View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.47 सुंदरकांड - सप्तचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ सप्तचत्वारिंशस्सर्गः ।

सेनापतीन्पंच स तु प्रमापितान् हनूमता सानुचरान्सवाहनान् ।
समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ॥ 1 ॥

स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान्कांचनचित्रकार्मुकः ।
समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ॥ 2 ॥

ततो महद्बालदिवाकरप्रभं प्रतप्तजांबूनदजालसंततम् ।
रथं समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः ॥ 3 ॥

ततस्तपस्संग्रहसंचयार्जितं प्रतप्तजांबूनदजालशोभितम् ।
पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ 4 ॥

सुरासुराधृष्यमसंगचारिणं रविप्रभं व्योमचरं समाहितम् ।
सतूणमष्टासिनिबद्धबंधुरं यथाक्रमावेशितशक्तितोमरम् ॥ 5 ॥

विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा ।
दिवाकराभं रथमास्थितस्ततस्स निर्जगामामरतुल्यविक्रमः ॥ 6 ॥

स पूरयन्खं च महीं च साचलां तुरंगमातंगमहारथस्वनैः ।
बलैस्समेतैस्सहि तोरणस्थितं समर्थमासीनमुपागमत्कपिम् ॥ 7 ॥

स तं समासाद्य हरिं हरीक्षणो युगांतकालाग्निमिव प्रजाक्षये ।
अवस्थितं विस्मितजातसंभ्रम स्समैक्षताक्षो बहुमानचक्षुषा ॥ 8 ॥

स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।
विचारयन्स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ॥ 9 ॥

स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थिरस्सम्यति दुर्निवारणम् ।
समाहितात्मा हनुमंतमाहवे प्रचोदयामास शरैस्त्रिभि श्शितैः ॥ 10 ॥

ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।
अवैक्षताक्षस्समुदीर्णमानसस्सबाणपाणिः प्रगृहीतकार्मुकः ॥ 11 ॥

स हेमनिष्कांगदचारुकुंडल स्समाससादाऽशुपराक्रमः कपिम् ।
तयोर्बभूवाप्रतिमस्समागम स्सुरासुराणामपि संभ्रमप्रदः ॥ 12 ॥

ररास भूमिर्न तताप भानुमा न्वनौ न वायुः प्रचाचल चाचलः ।
कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ॥ 13 ॥

ततस्स वीरस्सुमुखान् पतत्रिणस्सुवर्णपुंखान्सविषानिवोरगान् ।
समाधिसम्योगविमोक्षतत्त्वविच्छरानथ त्रीन्कपिमूर्ध्न्यपातयत् ॥ 14 ॥

स तै श्शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।
नवोदितादित्यनिभ श्शरांशुमान् व्यराजतादित्य इवांशुमालिकः ॥ 15 ॥

ततस्स पिंगाधिपमंत्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।
उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ॥ 16 ॥

स मंदराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।
कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ॥ 17 ॥

ततस्स बाणासनचित्रकार्मुक श्शरप्रवर्षो युधि राक्षसांबुदः ।
शरान्मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ॥ 18 ॥

ततः कपिस्तं रणचंडविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ।
कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद् घनतुल्यविक्रमम् ॥ 19 ॥

स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।
समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः ॥ 20 ॥

स तेन बाणैः प्रसभं निपातितैश्चकार नादं घननादनिस्स्वनः ।
समुत्पपाताशु नभस्स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ॥ 21 ॥

समुत्पतंतं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।
रथी रथिश्रेष्ठतमः किरन्शरैः पयोधरश्शैलमिवाश्मवृष्टिभिः ॥ 22 ॥

स तान्शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते ।
शरांतरे मारुतवद्विनिष्पतन्मनोजवस्संयति चंडविक्रमः ॥ 23 ॥

तमात्तबाणासनमाहवोन्मुखं खमास्तृणंतं विशिखैश्शरोत्तमैः ।
अवैक्षताक्षं बहुमानचक्षुषा जगाम चिंतां च स मारुतात्मजः ॥ 24 ॥

ततश्शरैर्भिन्नभुजांतरः कपिः कुमारवीरेण महात्मना नदन् ।
महाभुजः कर्मविशेषतत्त्ववि द्विचिंतयामास रणे पराक्रमम् ॥ 25 ॥

अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।
न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ॥ 26 ॥

अयं महात्मा च महांश्च वीर्यत स्समाहितश्चातिसहश्च संयुगे ।
असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः ॥ 27 ॥

पराक्रमोत्साहविवृद्धमानस स्समीक्षते मां प्रमुखाग्रतःस्थितः ।
पराक्रमो ह्यस्य मनांसि कंपयेत्सुरासुराणामपि शीघ्रगामिनः ॥ 28 ॥

न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।
प्रमापणं त्वेव ममाद्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥ 29 ॥

इति प्रवेगं तु परस्य चिंतयन्स्वकर्मयोगं च विधाय वीर्यवान् ।
चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः ॥ 30 ॥

स तस्य तानष्टहयान्महाजवान् समाहितान्भारसहान्विवर्तने ।
जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ॥ 31 ॥

ततस्तलेनाभिहतो महारथ स्स तस्य पिंगाधिपमंत्रिनिर्जितः ।
प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरंबरात् ॥ 32 ॥

स तं परित्यज्य महारथो रथं सकार्मुकः खंगधरः खमुत्पतन् ।
तपोऽभियोगादृषिरुग्रवीर्यवान्विहाय देहं मरुतामिवालयम् ॥ 33 ॥

ततः कपिस्तं विचरंतमंबरे पतत्रिराजानिलसिद्धसेविते ।
समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम् ॥ 34 ॥

स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवांडजेश्वरः ।
मुमोच वेगात्पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ॥ 35 ॥

स भग्नबाहूरुकटीशिरोधरः क्षरन्नसृङिनर्मथितास्थिलोचनः ।
संभग्नसंधिः प्रविकीर्णबंधनो हतः क्षितौ वायुसुतेन राक्षसः ॥ 36 ॥

महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ।
महर्षिभिश्चक्रचरैर्महाव्रतै स्समेत्य भूतैश्च सयक्षपन्नगैः ॥ 37 ॥

सुरैश्च सेंद्रैर्भृशजातविस्मयै र्हते कुमारे स कपिर्निरीक्षितः ।
निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।
तमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे सप्तचत्वारिंशस्सर्गः ॥




Browse Related Categories: