View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.13 किष्किंधाकांड - त्रयोदश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ त्रयोदशस्सर्गः ।

ऋष्यमूकात्स धर्मात्मा किष्किंधां लक्ष्मणाग्रजः ।
जगाम सहसुग्रीवो वालिविक्रमपालिताम् ॥ 1 ॥

समुद्यम्य महच्चापं रामः कांचनभूषितम् ।
शरांश्चादित्यसंकाशान्गृहीत्वा रणसाधकान् ॥ 2 ॥

अग्रतस्तु ययौ तस्य राघवस्य महात्मनः ।
सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥ 3 ॥

पृष्ठतो हनुमान्वीरो नलो नीलश्च वानरः ।
तारश्चैव महातेजा हरियूथपयूथपः ॥ 4 ॥

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलंबिनः ।
प्रसन्नांबुवहाश्चैव सरितस्सागरंगमाः ॥ 5 ॥

कंदराणि च शैलांश्च निर्दराणि गुहास्तथा ।
शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ 6 ॥

वैढूर्यविमलैःपर्णै पद्मैश्चाकोशकुट्मलैः ।
शोभितांत्सजलान्मार्गे तटाकांश्च व्यलोकयन् ॥ 7 ॥

कारंडैस्सारसैर्हंसैर्वंजुलैर्जलकुक्कुटैः ।
चक्रवाकै स्तथा चान्यैश्शकुनैः रुपनादितान् ॥ 8 ॥

मृदुशष्पांकुराहारान्निर्भयान्वनगोचरान् ।
चरतस्सर्वतौऽपश्यन् स्थलीषु हरिणान् स्थितान् ॥ 9 ॥

तटाकवैरिणश्चापि शुक्लदंतविभूषितान् ।
घोरानेकचरान्वन्यांद्विरदान्कूलघातिनः ॥ 10 ॥

मत्तान्गिरितटोत्कृष्टान्पर्वतानिव जंगमान् ।
वारणान्वारिदप्रख्यान्महीरेणुसमुक्षितान् ॥ 11 ॥

वने वनचरांश्चान्यान्खेचरांश्च विहंगमान् ।
पश्यंतस्त्वरिता जग्मुस्सुग्रीववशवर्तिनः ॥ 12 ॥

तेषां तु गच्छतां तत्र त्वरितं रघुनंदनः ।
द्रुमषंडं वनं दृष्ट्वा रामस्सुग्रीवमब्रवीत् ॥ 13 ॥

एष मेघ इवाकाशे वृक्षषंडः प्रकाशते ।
मेघसंघातविपुलः पर्यंतकदलीवृतः ॥ 14 ॥

किमेतत् ज्ञातुमिच्छामि सखे कौतूहलं हि मे ।
कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ 15 ॥

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम् ॥ 16 ॥

एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम् ।
उद्यानवनसंपन्नं स्वादुमूलफलोदकम् ॥ 17 ॥

अत्र सप्तजना नाम मुनय स्संश्रितव्रताः ।
सप्तैवासन्नधशशीर्षा नियतं जलशायिनः ॥ 18 ॥

सप्तरात्रकृताहारा वायुनाचलवासिनः ।
दिवं वर्षशतैर्याताः सप्तभिः सकलेबराः ॥ 19 ॥

तेषामेवं प्रभावानां द्रुमप्राकारसंवृतम् ।
आश्रमस्सुदुराधर्ष अपि सेंद्रैस्सुरासुरैः ॥ 20 ॥

पक्षिणो वर्जयंत्येतत्तथाऽन्ये वनचारिणः ।
विशंति मोहाद्येऽप्यत्र निवर्तंते न ते पुनः ॥ 21 ॥

विभूषणरवास्तत्र श्रूयंते सकलाक्षराः ।
तूर्यगीतस्वनाश्चात्र गंधो दिव्यश्च राघव ॥ 22 ॥

त्रेताग्नयोऽपि दीप्यंते दूमो ह्यत्र प्रकाशते ।
वेष्टयन्निव वृक्षाग्रान्कपोतांगारुणो घनः ॥ 23 ॥

एते वृक्षाः प्रकाशंते धूमसंसक्तमस्तकाः ।
मेघजालप्रतिच्छन्ना वैढूर्यगिरयो यथा ॥ 24 ॥

कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव ।
लक्ष्मणेव सह भ्रात्रा प्रयंतस्सयतांजलिः ॥ 25 ॥

प्रणमंति हि ये तेषां मुनीनां भावितात्मनाम् ।
न तेषामशुभं किंचिच्छरीरे राम दृश्यते ॥ 26 ॥

ततो रामस्सह भ्रात्रा लक्ष्मणेन कृतांजलिः ।
समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥ 27 ॥

अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः ।
सुग्रीवो वानराश्चैव जग्मुसंहृष्टमानसाः ॥ 28 ॥

ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात् ।
ददृशुस्तां दुराधर्षां किष्किंधां वालिपालिताम् ॥ 29 ॥

ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदिताग्र्यतेजसः ।
पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्सह ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे त्रयोदशस्सर्गः ॥




Browse Related Categories: