View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.109 अयोध्याकांड - नवाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ नवाधिकशततमस्सर्गः ।

जाबालेस्तु वचश्श्रुत्वा राम स्सत्यात्मनां वरः ।
उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ 1 ॥

भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् ।
अकार्यं कार्यसंकाशमपथ्यं पथ्यसम्मतम् ॥ 2 ॥

निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।
मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ 3 ॥

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।
चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥ 4 ॥

अनार्यस्त्वार्यसंकाश श्शौचाद्दीनस्ताथाऽशुचिः ।
लक्षण्यवदलक्षण्यो दुश्शीलश्शीलवानिव ॥ 5 ॥

अधर्मं धर्मवेशेण यदीमं लोकसंकुरम् ।
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ 6 ॥

कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।
बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ 7 ॥

कस्य दास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।
आनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ 8 ॥

कामवृत्तस्त्वयं लोकः कृत्स्न स्समुपवर्तते ।
यद्वृत्ता स्संति राजानस्तद्वृत्ता स्संति हि प्रजाः ॥ 9 ॥

सत्यमेवानृशंसं च राजवृत्तं सनातनम् ।
तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ 10 ॥

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
सत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् ॥ 11 ॥

उद्विजंते यथा सर्पान्नरादनृतवादिनः ।
धर्म स्सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ 12 ॥

सत्यमेवेश्वरो लोके सत्यं पद्माश्रिता सदा ।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ 13 ॥

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।
वेदा स्सत्यप्रतिष्ठाना स्तस्मात्सत्यपरो भवेत् ॥ 14 ॥

एकः पालयते लोकमेकः पालयते कुलम् ।
मज्जत्येको हि निरय एक स्स्वर्गे महीयते ॥ 15 ॥

सोऽहं पितुर्नियोगं तु किमर्थं नानुपालये ।
सत्यप्रतिश्रव स्सत्यं सत्येन समयीकृतः ॥ 16 ॥

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोऽन्वितः ।
सेतुं सत्यस्य भेत्स्यामि गुरो स्सत्यप्रतिश्रवः ॥ 17 ॥

असत्यसंधस्य सतश्चलस्यास्थिरचेतसः ।
नैव देवा न पितरः प्रतीच्छंतीति नः श्रुतम् ॥ 18 ॥

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।
भार स्सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ 19 ॥

क्षात्रं धर्ममहंत्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।
क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ 20 ॥

कायेन कुरुते पापं मनसा संप्रधार्य तत् ।
अनृतं जिह्वया चाह त्रिविधं कर्मपातकम् ॥ 21 ॥

भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयंति हि ।
सत्यं समनुवर्तने सत्यमेव भजेत ततः ॥ 22 ॥

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् ।
आह युक्ति करैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ 23 ॥

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः ।
भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ 24 ॥

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।
प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ 25 ॥

वनवासं वसन्नेव शुचिर्नियतभोजनः ।
मूलपुष्पफलैः पुण्यैः पित्रून् देवांश्च तर्पयन् ॥ 26 ॥

संतुष्टपंचवर्गोऽहं लोकयात्रां प्रवर्तये ।
अकुह श्श्रद्धधानस्सन्कार्याकार्यविचक्षणः ॥ 27 ॥

वनवासं वसन्नेवं शुचिर्नियतभोजनः ।
मूलैः पुष्पैः फलैः पुण्यैः पित्रून् देवांश्च तर्पयन् ॥ 28 ॥

संतुष्टपंचवर्गोऽहं लोकयात्रां प्रवर्तये ।
अकुह श्श्रद्धधानस्सन्कार्याकार्यविचक्षणः ॥ 29 ॥

कर्मभूमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।
अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ 30 ॥

शतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः ।
तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ 31 ॥

अमृष्यमाणः पुनरुग्रतेजाः निशम्य तं नास्तिकवाक्यहेतुम् ।
अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ 32 ॥

सत्यं च धर्मं च पराक्रमं च भूतानुकंपां प्रियवादितां च ।
द्विजातिदेवातिधिपूजनं च पंथानमाहुस्त्रिदिवस्य संतः ॥ 33 ॥

तेनैवमाज्ञाय यथावदर्थमेकोदयं संप्रतिपद्य विप्राः ।
धर्मं चरंत स्सकलं यथावत्कांक्षंति लोकागममप्रमत्ताः ॥ 34 ॥

निंदाम्यहं कर्म कृतं पितुस्तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।
बुद्ध्याऽनयैवंविधया चरंतं सुनास्तिकं धर्मपथादपेतम् ॥ 35 ॥

यथा हि चोरः स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।
तस्माद्धि यः शंक्यतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥ 36 ॥

त्वत्तो जनाः पूर्वतरे द्विजाच्श्र शुभानि कर्माणि बहूनि चक्रुः ।
जित्वा सदेमं च परं च लोकं तस्माव्दिजा स्वस्ति हुतं कृतं च ॥ 37 ॥

धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ।
अहिंसका वीतमलाश्च लोके भवंति पूज्या मुनयः प्रधानाः ॥ 38 ॥

इति ब्रुवंतं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।
उवाच पथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥ 39 ॥

न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किंचन ।
समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ॥ 40 ॥

न चापि कालोऽय मुपागतश्शनैर्यथा मया नास्तिकवागुदीरिता ।
निवर्तनार्थं तव राम कारणात् प्रसादनार्थं च मयैतदीरितम् ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे नवाधिकशततमस्सर्गः ॥




Browse Related Categories: