श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकचत्वारिंशस्सर्गः ।
पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनंदन ।
नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ 1 ॥
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।
पितृणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥ 2 ॥
अंतर्भौमानि सत्त्वानि वीर्यवंति महांति च ।
तेषां त्वं प्रतिघातार्थं सास्त्रं गृह्णीष्व कार्मुकम् ॥ 3 ॥
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।
सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ॥ 4 ॥
एवमुक्तोंऽशुमान्सम्यक् सगरेण महात्मना ।
धनुरादाय खड्गं च जगाम लघुविक्रमः ॥ 5 ॥
स खातं पितृभिर्मार्गमंतर्भौमं महात्मभिः ।
प्रापद्यत नरश्रेष्ठ तेन राज्ञाऽभिचोदितः ॥ 6 ॥
दैत्यदानवरक्षोभिः पिशाचपतगोरगैः ।
पूज्यमानं महातेजा दिशागजमपश्यत ॥ 7 ॥
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ।
पितृन् स परिपप्रच्छ वाजिहर्तारमेव च ॥ 8 ॥
दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः ।
आसमंज कृतार्थस्त्वं सहाश्वश्शीघ्रमेष्यसि ॥ 9 ॥
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ 10 ॥
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
पूजितस्सहयश्चैव गंताऽसीत्यभिचोदितः ॥ 11 ॥
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ 12 ॥
स दुःखवशमापन्नस्त्वसमंजसुतस्तदा ।
चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ 13 ॥
यज्ञीयं च हयं तत्र चरंतमविदूरतः ।
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ 14 ॥
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥ 15 ॥
विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम् ।
पितृणां मातुलं राम सुपर्णमनिलोपमम् ॥ 16 ॥
स चैवमब्रवीद्वाक्यं वैनतेयो महाबल ः ।
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥ 17 ॥
कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः ।
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ 18 ॥
गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
तस्यां कुरु महाबाहो पितृणां तु जलक्रियाम् ॥ 19 ॥
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।
तया क्लिन्नमिदं भस्म गंगया लोककांतया ॥ 20 ॥
षष्टिं पुत्रसहस्राणि स्वर्गलोकं च नेष्यति ।
गच्छ चाश्वं महाभाग तं गृह्य पुरुषर्षभ ॥ 21 ॥
यज्ञं पैतामहं वीर संवर्तयितुमर्हसि ।
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ॥ 22 ॥
त्वरितं हयमादाय पुनरायान्महायशाः ।
ततो राजानमासाद्य दीक्षितं रघुनंदन ॥ 23 ॥
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा ।
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः ॥ 24 ॥
यज्ञं निवर्तयामास यथाकल्पं यथाविधि ।
स्वपुरं चागमच्छ्रीमानिष्टयज्ञोमहीपतिः ॥ 25 ॥
गंगायाश्चागमे राजा निश्चयं नाध्यगच्छत ।
अकृत्वा निश्चयं राजा कालेन महता महान् ।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकचत्वारिंशस्सर्गः ॥