्टेतां भग्नशृंगाविवर्षभौ ।
ततः प्रकृतिमान्वैद्यः पितुरेषां पुरोहितः ॥ 21 ॥

वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह ।
त्रयोदशोऽयं दिवसः पितुर्वृत्तस्य ते विभो ॥ 22 ॥

सावशेषास्थिनिचये किमिह त्वं विलंभसे ।
त्रीणि द्वंद्वानि भूतेषु प्रवृत्तान्यविशेषतः ॥ 23 ॥

तेषु चापरिहार्येषु नैवं भवितुमर्हसि ।
सुमंत्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च ॥ 24 ॥

श्रावयामास तत्त्वज्ञ स्सर्वभूतभवाभवम् ।
उत्थितौ च नरव्याघ्रौ प्रकाशेते यशस्विनौ ॥ 25 ॥

वर्षातपपरिक्लिनौ पृथगिंद्रध्वजाविव ।
अश्रूणि परिमृद्नंतौ रक्ताक्षौ दीनभाषिणौ ।
अमात्यास्त्वरयंति स्म तनयौ चापराः क्रियाः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तसप्ततितमस्सर्गः ॥




Browse Related Categories: