View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.63 अरण्यकांड - त्रिषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रिषष्टितमस्सर्गः ।

स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः ।
विषादयन्भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम् ॥ 1 ॥

स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः ।
उवाच वाक्यं व्यसनानुरूपमुष्णं विनिश्श्वस्य रुदंत्सशोकम् ॥ 2 ॥

न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुंधरायाम् ।
शोकेन शोको हि परंपराया मा मेति भिंदन्हृदयं मनश्च ॥ 3 ॥

पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि ।
तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ॥ 4 ॥

राज्यप्रणाशस्स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः ।
सर्वाणि मे लक्ष्मण शोकवेगमापूरयंति प्रविचिंतितानि ॥ 5 ॥

सर्वं तु दुःखं मम लक्ष्मणेदं शांतं शरीरे वनमेत्य शून्यम् ।
सीतावियोगात्पुनरप्युदीर्णं काष्ठैरिवाग्निस्सहसा प्रदीप्तः ॥ 6 ॥

सा नूनमार्या मम राक्षसेन बलाद्दृता खं समुपेत्य भीरुः ।
अपस्वरं सस्वरविप्रलापा भयेन विक्रंदितवत्यभीक्ष्णम् ॥ 7 ॥

तौ लोहितस्य प्रियदर्शनस्य सदोचितावुत्तमचंदनस्य ।
वृत्तौ स्तनौ शोणितपंकदिग्धौ नूनं प्रियाया मम नाभिभातः ॥ 8 ॥

तच्छलक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुंचितकेशभारम् ।
रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेंदुः ॥ 9 ॥

तां हारपाशस्य सदोचिताया ग्रीवां प्रियाया मम सुव्रतायाः ।
रक्षांसि नूनं परिपीतवंति विभिद्य शून्ये रुधिराशनानि ॥ 10 ॥

मया विहीना विजने वने या रक्षोभिराहृत्य विकृष्यमाणा ।
नूनं निनादं कुररीव दीना सा मुक्तवत्यायतकांतनेत्रा ॥ 11 ॥

अस्मिन्मयासार्धमुदारशीला शिलातले पूर्वमुपोपविष्टा ।
कांतस्मिता लक्ष्मण जातहासा त्वामाह सीता बहुवाक्यजातम् ॥ 12 ॥

गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् ।
अप्यत्र गच्छेदिति चिंतयामि नैकाकिनी याति हि सा कदाचित् ॥ 13 ॥

पद्मानना पद्मविशालनेत्रा पद्मानि वानेतुमभिप्रयाता ।
तदप्ययुक्तं न हि सा कदाचिन्मया विना गच्छति पंकजानि ॥ 14 ॥

कामं त्विदं पुष्पितवृक्षषंडं नानाविधैः पक्षिगणैरुपेतम् ।
वनं प्रयाता नु तदप्ययुक्त मेकाकिनी सातिबिभेति भीरुः ॥ 15 ॥

आदित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् ।
मम प्रिया सा क्व गता हृता वा शंसस्व मे शोकवशस्य नित्यम् ॥ 16 ॥

लोकेषु सर्वेषु च नास्ति किंचिद्यत्ते न नित्यं विदितं भवेत्तत् ।
शंसस्व वायो कुलशालिनीं तां हृता मृता वा पथि वर्तते वा ॥ 17 ॥

इतीव तं शोकविधेयदेहं रामं विसंज्ञं विलपंतमेवम् ।
उवाच सौमित्रिरदीनसत्त्वो न्याये स्थितः कालयुतं च वाक्यम् ॥ 18 ॥

शोकं विमुंचार्य धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः ।
उत्साहवंतो हि नरा न लोके सीदंति कर्मस्वतिदुष्करेषु ॥ 19 ॥

इतीव सौमित्रिमुदग्रपौरुषं ब्रुवंतमार्तो रघुवंशवर्धनः ।
न चिंतयामास धृतिं विमुक्तवान्पुनश्च दुःखं महदभ्युपागमत् ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रिषष्टितमस्सर्गः ॥




Browse Related Categories: