View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.33 अयोध्याकांड - त्रयस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रयस्त्रिंशस्सर्गः ।

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु ।
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ 1 ॥

ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे ।
मालादामभिराबद्धे सीतया समलंकृते ॥ 2 ॥

ततः प्रासादहर्म्याणि विमानशिखराणि च ।
अधिरुह्य जनश्श्रीमानुदासीनो व्यलोकयत् ॥ 3 ॥

न हि रथ्याः स्म शक्यंते गंतुं बहुजनाकुलाः ।
आरुह्य तस्मात्प्रासादान् दीनाः पश्यंति राघवम् ॥ 4 ॥

पदातिं वर्जितच्छत्रं रामं दृष्ट्वा जनास्तदा ।
ऊचुर्बहुविधा वाच श्शोकोपहतचेतसः ॥ 5 ॥

यं यांतमनुयाति स्म चतुरंगबलं महत् ।
तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ॥ 6 ॥

ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः ।
नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ 7 ॥

या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ।
तामद्य सीतां पश्यंति राजमार्गगता जनाः ॥ 8 ॥

अंगरागोचितां सीतां रक्तचंदनसेविनीम् ।
वर्षमुष्णं च शीतं च नेष्यंत्याशु विवर्णताम् ॥ 9 ॥

अद्य नूनं दशरथस्सत्त्वमाविश्य भाषते ।
न हि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ 10 ॥

निर्गुणस्यापि पुत्रस्य कथं स्याद्विप्रवासनम् ।
किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ 11 ॥

अनृशंस्यमनुक्रोशः श्रुतं शीलं दमश्शमः ।
राघवं शोभयंत्येते षड्गुणाः पुरुषोत्तमम् ॥ 12 ॥

तस्मात्तस्योपघातेन प्रजाः परमपीडिताः ।
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ 13 ॥

पीडया पीडितं सर्वं जगदस्य जगत्पतेः ।
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥ 14 ॥

मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः ।
पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ॥ 15 ॥

ते लक्ष्मण इव क्षिप्रं सपत्न्य स्सहबांधवाः ।
गच्छंतमनुगच्छामो येन गच्छति राघवः ॥ 16 ॥

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ 17 ॥

समुद्धृतनिधानानि परिध्वस्ताजिराणि च ।
उपात्त धनधान्यानि हृतसाराणि सर्वशः ॥ 18 ॥

रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
मूषकैःपरिधावद्भिरुद्बिलैरावृतानि च ॥ 19 ॥

अपेतोदकधूमानि हीनसम्मार्जनानि च ।
प्रणष्टबलिकर्मेज्यामंत्रहोमजपानि च ॥ 20 ॥

दुष्कालेनेव भग्नानि भिन्नभाजनवंति च ।
अस्मात्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ 21 ॥

वनं नगरमेवास्तु येन गच्छति राघवः ।
अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥ 22 ॥

बिलानि दंष्ट्रिण स्सर्वे सानूनि मृगपक्षिणः ।
त्यजंत्वस्मद्भयाद्भीता गजास्सिंहा वनानि च ॥ 23 ॥

अस्मत्त्यक्तं प्रपद्यंतां सेव्यमानं त्यजंतु च ।
तृणमांस फलादानां देशं व्यालमृगद्विजम् ॥ 24 ॥

प्रपद्यतां हि कैकेयी सपुत्रा सह बांधवैः ।
राघवेण वने सर्वे वयं वत्स्याम निर्वृताः ॥ 25 ॥

इत्येवं विविधा वाचो नानाजनसमीरिताः ।
शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम् ॥ 26 ॥

स तु वेश्म पितुर्दूरात्कैलासशिखरप्रभम् ।
अभिचक्राम धर्मात्मा मत्तमातंगविक्रमः ॥ 27 ॥

विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।
ददर्शावस्थितं दीनं सुमंत्रमविदूरतः ॥ 28 ॥

प्रतीक्षमाणोऽपि जनं तदार्त मनार्तरूपः प्रहसन्निवाथ ।
जगाम रामः पितरं दिदृक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः ॥ 29 ॥

तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम् ।
व्यतिष्ठत प्रेक्ष्य तदा सुमंत्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ 30 ॥

पितुर्निदेशेन तु धर्मवत्सलः वनप्रवेशे कृतबुद्धिनिश्चयः ।
स राघवः प्रेक्ष्य सुमंत्रमब्रवी न्निवेदयस्वागमनं नृपाय मे ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रयस्त्रिंशस्सर्गः ॥




Browse Related Categories: