View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.48 किष्किंधाकांड - अष्टचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ अष्टचत्वारिंशस्सर्गः ।

सह तारांगदाभ्यां तु गत्वा स हनुमान्कपिः ।
सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे ॥ 1 ॥

स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः ।
विचिनोति स्म विंध्यस्य गुहाश्च गहनानि च ॥ 2 ॥

पर्वताग्रान्नदीदुर्गान्सरांसि विपुलांद्रुमान् ।
वृक्षषंडांश्च विविधान्पर्वतान्घनपादपान् ॥ 3 ॥

अन्वेषमाणास्ते सर्वे वानरास्सर्वतो दिशम् ।
न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥ 4 ॥

ते भक्षयंतो मूलानि फलानि विविधानि च ।
अन्वेषमाणा दुर्धर्षान्यवसं स्तत्र तत्र ह ॥ 5 ॥

स तु देशो दुरन्वेषो गुहागहनवान्महान् ।
निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम् ॥ 6 ॥

त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः ।
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः ॥ 7 ॥

देशमन्यं दुराधर्षं विविशु श्चाकुतो भयाः ।
यत्र वंध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः ॥ 8 ॥

निस्तोयास्सरितो यत्र मूलं यत्र सुदुर्लभम् ।
न संति महिषा यत्र न मृगा न च हस्तिनः ॥ 9 ॥

शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ।
न यत्रवृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः ॥ 10 ॥

स्निग्धपत्रास्स्थले यत्र पद्मिन्यः फुल्लपंकजाः ।
प्रेक्षणीयास्सुगंधाश्च भ्रमरैश्चापिवर्जिताः ॥ 11 ॥

कंडुर्नाम महाभागस्सत्यवादी तपोधनः ।
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः ॥ 12 ॥

तस्य तस्मिन्वने पुत्रो बालष्षोडशवार्षिकः ।
प्रणष्टो जीवितांताय क्रुद्धस्तत्र महामुनिः ॥ 13 ॥

तेन धर्मात्मना शप्तं कृत्स्नं तत्रमहद्वनम् ।
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् ॥ 14 ॥

तस्य ते काननांताश्च गिरीणां कंदराणि च ।
प्रभवनि नदीनां च विचिन्वंति समाहिताः ॥ 15 ॥

तत्र चापि महात्मानो नापश्यंजनकात्मजाम् ।
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः ॥ 16 ॥

ते प्रविश्याऽशु तं भीमं लतागुल्मसमावृतम् ।
दद्दृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥ 17 ॥

तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवापरम् ।
गाढं परिहितास्सर्वे दृष्ट्वा तान्पर्वतोपममान् ॥ 18 ॥

सोऽपि तान्वानरान्सर्वान् नष्टा स्स्थेत्यब्रवीद्बली ।
अभ्यधावत संकृद्धो मुष्टिमुद्यम्य संहितम् ॥ 19 ॥

तमापतंतं सहसा वालिपुत्रोऽंगदस्तदा ।
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह ॥ 20 ॥

स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ।
असुरोऽभ्यपतद्भूमौ पर्यस्त इव पर्वतः ॥ 21 ॥

तेऽपि तस्मिन्निरुच्छवासे वानरा जितकाशिनः ।
व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् ॥ 22 ॥

विचितं तु ततः कृत्वा सर्वे ते काननं पुनः ।
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् ॥ 23 ॥

ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः ।
एकांते वृक्षमूले तु निषेदुर्दीनमानसाः ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे अष्टचत्वारिंशस्सर्गः ॥




Browse Related Categories: