View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.47 किष्किंधाकांड - सप्तचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ सप्तचत्वारिंशस्सर्गः ।

दर्शनार्थं तु वैदेह्यास्सर्वतः कपियूधपाः ।
व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरंजसा ॥ 1 ॥

सरांसि सरित काक्षानाकाशं नगराणि च ।
नदीदुर्गांस्तथा शैलान्विचिन्वंति समंततः ॥ 2 ॥

सुग्रीवेण समाख्यातास्सर्वे वानरयूथपाः ।
प्रदेशान्प्रविचिन्वंति सशैलवनकाननान् ॥ 3 ॥

विचित्य दिवसं सर्वे सीताधिगमने धृताः ।
समायांति स्म मेदिन्यां निशाकालेषु वानराः ॥ 4 ॥

सर्वर्तुकमान् देशेषु वानारास्सफलद्रुमान् ।
आसाद्य रजनीं शय्यां चक्रुस्सर्वेष्वहस्सु ते ॥ 5 ॥

तदहः प्रथमं कृत्वा मासे प्रश्रवणं गताः ।
कपिराजेन संगम्य निराशाः कपियूधपाः ॥ 6 ॥

विचित्य तु दिशं पूर्वां यथोक्तां सचिवैस्सह ।
अदृष्ट्वा विनतस्सीतामाजगाम महाबलः ॥ 7 ॥

उत्तरां च दिशं सर्वां विचित्य स महाकपिः ।
आगतस्सह सैन्येन वीरश्शतवलिस्तदा ॥ 8 ॥

सुषेणः पश्चिमा माशां विचित्य सह वानरैः ।
समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे ॥ 9 ॥

तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च ।
आसीनं सह रामेण सुग्रीवमिदमब्रवीत् ॥ 10 ॥

विचिताः पर्वतास्सर्वे वनानि गहनानि च ।
निम्नगास्सागरांताश्च सर्वे जनपदाश्च ये ॥ 11 ॥

गुहाश्च विचितास्सर्वास्त्वया याः परिकीर्तिताः ।
विचिताश्च महागुल्मा लताविततसंतताः ॥ 12 ॥

गहनेषु च देशेषु दुर्गेषु विषमेषु च ।
सत्त्वान्यतिप्रमाणानि विचितानि हतानि च ॥ 13 ॥

ये चैव गहना देशा विचितास्ते पुनः पुनः ।
उदारसत्त्वाभिजनो महात्मा स मैथिलीं द्रक्ष्यति वानरेंद्रः ।
दिशं तु यामेव गता तु सीता तामास्थितोवायुसुतो हनूमान् ॥ 14 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे सप्तचत्वारिंशस्सर्गः ॥




Browse Related Categories: