View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.106 अयोध्याकांड - षडधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षडधिकशततमस्सर्गः ।

एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
ततो मंदाकिनीतीरे रामं प्रकृतिवत्सलम् ॥ 1 ॥

उवाच भरत श्चित्रं धार्मिको धार्मिकं वचः ।
को हि स्यादीदृशो लोके यादृश स्त्वमरिंदमः ॥ 2 ॥

न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा नप्रहर्षयेत् ।
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ 3 ॥

को हि स्यादीदृशो लोके यादृश स्त्वमरिंदम ॥ 4 ॥

न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा नप्रहर्षयेत् ।
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ 5 ॥

यथा मृत स्तथा जीवन्यथाऽसति तथा सति ।
यस्यैष बुद्धिलाभ स्स्यात्परितप्येत केन सः ॥ 6 ॥

परावरज्ञो यश्च स्याद् यथा त्वं मनुजाधिप ।
स एव व्यसनं प्राप्य न विषीदितुमर्हति ॥ 7 ॥

अमरोपमसत्त्व स्त्वं महात्मा सत्यसंगरः ।
सर्वज्ञ स्सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ 8 ॥

न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम् ।
अविषह्यतमं दुःखमासादयितुमर्हति ॥ 9 ॥

प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ 10 ॥

धर्मबंधेन बद्धोऽस्मि तेनेमां नेह मातरम् ।
हन्मितीव्रेण दंडेन दंडार्हां पापकारिणीम् ॥ 11 ॥

कथं दशरथा ज्जात श्शुद्धाभिजनकर्मणः ।
जानन् धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम् ॥ 12 ॥

गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेतिच ।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥ 13 ॥

को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।
स्त्रियाः प्रियं चिकीर्षु स्सन्कुर्याद्धर्मज्ञ धर्मवित् ॥ 14 ॥

अंतकाले हि भूतानि मुह्यंतीति पुरा श्रुतिः ।
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ 15 ॥

साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात् ।
तातस्य यदतिक्रांतं प्रत्याहरतु तद्भवान् ॥ 16 ॥

पितुर्हि समतिक्रांतं पुत्रो यस्साधु मन्यते ।
तदपत्यं मतं लोके विपरीतमतोऽन्यथा ॥ 17 ॥

तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः ।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ 18 ॥

कैकेयीं मां च तातं च सुहृदो बांधवांश्च नः ।
पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान् ॥ 19 ॥

क्व चारण्यं क्वच क्षात्रं क्व जटाः क्व च पालनम् ।
ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति ॥ 20 ॥

एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ 21 ॥

कश्च प्रत्यक्षमुत्सृज्य संशयस्थ मलक्षणम् ।
आयतिस्थं चरे द्धर्मं क्षत्रबंदुरनिश्चितम् ॥ 22 ॥

अथ क्लेशज मेव त्वं धर्मं चरितु मिच्छसि ।
धर्मेण चतुरो वर्णान्पालयन् क्लेश माप्नुहि ॥ 23 ॥

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमुत्तमम् ।
आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तु मर्हसि ॥ 24 ॥

श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ 25 ॥

हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।
भवता च विनाभूतो न वर्तयितुमुत्सुहे ॥ 26 ॥

इदं निखिल मव्यग्रं राज्यं पित्र्यमकंटकम् ।
अनुशाधि स्वधर्मेण धर्मज्ञ सहबांधवैः ॥ 27 ॥

इहैव त्वाऽभिषिंचंतु सर्वाः प्रकृतय स्सह ।
ऋत्विज स्सवसिष्ठाश्च मंत्रविन्मंत्रकोविदाः ॥ 28 ॥

अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।
विजित्य तरसा लोकान्मरुद्भिरिव वासवः ॥ 29 ॥

ऋणानि त्रीण्यपाकुर्वंदुर्हृदस्साधु निर्दहन् ।
सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम् ॥ 30 ॥

अद्याऽर्य मुदिता स्संतु सुहृदस्तेऽभिषेचने ।
अद्य भीताः पलायंतां दुर्हृदस्ते दिशो दश ॥ 31 ॥

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्र भवंतं च पितरं रक्ष किल्बिषात् ॥ 32 ॥

शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि ।
बांधवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ 33 ॥

अथैतत्पृष्ठतः कृत्वा वनमेव भवानितः ।
गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥ 34 ॥

तथाहि रामो भरतेन ताम्यता प्रसाद्यमानश्शिरसा महीपतिः ।
नचैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने प्रतिष्ठितः ॥ 35 ॥

तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः ।
न यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ 36 ॥

तमृत्विजो नैगमयूथवल्लभास्तदा विसंज्ञाश्रुकलाश्च मातरः ।
तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षडधिकशततमस्सर्गः ॥




Browse Related Categories: