View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.5 बालकांड - पंचम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचमस्सर्गः ।

. सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुंधरा ।
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥ 1 ॥

येषां स सगरो नाम सागरो येन खानितः ।
षष्टिः पुत्रसहस्राणि यं यांतं पर्यवारयन् ॥ 2 ॥

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ 3 ॥

तदिदं वर्तयिष्यामि सर्वं निखिलमादितः ।
धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ 4 ॥

कोसलो नाम मुदितस्स्फीतो जनपदो महान् ।
निविष्टस्सरयूतीरे प्रभूतधनधान्यवान् ॥ 5 ॥

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेंद्रेण या पुरी निर्मिता स्वयम् ॥ 6 ॥

आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ 7 ॥

राजमार्गेण महता सुविभक्तेन शोभिता ।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ 8 ॥

तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।
पुरीमावासयामास दिवं देवपतिर्यथा ॥ 9 ॥

कवाटतोरणवतीं सुविभक्तांतरापणाम् ।
सर्वयंत्रायुधवतीमुपेतां सर्वशिल्पिभिः ॥ 10 ॥

सूतमागधसंबाधां श्रीमतीमतुलप्रभाम् ।
उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥ 11 ॥

वधूनाटकसंघैश्च संयुक्तां सर्वतः पुरीम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥ 12 ॥

दुर्गगंभीरपरिघां दुर्गामन्यैर्दुरासदाम् ।
वाजिवारणसंपूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ 13 ॥

सामंतराजसंघैश्च बलिकर्मभिरावृताम् ।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ 14 ॥

प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् ।
कूटागारैश्च संपूर्णामिंद्रस्येवामरावतीम् ॥ 15 ॥

चित्रामष्टापदाकारां नरनारीगणैर्युताम् ।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ 16 ॥

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
शालितंडुलसंपूर्णामिक्षुकांडरसोदकाम् ॥ 17 ॥

दुंदुभीभिर्मृदंगैश्च वीणाभिः पणवैस्तथा ।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ 18 ॥

विमानमिव सिद्धानां तपसाधिगतं दिवि ।
सुनिवेशितवेश्मांतां नरोत्तमसमावृताम् ॥ 19 ॥

ये च बाणैर्न विध्यंति विविक्तमपरापरम् ।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ 20 ॥

सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।
हंतारो निशितैश्शस्त्रैर्बलाद्बाहुबलैरपि ॥ 21 ॥

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ॥ 22 ॥

ये च बाणैर्न विध्यंति विविक्तमपरापरम् ।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ 23 ॥

सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।
हंतारो निशितैश्शस्त्रैर्बलाद्बाहुबलैरपि ॥ 24 ॥

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ॥ 25 ॥

तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडंगपारगैः ।
सहस्रदैस्सत्यरतैर्महात्मभि र्महर्षिकल्पै ऋषिभिश्च केवलैः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचमस्सर्गः ॥




Browse Related Categories: