View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.52 सुंदरकांड - द्विपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ द्विपंचाशस्सर्गः ।

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।
आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः ॥ 1 ॥

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।
निवेदितवतो दौत्यं नानुमेने विभीषणः ॥ 2 ॥

तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् ।
विदित्वा चिंतयामास कार्यं कार्यविधौ स्थितः ॥ 3 ॥

निश्चितार्थस्ततस्साम्ना पूज्यं शत्रुजिदग्रजम् ।
उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः ॥ 4 ॥

क्षमस्व रोषं त्यज राक्षसेंद्र प्रसीद मद्वाक्यमिदं शृणुष्व ।
वधं न कुर्वंति परावरज्ञा दूतस्य संतो वसुधाधिपेंद्राः ॥ 5 ॥

राजधर्मविरुद्धं च लोकवृत्तेश्च गर्हितम् ।
तव चासदृशं वीर कपेरस्य प्रमापणम् ॥ 6 ॥

धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः ।
परावरज्ञो भूतानां त्वमेव परमार्थवित् ॥ 7 ॥

गृह्यंते यदि रोषेण त्वादृशोऽपि विचक्षणः ।
तत श्शास्त्रविपश्चित्त्वं श्रम एव हि केवलम् ॥ 8 ॥

तस्मात्प्रसीद शत्रुघ्न राक्षसेंद्र दुरासद ।
युक्तायुक्तं विनिश्चित्य दूतदंडो विधीयताम् ॥ 9 ॥

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् ॥ 10 ॥

न पापानां वधे पापं विद्यते शत्रुसूदन ।
तस्मादेनं वधिष्यामि वानरं पापचारिणम् ॥ 11 ॥

अधर्ममूलं बहुदोषयुक्तमनार्यजुष्टं वचनं निशम्य ।
उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः ॥ 12 ॥

प्रसीद लंकेश्वर राक्षसेंद्र धर्मार्थयुक्तं वचनं शृणुष्व ।
दूतानवध्यान् समयेषु राजन् सर्वेषु सर्वत्र वदंति संतः ॥ 13 ॥

असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् ।
न दूतवध्यां प्रवदंति संतो दूतस्य दृष्टा बहवो हि दंडाः ॥ 14 ॥

वैरूप्यमंगेषु कशाभिघातो मौंड्यं तथा लक्षणसन्निपातः ।
एतान् हि दूते प्रवदंति दंडान् वधस्तु दूतस्य न नः श्रुतोऽस्ति ॥ 15 ॥

कथं च धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः ।
भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छंति हि सत्त्ववंतः ॥ 16 ॥

न धर्मवादे न च लोकवृत्ते न शास्त्रबुद्धिग्रहणेषु चापि ।
विद्येत कश्चित्तव वीर तुल्य स्त्वंह्युत्तमस्सर्वसुरासुराणाम् ॥ 17 ॥

शूरेण वीरेण निशाचरेंद्र सुरासुराणामपि दुर्जयेन ।
त्वया प्रगल्भाः सुरदैत्यसंघा जिताश्च युद्धेष्वसकृन्नरेंद्राः ॥ 18 ॥

न चाप्यस्य कपेर्घाते कंचित्पश्याम्यहं गुणम् ।
तेष्वयं पात्यतां दंडो यैरयं प्रेषितः कपिः ॥ 19 ॥

साधुर्वा यदि वाऽसाधुः परैरेष समर्पितः ।
ब्रुवन् परार्थं परवान्न दूतो वधमर्हति ॥ 20 ॥

अपि चास्मिन् हते राजन्नान्यं पश्यामि खेचरम् ।
इह यः पुनरागच्छेत्परं पारं महोदधेः ॥ 21 ॥

तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय ।
भवान् सेंद्रेषु देवेषु यत्नमास्थातुमर्हति ॥ 22 ॥

अस्मिन्विनष्टे न हि वीरमन्यं पश्यामि यस्तौ वरराजपुत्रौ ।
युद्धाय युद्धप्रियदुर्विनीतावुद्योजयेद्धीर्घपथावरुद्धौ ॥ 23 ॥

पराक्रमोत्साहमनस्विनां च सुरासुराणामपि दुर्जयेन ।
त्वया मनोनंदन नैतानां युद्धायतिर्नाशयतुं न युक्ता ॥ 24 ॥

हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु ।
मनस्विनश्शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ॥ 25 ॥

तदेकदेशेन बलस्य तावत्केचित्तवाऽऽदेशकृतोऽभियांतु तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् ॥ 26 ॥

निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् ।
जग्राह बुद्ध्या सुरलोकशत्रु र्महाबलो राक्षसराजमुख्यः ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे द्विपंचाशस्सर्गः ॥




Browse Related Categories: