View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.34 अरण्यकांड - चतुस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चतुस्त्रिंशस्सर्गः ।

ततश्शूर्पणखां दृष्ट्वा ब्रुवंतीं परुषं वचः ।
अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥ 1 ॥

कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः ।
किमर्थं दंडकारण्यं प्रविष्टस्सुदुरासदम् ॥ 2 ॥

आयुधं किंच रामस्य निहता येन राक्षसाः ।
खरश्च निहतस्संख्ये दूषणस्त्रिशिरास्तथा ॥ 3 ॥

इत्युक्ता राक्षसेंद्रेण राक्षसी क्रोधमूर्छिता ।
ततो रामं यथातत्वमाख्यातुमुपचक्रमे ॥ 4 ॥

दीर्घबाहुर्विशालाक्ष श्चीरकृष्णाजिनांबरः ।
कंदर्पसमरूपश्च रामो दशरथात्मजः ॥ 5 ॥

शक्रचापनिभं चापं विकृष्य कनकांगदम् ।
दीप्तान् क्षिपति नाराचान्सर्पानिव महाविषान् ॥ 6 ॥

नाददानं शरान्घोरान्नमुंचंतं शिलीमुखान् ।
न कार्मुकं विकर्षंतं रामं पश्यामि संयुगे ॥ 7 ॥

हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ।
इंद्रेणेवोत्तमं सस्यमाहतंत्वश्मवृष्टिभिः ॥ 8 ॥

रक्षसां भीमरूपाणां सहस्राणि चतुर्दश ।
निहतानि शरै स्तीक्ष्णैस्तेनैकेन पदातिना ॥ 9 ॥

अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।
ऋषीणामभयं दत्तं कृतक्षेमाश्च दंडकाः ॥ 10 ॥

एका कथंचिन्मुक्ताहं परिभूय महात्मना ।
स्त्रीवधं शंकमानेन रामेण विदितात्मना ॥ 11 ॥

भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः ।
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ 12 ॥

अमर्षी दुर्जयो जेता विक्रांतो बुद्धिमान्बली ।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ 13 ॥

रामस्य तु विशालाक्षी पूर्णेंदुसदृशानना ।
धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ॥ 14 ॥

सा सुकेशी सुनासोरुस्सुरूपा च यशस्विनी ।
देवतेव वनस्यास्य राजते श्रीरिवापरा ॥ 15 ॥

तप्तकांचनवर्णाभा रक्ततुंगनखी शुभा ।
सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ 16 ॥

नैव देवी न गंधर्वी न यक्षी न च किन्नरी ।
नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ 17 ॥

यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।
अतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात् ॥ 18 ॥

सा सुशीला वपुश्श्लाघ्या रूपेणाप्रतिमा भुवि ।
तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ॥ 19 ॥

तां तु विस्तीर्णजघनां पीनश्रोणिपयोधराम् ।
भार्यार्थे च तवानेतुमुद्यताहं वराननाम् ॥ 20 ॥

विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज ।
तां तु दृष्ट्वाद्य वैदेहीं पूर्णचंद्रनिभाननाम् ।
मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ॥ 21 ॥

यदि तस्यामभिप्रायो भार्यार्थे तव जायते ।
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ॥ 22 ॥

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ।
वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ॥ 23 ॥

तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ।
हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ॥ 24 ॥

रोचते यति ते वाक्यं ममैतद्राक्षसेश्वर ।
क्रियतां निर्विशंकेन वचनं मम रावण ॥ 25 ॥

विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ।
सीता सर्वानवद्यांगी भार्यार्थे राक्षसेश्वर ॥ 26 ॥

निशम्य रामेण शरैरजिह्मगै र्हतान् जनस्थानगतान्निशाचरान् ।
खरं च बुद्ध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चतुस्त्रिंशस्सर्गः ॥




Browse Related Categories: