View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.4 अयोध्याकांड - चतुर्थ सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुर्थस्सर्गः ।

गतेष्वथ नृपो भूयः पौरेषु सह मंत्रिभिः ।
मंत्रयित्वा ततश्चक्रे निश्चयज्ञस्सनिश्चयम् ॥ 1 ॥

श्व एव पुष्यो भविताश्वोऽभिषेच्यस्तु मे सुतः ।
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ 2 ॥

गतेष्वथ नृपो भूयः पौरेषु सह मंत्रिभिः ।
मंत्रयित्वा ततश्चक्रे निश्चयज्ञस्सनिश्चयम् ॥ 3 ॥

श्व एव पुष्यो भविताश्वोऽभिषेच्यस्तु मे सुतः ।
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ 4 ॥

अथाऽंतर्गृहमाविश्य राजा दशरथस्तदा ।
सूतमामंत्रयामास रामं पुनरिहानय ॥ 5 ॥

प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।
रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ 6 ॥

द्वार्स्थैरावेदितं तस्य रामायाऽऽगमनं पुनः ।
श्रुत्वैव चापि रामस्तं प्राप्तं शंकान्वितोऽभवत् ॥ 7 ॥

प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ।
यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः ॥ 8 ॥

तमुवाच तत स्सूतो राजा त्वां द्रष्टुमिच्छति ।
श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ 9 ॥

इति सूतवच श्श्रुत्वा रामोऽथ त्वरयाऽन्वितः ।
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ 10 ॥

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।
प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ 11 ॥

प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः ।
ददर्श पितरं दूरात्प्रणिपत्य कृतांजलिः ॥ 12 ॥

प्रणमंतं समुत्थाप्य तं परिष्वज्य भूमिपः ।
प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ 13 ॥

राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।
अन्नवद्भिः क्रतुशतै स्तथेष्टं भूरिदक्षिणैः ॥ 14 ॥

जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।
दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ 15 ॥

अनुभूतानि चेष्टानि मया वीर सुखान्यपि ।
देवर्षिपितृविप्राणामनृणोऽस्मि तथाऽत्मनः ॥ 16 ॥

न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात् ।
अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ 17 ॥

अद्य प्रकृतयस्सर्वास्त्वामिच्छंति नराधिपम् ।
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ 18 ॥

अपि चाद्याऽशुभान्राम स्वप्ने पश्यामि दारुणान् ।
सनिर्घाता दिवोल्का च पततीह महास्वना ॥ 19 ॥

अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।
आवेदयंति दैवज्ञाः सूर्यांगारकराहुभिः ॥ 20 ॥

प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।
राजा हि मृत्युमाप्नोति घोरां वाऽऽपदमृच्छति ॥ 21 ॥

तद्यावदेव मे चेतो न विमुह्यति राघव ।
तावदेवाभिषिंचस्व चला हि प्राणिनां मतिः ॥ 22 ॥

अद्य चंद्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसू ।
श्वः पुष्ययोगं नियतं वक्ष्यंते दैवचिंतकाः ॥ 23 ॥

ततः पुष्येऽभिषिंचस्व मनस्त्वरयतीव माम् ।
श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ 24 ॥

तस्मात्त्वयाऽद्य प्रभृति निशेयं नियतात्मना ।
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ 25 ॥

सुहृदश्चाप्रमत्तास्त्वां रक्षंत्वद्य समंततः ।
भवंति बहु विघ्नानि कार्याण्येवंविधानि हि ॥ 26 ॥

विप्रोषितश्च भरतो यावदेव पुरादितः ।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ 27 ॥

कामं खलु सतां वृत्ते भ्राता ते भरतस्स्थितः ।
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेंद्रियः ॥ 28 ॥

किंतु चित्तं मनुष्याणामनित्यमिति मे मतिः ।
सतां च धर्मनित्यानां कृतशोभि च राघव ॥ 29 ॥

इत्युक्त स्सोऽभ्यनुज्ञात श्श्वोभाविन्यभिषेचने ।
व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥ 30 ॥

प्रविश्य चात्मनो वेश्मराज्ञोद्दिष्टेऽभिषेचने ।
तत्क्षणेन विनिर्गम्य मातुरंतपुरं ययौ ॥ 31 ॥

तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।
वाग्यतां देवतागारे ददर्शाऽऽयाचतीं श्रियम् ॥ 32 ॥

प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तथा ।
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ 33 ॥

तस्मिन् काले हि कौशल्या तस्थावामीलितेक्षणा ।
सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन च ॥ 34 ॥

श्रुत्वा पुष्येण पुत्रस्य यौवराज्याऽभिषेचनम् ।
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ 35 ॥

तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।
उवाच वचनं रामो हर्षयंस्तामनिंदिताम् ॥ 36 ॥

अंब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।
भविता श्वोऽभिषेको मे यथा मे शासनं पितुः ॥ 37 ॥

सीतयाप्युपवस्तव्या रजनीयं मया सह ।
एवमृत्विगुपाध्यायै स्सह मामुक्तवान्पिता ॥ 38 ॥

यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने ।
तानि मे मंगलान्यद्य वैदेह्याश्चैव कारय ॥ 39 ॥

एतच्छ्रुत्वा तु कौशल्या चिरकालाभिकांक्षितम् ।
हर्षबाष्पकलं वाक्यमिदं राममभाषत ॥ 40 ॥

वत्स राम चिरं जीव हतास्ते परिपंथिनः ।
ज्ञातीन्मे त्वं श्रिया युक्त स्सुमित्रायाश्च नंदय ॥ 41 ॥

कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक ।
येन त्वया दशरथो गुणैराराधितः पिता ॥ 42 ॥

अमोघं बत मे क्षांतं पुरुषे पुष्करेक्षणे ।
येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥ 43 ॥

इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।
प्रांजलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव ॥ 44 ॥

लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् ।
द्वितीयं मेऽंतरात्मानं त्वामियं श्रीरुपस्थिता ॥ 45 ॥

सौमित्रे भुंक्ष्व भोगांत्स्वमिष्टान्राज्यफलानि च ।
जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ 46 ॥

इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥ 47 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुर्थस्सर्गः ॥




Browse Related Categories: