View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.64 सुंदरकांड - चतुःषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ चतुःषष्टितमस्सर्गः ।

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ 1 ॥

स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।
वानरैः सहितः शूरैर्दिवमेवोत्पपात ह ॥ 2 ॥

स यथैवाऽगतः पूर्वं तथैव त्वरितं गतः ।
निपत्य गगनाद्भूमौतद्वनं प्रविवेश ह ॥ 3 ॥

स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।
विमदानुत्थितान्सर्वान् मेहमानान्मधूदकम् ॥ 4 ॥

स तानुपागमद्वीरो बद्ध्वा करपुटांजलिम् ।
उवाच वचनं श्लक्ष्णमिदं हृष्टवदंगदम् ॥ 5 ॥

सौम्य रोषो न कर्तव्यो यदेतत्परिवारितम् ।
अज्ञानाद्रक्षिभिः क्रोधाद्भवंतः प्रतिषेधिताः ॥ 6 ॥

युवराजस्त्वमीशश्च वनस्यास्य महाबल ।
मौर्ख्यात्पूर्वं कृतो दोषस्तं भवान् क्षंतुमर्हति ॥ 7 ॥

आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।
इहोपयातं सर्वेषामेतेषां वनचारिणाम् ॥ 8 ॥

स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम् ॥ 9 ॥

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ॥ 10 ॥

श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमंगदः ।
अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ 11 ॥

शंके श्रुतोऽयं वृत्तांतो रामेण हरियूथपाः ।
तत्क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः ॥ 12 ॥

पीत्वा मधु यथाकामं विश्रांता वनचारिणः ।
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ॥ 13 ॥

सर्वे यथा मां वक्ष्यंति समेत्य हरियूथपाः ।
तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ 14 ॥

नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि ।
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ॥ 15 ॥

ब्रुवतश्चांगदस्यैवं श्रुत्वा वचनमव्ययम् ।
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ 16 ॥

एवं वक्ष्यति को राजन् प्रभुस्सन्वानरर्षभ ।
ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ 17 ॥

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ 18 ॥

सर्वे वयमपि प्राप्तास्तत्र गंतुं कृतक्षणाः ।
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ 19 ॥

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।
क्वचिद्गंतुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ 20 ॥

एवं तु वदतां तेषामंगदः प्रत्युवाच ह ।
बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ 21 ॥

उत्पतंतमनूत्पेतु स्सर्वे ते हरियूथपाः ।
कृत्वाकाशं निराकाशं यंत्रोत्क्षिप्ता इवाचलाः ॥ 22 ॥

तेऽंबरं सहसोत्पत्य वेगवंतः प्लवंगमाः ।
विनदंतो महानादं घना वातेरिता यथा ॥ 23 ॥

अंगदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः ।
उवाच शोकोपहतं रामं कमललोचनम् ॥ 24 ॥

समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ।
नागंतुमिह शक्यं तैरतीते समये हि नः ॥ 25 ॥

न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते ।
युवराजो महाबाहुः प्लवतां प्रवरोऽंगदः ॥ 26 ॥

यद्यप्यकृतकृत्यानामीदृश स्स्यादुपक्रमः ।
भवेत्स दीनवदनो भ्रांतविप्लुतमानसः ॥ 27 ॥

पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम् ।
न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ॥ 28 ॥

कौसल्यासुप्रजा राम समाश्वसिहि सुव्रत ।
दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ 29 ॥

न ह्यन्यः कर्मणो हेतुस्साधनेऽस्य हनूमतः ।
हनूमति हि सिद्धिश्च मतिश्च मतिसत्तमः ॥ 30 ॥

व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम् ।
जांबवान्यत्र नेता स्यादंगदश्च बलेश्वरः ।
हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ॥ 31 ॥

मा भूश्चिंतासमायुक्तस्संप्रत्यमितविक्रमः ॥ 32 ॥

ततः किलकिलाशब्दं शुश्रावासन्नमंबरे ।
हनुमत्कर्मदृप्तानां नार्धतां काननौकसाम् ॥ 33 ॥

किष्किंधामुपयातानां सिद्धिं कथयतामिव ।
ततश्श्रुत्वा निनादं तं कपीनां कपिसत्तमः ॥ 34 ॥

आयतांचितलांगूलस्सोऽभवद्धृष्टमानसः ।
आजग्मुस्तेऽपि हरयो रामदर्शनकांक्षिणः ॥ 35 ॥

अंगदं पुरतः कृत्वा हनूमंतं च वानरम् ।
तेऽंगदप्रमुखा वीराः प्रहृष्ठाश्च मुदान्विताः ॥ 36 ॥

निपेतुर्हरिराजस्य समीपे राघवस्य च ।
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ॥ 37 ॥

नियतामक्षतां देवीं राघवाय न्यवेदयत् ।
दृष्टा देवीति हनुमद्वदनादमृतोपमम् ॥ 38 ॥

आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ।
निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे ॥ 39 ॥

लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ।
प्रीत्या च रममाणोऽथ राघवः परवीरहा ॥ 40 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे चतुःषष्टितमस्सर्गः ॥




Browse Related Categories: