श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ अष्टचत्वारिंशस्सर्गः ।
सह तारांगदाभ्यां तु गत्वा स हनुमान्कपिः ।
सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ 1 ॥
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः ।
विचिनोति स्म विंध्यस्य गुहाश्च गहनानि च ॥ 2 ॥
पर्वताग्रान्नदीदुर्गान्सरांसि विपुलांद्रुमान् ।
वृक्षषंडांश्च विविधान्पर्वतान्घनपादपान् ॥ 3 ॥
अन्वेषमाणास्ते सर्वे वानरास्सर्वतो दिशम् ।
न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥ 4 ॥
ते भक्षयंतो मूलानि फलानि विविधानि च ।
अन्वेषमाणा दुर्धर्षान्यवसं स्तत्र तत्र ह ॥ 5 ॥
स तु देशो दुरन्वेषो गुहागहनवान्महान् ।
निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम् ॥ 6 ॥
त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः ।
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः ॥ 7 ॥
देशमन्यं दुराधर्षं विविशु श्चाकुतो भयाः ।
यत्र वंध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ॥ 8 ॥
निस्तोयास्सरितो यत्र मूलं यत्र सुदुर्लभम् ।
न संति महिषा यत्र न मृगा न च हस्तिनः ॥ 9 ॥
शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ।
न यत्रवृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः ॥ 10 ॥
स्निग्धपत्रास्स्थले यत्र पद्मिन्यः फुल्लपंकजाः ।
प्रेक्षणीयास्सुगंधाश्च भ्रमरैश्चापिवर्जिताः ॥ 11 ॥
कंडुर्नाम महाभागस्सत्यवादी तपोधनः ।
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ 12 ॥
तस्य तस्मिन्वने पुत्रो बालष्षोडशवार्षिकः ।
प्रणष्टो जीवितांताय क्रुद्धस्तत्र महामुनिः ॥ 13 ॥
तेन धर्मात्मना शप्तं कृत्स्नं तत्रमहद्वनम् ।
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥ 14 ॥
तस्य ते काननांताश्च गिरीणां कंदराणि च ।
प्रभवनि नदीनां च विचिन्वंति समाहिताः ॥ 15 ॥
तत्र चापि महात्मानो नापश्यंजनकात्मजाम् ।
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ 16 ॥
ते प्रविश्याऽशु तं भीमं लतागुल्मसमावृतम् ।
दद्दृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥ 17 ॥
तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम् ।
गाढं परिहितास्सर्वे दृष्ट्वा तान्पर्वतोपममान् ॥ 18 ॥
सोऽपि तान्वानरान्सर्वान् नष्टा स्स्थेत्यब्रवीद्बली ।
अभ्यधावत संकृद्धो मुष्टिमुद्यम्य संहितम् ॥ 19 ॥
तमापतंतं सहसा वालिपुत्रोऽंगदस्तदा ।
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह ॥ 20 ॥
स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ।
असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ 21 ॥
तेऽपि तस्मिन्निरुच्छवासे वानरा जितकाशिनः ।
व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ॥ 22 ॥
विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ।
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥ 23 ॥
ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।
एकांते वृक्षमूले तु निषेदुर्दीनमानसाः ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे अष्टचत्वारिंशस्सर्गः ॥