View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.3 अरण्यकांड - तृतीय सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ तृतीयस्सर्गः ।

इत्युक्त्वा लक्ष्मणश्श्रीमान्विराधे प्रहसन्निव ।
कोभवान्वनमभ्येत्य चरिष्यसि यथासुखम् ॥ 1 ॥

अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् ।
पृच्छतो मम हि ब्रूतं कौ युवां क्व गमिष्यथः ॥ 2 ॥

. ।
तमुवाच ततो रामो राक्षसं ज्वलिताननम् ।
पृच्छंतं सुमहातेजा इक्ष्वाकुकुलमात्मनः ॥ 3 ॥

क्षत्रियौ वृत्तसंपन्नौ विद्धि नौ वनगोचरौ ।
त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दंडकान् ॥ 4 ॥

तमुवाच विराधस्तु रामं सत्यपराक्रमम् ।
हंत वक्ष्यामि ते राजन्निबोध मम राघव ॥ 5 ॥

पुत्रः किल जयस्याहं माता मम शतह्रदा ।
विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥ 6 ॥

तपसा चाभिसंप्राप्ता ब्रह्मणो हि प्रसादजा ।
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ 7 ॥

उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् ।
त्वरमाणौ पलायेथां न वां जीवितमाददे ॥ 8 ॥

तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ।
राक्षसं विकृताकारं विराधं पापचेतसम् ॥ 9 ॥

क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम् ।
रणे प्राप्स्यसे संतिष्ठ न मे जीवन् गमिष्यासि ॥ 10 ॥

ततः सज्यं धनुः कृत्वा रामस्सुनिशितांछरान् ।
सुशीघ्रमभिसंधाय राक्षसं निजघान ह ॥ 11 ॥

धनुषा ज्यागुणवता सप्त बाणान्मुमोच ह ।
रुक्मपुंखान्महावेगान्सुपर्णानिलतुल्यगान् ॥ 12 ॥

ते शरीरं विराधस्य भित्त्वाबर्हिणवाससः ।
निपेतुश्शोणितादिग्धा धरण्यां पावकोपमाः ॥ 13 ॥

स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः ।
अभ्यद्रवत्सुसंकृद्धस्तदा रामं सलक्ष्मणम् ॥ 14 ॥

स विनद्य महानादं शूलं शक्रध्वजोपमम् ।
प्रगृह्याशोभत तदा व्यात्तानन इवांतकः ॥ 15 ॥

अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः ।
विराधे राक्षसे तस्मिन् कालांतकयमोपमे ॥ 16 ॥

स प्रहस्य महारौद्रः स्थित्वाजृंभत राक्षसः ।
जृंभमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ॥ 17 ॥

स्पर्शात्तु वरदानेन प्राणान्सम्रोध्य राक्षसः ।
विराधः शूलमुद्यम्य राघवावभ्यधावत ॥ 18 ॥

तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् ।
द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतांवरः ॥ 19 ॥

तद्रामविशिखच्छिन्नं शूलं तस्यकराद्भुवि ।
पपाताशनिना छिन्नं मेरोरिव शिलातलम् ॥ 20 ॥

तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौशुभौ ।
तूर्णमापेततुस्तस्य तदा प्रहरतां बलात् ॥ 21 ॥

स वध्यमानः सुभृशं भुजाभ्यां परिरभ्यतौ ।
अप्रकंप्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥ 22 ॥

तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ।
वहत्वयमलं तावत्पथाऽनेन तु राक्षसः ॥ 23 ॥

यथा चेच्छति सौमित्रे तथा वहतु राक्षसः ।
अयमेव हि नः पंथा येन याति निशाचरः ॥ 24 ॥

स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः ।
बालाविव स्कंधगतौ चकारातिबलोद्धतः ॥ 25 ॥

तावारोप्य ततः स्कंधं राघवौ रजनीचरः ।
विराधो विनदन्घोरं जगामाभिमुखो वनम् ॥ 26 ॥

वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम् ।
नानाविधैः पक्षिकुलैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम् ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे तृतीयस्सर्गः ॥




Browse Related Categories: