View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.34 किष्किंधाकांड - चतुस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ चतुस्त्रिंशस्सर्गः ।

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेंद्रियः ॥ 1 ॥

क्रुद्धं निश्श्वसमानं तं प्रदीप्तमिव तेजसा ।
भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ॥ 2 ॥

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ।
महान्महेंद्रस्य यथा स्वलंकृत इव ध्वजः ॥ 3 ॥

उत्पतंतमनूत्पेतू रुमाप्रभृतयः स्त्रियः ।
सुग्रीवं गगने पूर्णचंद्रं तारागणा इव ॥ 4 ॥

संरक्तनयनः श्रीमान्विचचाल कृतांजलिः ।
बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ 5 ॥

रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।
अब्रवील्लक्ष्मणः क्रुद्धस्सतारं शशिनं यथा ॥ 6 ॥

सत्त्वाभिजनसंपन्नस्सानुक्रोशो जितेंद्रियः ।
कृतज्ञस्सत्यवादी च राजा लोके महीयते ॥ 7 ॥

यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम् ।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ 8 ॥

शतमश्वानृते हंति सहस्रं तु गवानृते ।
आत्मानं स्वजनं हंति पुरुषः पुरुषानृते ॥ 9 ॥

पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।
कृतघ्नस्सर्वभूतानां स वध्यः प्लवगेश्वर ॥ 10 ॥

गीतोऽयं ब्रह्मणा श्लोक स्सर्वलोकनमस्कृतः ।
दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवंगम ॥ 11 ॥

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ 12 ॥

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ।
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ 13 ॥

ननु नाम कृतार्थेन त्वया रामस्य वानर ।
सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ 14 ॥

स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ।
न त्वां रामो विजानीते सर्पं मंडूकराविणम् ॥ 15 ॥

महाभागेन रामेण पापः करुणवेदिना ।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ 16 ॥

कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः ।
सद्यस्त्वं निशितैर्भावार्हतो द्रक्ष्यसि वालिनम् ॥ 17 ॥

न च संकुचितः पंथा येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ 18 ॥

न नूनमिक्ष्वाकुवरस्य कार्मुक च्युतान् शरान्पश्यसि वज्र सन्निभान् ।
तत स्सुखं नाम निषेवसे सुखी ।
न रामकार्यं मनसाऽप्यवेक्षसे ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे चतुस्त्रिंशस्सर्गः ॥




Browse Related Categories: