View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.56 बालकांड - षट्पंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ षट्पंचाशस्सर्गः ।

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ 1 ॥

ब्रह्मदंडं समुत्क्षिप्य कालदंडमिवाऽपरम् ।
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ 2 ॥

क्षत्रबंधो स्थितोस्म्येष यद्बलं तद्विदर्शय ।
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥ 3 ॥

क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ 4 ॥

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ।
ब्रह्मदंडेन तच्छांतमग्नेर्वेग इवांभसा ॥ 5 ॥

वारुणं चैव रौद्रं च ऐंद्रं पाशुपतं तथा ।
ऐषीकं चापि चिक्षेप कुपितो गाधिनंदनः ॥ 6 ॥

मानवं मोहनं चैव गांधर्वं स्वापनं तथा ।
जृंभणं मादनं चैव संतापनविलापने ॥ 7 ॥

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ 8 ॥

पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे ।
दंडास्त्रमथ पैशाचं क्रौंचमस्त्रं तथैव च ॥ 9 ॥

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ 10 ॥

शक्तिद्वयं च चिक्षेप कंकालं मुसलं तथा ।
560 वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ 11 ॥

त्रिशूलमस्त्रं घोरं च कापालमथ कंकणम् ।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनंदन ॥ 12 ॥

वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ।
तानि सर्वाणि दंडेन ग्रसते ब्रह्मणस्सुतः ॥ 13 ॥

तेषु शांतेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनंदनः ।
तदस्त्रमुद्यतं दृष्ट्वा देवास्साग्निपुरोगमाः ॥ 14 ॥

देवर्षयश्च संभ्रांतागंधर्वास्समहोरगाः ।
त्रैलोक्यमासीत्संतप्तं ब्रह्मास्त्रे समुदीरिते ॥ 15 ॥

तदप्यस्त्रं महाघोरं ब्रह्मं ब्राह्मेण तेजसा ।
वसिष्ठो ग्रसते सर्वं ब्रह्मदंडेन राघव ॥ 16 ॥

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम् ॥ 17 ॥

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥ 18 ॥

प्राज्वलद्ब्रह्मदंडश्च वसिष्ठस्य करोद्यतः ।
विधूम इव कालाग्निर्यमदंड इवापरः ॥ 19 ॥

ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् ।
अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा ॥ 20 ॥

निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः ।
प्रसीद जपतां श्रेष्ठ लोकास्संतु गतव्यथाः ॥ 21 ॥

एवमुक्तो महातेजाश्शमं चक्रे महातपाः ।
विश्वामित्रोऽपि निकृतो विनिश्वस्येदमब्रवीत् ॥ 22 ॥

धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं बलम् ।
एकेन ब्रह्मदंडेन सर्वास्त्राणि हतानि मे ॥ 23 ॥

तदेतत्समवेक्ष्याहं प्रसन्नेंद्रियमानसः ।
तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे षट्पंचाशस्सर्गः ॥




Browse Related Categories: