View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.1 सुंदरकांड - प्रथम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ प्रथमस्सर्गः ।

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥

दुष्करं निष्प्रतिद्वंद्वं चिकीर्षन् कर्म वानरः ।
समुदग्रशिरोग्रीवो गवांपतिरिवाबभौ ॥ 2 ॥

अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।
धीरः सलिलकल्पेषु विचचार यथासुखम् ॥ 3 ॥

द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।
मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी ॥ 4 ॥

नीललोहितमांजिष्ठपत्रवर्णैः सितासितैः ।
स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥ 5 ॥

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।
यक्षकिन्नरगंधर्वैर्देवकल्पैश्च पन्नगैः ॥ 6 ॥

स तस्य गिरिवर्यस्य तले नागवरायुते ।
तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ 7 ॥

स सूर्याय महेंद्राय पवनाय स्वयंभुवे ।
भूतेभ्यश्चांजलिं कृत्वा चकार गमने मतिम् ॥ 8 ॥

अंजलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये ।
ततो हि ववृधे गंतुं दक्षिणो दक्षिणां दिशम् ॥ 9 ॥

प्लवंगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।
ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ॥ 10 ॥

निष्प्रमाणशरीरः सन् लिलंघयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ॥ 11 ॥

स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ 12 ॥

तेन पादपमुक्तेन पुष्पौघेण सुगंधिना ।
सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥ 13 ॥

तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः ।
सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥ 14 ॥

पीड्यमानस्तु बलिना महेंद्रस्तेन पर्वतः ।
रीतीर्निर्वर्तयामास कांचनांजनराजतीः ॥ 15 ॥

मुमोच च शिलाः शैलो विशालाः समनःशिलाः ।
मध्यमेनार्चिषा जुष्टा धूमराजीरिवानलः ॥ 16 ॥

गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।
गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः ॥ 17 ॥

स महासत्त्वसन्नादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥ 18 ॥

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः ।
वमंतः पावकं घोरं ददंशुर्दशनैः शिलाः ॥ 19 ॥

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ।
जज्ज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ॥ 20 ॥

यानि चौषधजालानि तस्मिन् जातानि पर्वते ।
विषघ्नान्यपि नागानां न शेकुः शमितुं विषम् ॥ 21 ॥

भिद्यतेऽयं गिरिर्भूतैरिति मत्त्वा तपस्विनः ।
त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्री गणैः सह ॥ 22 ॥

पानभूमिगतं हित्वा हैममासवभाजनम् ।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ 23 ॥

लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।
आर्षभाणि च चर्माणि खडगांश्च कनकत्सरून् ॥ 24 ॥

कृतकंठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥ 25 ॥

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥ 26 ॥

दर्शयंतो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम् ॥ 27 ॥

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ।
चारणानां च सिद्धानां स्थितानां विमलेऽंबरे ॥ 28 ॥

एष पर्वतसंकाशो हनुमान् मारुतात्मजः ।
तितीर्षति महावेगस्समुद्रं मकरालयम् ॥ 29 ॥

रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम् ।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ 30 ॥

इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।
तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ॥ 31 ॥

दुधुवे च स रोमाणि चकंपे चाचलोपमः ।
ननाद सुमहानादं सुमहानिव तोयदः ॥ 32 ॥

आनुपूर्व्येण वृत्तं च लांगूलं लोमभिश्चितम् ।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥ 33 ॥

तस्य लांगूलमाविद्धमात्तवेगस्य पृष्ठतः ।
ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ 34 ॥

बाहू संस्तंभयामास महापरिघसन्निभौ ।
ससाद च कपिः कट्यां चरणौ संचुकोच च ॥ 35 ॥

संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।
तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ 36 ॥

मार्गमालोकयंदूरादूर्ध्वं प्रणिहितेक्षणः ।
रुरोध हृदये प्राणानाकाशमवलोकयन् ॥ 37 ॥

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुंजरः ।
निकुंच्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।
वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ 38 ॥

यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।
गच्छेत्तद्वद्गमिष्यामि लंकां रावणपालिताम् ॥ 39 ॥

न हि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम् ।
अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ 40 ॥

यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।
बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ 41 ॥

सर्वथा कृतकार्योऽहमेष्यामि सह सीतया ।
आनयिष्यामि वा लंकां समुत्पाट्य सरावणाम् ॥ 42 ॥

एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः ॥ 43 ॥

उत्पपाताथ वेगेन वेगवानविचारयन् ।
सुपर्णमिव चात्मानं मेने स कपिकुंजरः ॥ 44 ॥

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।
संहृत्य विटपान् सर्वान् समुत्पेतुः समंततः ॥ 45 ॥

स मत्तकोयष्टिमकान् पादपान् पुष्पशालिनः ।
उद्वहन्नूरुवेगेन जगाम विमलेऽंबरे ॥ 46 ॥

ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।
प्रस्थितं दीर्घमध्वानं स्वबंधुमिव बांधवाः ॥ 47 ॥

तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः ।
अनुजग्मुर्हनूमंतं सैन्या इव महीपतिम् ॥ 48 ॥

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।
हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ॥ 49 ॥

सारवंतोऽथ ये वृक्षा न्यमज्जन् लवणांभसि ।
भयादिव महेंद्रस्य पर्वता वरुणालये ॥ 50 ॥

स नानाकुसुमैः कीर्णः कपिः सांकुरकोरकैः ।
शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥ 51 ॥

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यंत सलिले निवृत्ताः सुहृदो यथा ॥ 52 ॥

लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत् ।
द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ॥ 53 ॥

ताराचितमिवाकाशं प्रबभौ स महार्णवः ।
पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ।
बभौ मेघ इवाकाशे विद्युद्गण विभूषितः ॥ 54 ॥

तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ॥ 55 ॥

ताराभिरभिरामाभिरुदिताभिरिवांबरम् ।
तस्यांबरगतौ बाहू ददृशाते प्रसारितौ ॥ 56 ॥

पर्वताग्राद्विनिष्क्रांतौ पंचास्याविव पन्नगौ ।
पिबन्निव बभौ चापि सोर्मिमालं महार्णवम् ॥ 57 ॥

पिपासुरिव चाकाशं ददृशे स महाकपिः ।
तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ॥ 58 ॥

नयने विप्रकाशेते पर्वतस्थाविवानलौ ।
पिंगे पिंगाक्षमुख्यस्य बृहती परिमंडले ॥ 59 ॥

चक्षुषी संप्राकाशेते चंद्रसूर्याविवोदितौ ।
मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ॥ 60 ॥

संध्यया समभिस्पृष्टं यथा तत्सूर्यमंडलम् ।
लांगूलं च समाविद्धं प्लवमानस्य शोभते ॥ 61 ॥

अंबरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम् ।
लांगूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः ॥ 62 ॥

व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ।
स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ॥ 63 ॥

महता दारितेनेव गिरिर्गैरिकधातुना ।
तस्य वानरसिंहस्य प्लवमानस्य सागरम् ॥ 64 ॥

कक्षांतरगतो वायुर्जीमूत इव गर्जति ।
खे यथा निपतत्युल्का ह्युत्तरांताद्विनिःसृता ॥ 65 ॥

दृश्यते सानुबंधा च तथा स कपिकुंजरः ।
पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः ॥ 66 ॥

प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया ।
उपरिष्टाच्छरीरेण छायया चावगाढया ॥ 67 ॥

सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ।
यं यं देशं समुद्रस्य जगाम स महाकपिः ।
स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ॥ 68 ॥

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।
अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ 69 ॥

कपिवातश्च बलवान् मेघवातश्च निःसृतः ।
सागरं भीमनिर्घोषं कंपयामासतुर्भृशम् ॥ 70 ॥

विकर्षन्नूर्मिजालानि बृहंति लवणांभसि ।
पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ॥ 71 ॥

मेरुमंदरसंकाशानुद्धतान् स महार्णवे ।
अत्यक्रामन्महावेगस्तरंगान् गणयन्निव ॥ 72 ॥

तस्य वेगसमुद्धूतं जलं सजलदं तदा ।
अंबरस्थं विबभ्राज शारदाभ्रमिवाततम् ॥ 73 ॥

तिमिनक्रझषाः कूर्मा दृश्यंते विवृतास्तदा ।
वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ॥ 74 ॥

प्लवमानं समीक्ष्याथ भुजंगाः सागरालयाः ।
व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ॥ 75 ॥

दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।
छाया वानरसिंहस्य जले चारुतराभवत् ॥ 76 ॥

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।
तस्य सा शुशुभे छाया वितता लवणांभसि ॥ 77 ॥

शुशुभे स महातेजा महाकायो महाकपिः ।
वायुमार्गे निरालंबे पक्षवानिव पर्वतः ॥ 78 ॥

येनासौ याति बलवान् वेगेन कपिकुंजरः ।
तेन मार्गेण सहसा द्रोणीकृत इवार्णवः ॥ 79 ॥

आपाते पक्षिसंघानां पक्षिराज इव व्रजन् ।
हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा ॥ 80 ॥

पांडुरारुणवर्णानि नीलमांजिष्ठकानि च ।
कपिनाकृष्यमाणानि महाभ्राणि चकाशिरे ॥ 81 ॥

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चंद्रमा इव लक्ष्यते ॥ 82 ॥

प्लवमानं तु तं दृष्ट्वा प्लवंगं त्वरितं तदा ।
ववर्षुः पुष्पवर्षाणि देवगंधर्वदानवाः ॥ 83 ॥

तताप न हि तं सूर्यः प्लवंतं वानरोत्तमम् ।
सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ 84 ॥

ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।
जगुश्च देवगंधर्वाः प्रशंसंतो महौजसम् ॥ 85 ॥

नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ।
प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ॥ 86 ॥

तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ।
इक्ष्वाकुकुलमानार्थी चिंतयामास सागरः ॥ 87 ॥

साहाय्यं वानरेंद्रस्य यदि नाहं हनूमतः ।
करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ 88 ॥

अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ।
इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ 89 ॥

तथा मया विधातव्यं विश्रमेत यथा कपिः ॥ 90 ॥

शेषं च मयि विश्रांतः सुखेनातिपतिष्यति ।
इति कृत्वा मतिं साध्वींसमुद्र श्छन्नमंभसि ॥ 91 ॥

हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ।
त्वमिहासुरसंघानां पातालतलवासिनाम् ॥ 92 ॥

देवराज्ञा गिरिश्रेष्ठ परिघः सन्निवेशितः ।
त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ॥ 93 ॥

पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।
तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्धितुम् ॥ 94 ॥

तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ।
स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ॥ 95 ॥

हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ।
अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ॥ 96 ॥

मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।
कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ॥ 97 ॥

कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ।
सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥ 98 ॥

अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ।
चामीकरमहानाभ देवगंधर्वसेवित ॥ 99 ॥

हनुमांस्त्वयि विश्रांतस्ततः शेषं गमिष्यति ।
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ॥ 100 ॥

श्रमं च प्लवगेंद्रस्य समीक्ष्योत्थातुमर्हसि ।
हिरण्यनाभो मैनाको निशम्य लवणांभसः ॥ 101 ॥

उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ।
स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ॥ 102 ॥

यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ।
स महात्मा मुहूर्तेन सर्वतः सलिलावृतः ॥ 103 ॥

दर्शयामास शृंगाणि सागरेण नियोजितः ।
आदित्योदयसंकाशैरालिखद्भिरिवांबरम् ।
शातकुंभमयैः शृंगैः सकिन्नरमहोरगैः ॥ 104 ॥

तप्तजांबूनदैः शृंगैः पर्वतस्य समुत्थितैः ॥ 105 ॥

आकाशं शस्त्रसंकाशमभवत्कांचनप्रभम् ।
जातरूपमयैः शृंगैर्भ्राजमानैः स्वयंप्रभैः ॥ 106 ॥

आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ।
तमुत्थितमसंगेन हनुमानग्रतः स्थितम् ॥ 107 ॥

मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ।
स तमुच्छ्र्रतमत्यर्थं महावेगो महाकपिः ॥ 108 ॥

उरसा पातयामास जीमूतमिव मारुतः ।
स तथा पातितस्तेन कपिना पर्वतोत्तमः ॥ 109 ॥

बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननंद च ।
तमाकाशगतं वीरमाकाशे समुपस्थितः ॥ 110 ॥

प्रीतो हृष्टमाना वाक्यमब्रवीत्पर्वतः कपिम् ।
मानुषं धारयन् रूपमात्मनः शिखरे स्थितः ॥ 111 ॥

दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम ।
निपत्य मम शृंगेषु विश्रमस्व यथासुखम् ॥ 112 ॥

राघवस्य कुले जातैरुदधिः परिवर्धितः ।
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥ 113 ॥

कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।
सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ॥ 114 ॥

त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।
तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ॥ 115 ॥

तव सानुषु विश्रांतः शेषं प्रक्रमतामिति ।
योजनानां शतं चापि कपिरेष समाप्लुतः ॥ 116 ॥

तदिदं गंधवत्स्वादु कंदमूलफलं बहु ।
तदास्वाद्य हरिश्रेष्ठ विश्रांतोऽनु गमिष्यसि ॥ 117 ॥

अस्माकमपि संबंधः कपिमुख्य त्वयास्ति वै ।
प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ॥ 118 ॥

वेगवंतः प्लवंतो ये प्लवगा मारुतात्मज ।
तेषां मुख्यतमं मन्ये त्वामहं कपिकुंजर ॥ 119 ॥

अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ।
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥ 120 ॥

त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।
पुत्रस्तस्यैव वेगेन सदृशः कपिकुंजर ॥ 121 ॥

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।
तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ 122 ॥

पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।
ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥ 123 ॥

ततस्तेषु प्रयातेषु देवसंघाः महर्षिभिः ।
भूतानि च भयं जग्मुस्तेषां पतनशंकया ॥ 124 ॥

ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ।
पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः ॥ 125 ॥

स मामुपागतः क्रुद्धो वज्रमुद्यम्य देवराट् ।
ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ 126 ॥

अस्मिन्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।
गुप्तपक्षसमग्रश्च तव पित्राभिरक्षितः ॥ 127 ॥

ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।
त्वया मे ह्येष संबंधः कपिमुख्य महागुणः ॥ 128 ॥

अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥ 129 ॥

श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।
प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात् ॥ 130 ॥

एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत् ।
प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम् ॥ 131 ॥

त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मया दत्ता न स्थातव्यमिहांतरे ॥ 132 ॥

इत्युक्त्वा पाणिना शैलमालभ्य हरिपुंगवः ।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥ 133 ॥

स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।
पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ 134 ॥

अथोर्ध्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।
पितुः पंथानमास्थाय जगाम विमलेऽंबरे ॥ 135 ॥

भूयश्चोर्ध्वं गतिं प्राप्य गिरिं तमवलोकयन् ।
वायुसूनुर्निरालंबे जगाम विमलेऽंबरे ॥ 136 ॥

तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ 137 ॥

देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा ।
कांचनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ 138 ॥

उवाच वचनं धीमान् परितोषात्सगद्गदम् ।
सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ॥ 139 ॥

हिरण्यनाभ शैलेंद्र परितुष्टोऽस्मि ते भृशम् ।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ॥ 140 ॥

साह्यं कृतं ते सुमहद्विक्रांतस्य हनूमतः ।
क्रमतो योजनशतं निर्भयस्य भये सति ॥ 141 ॥

रामस्यैष हितायैव याति दाशरथेर्हरिः ।
सत्क्रियां कुर्वता तस्य तोषितोऽस्मि दृढं त्वया ॥ 142 ॥

ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ॥ 143 ॥

स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।
हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ॥ 144 ॥

ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः ।
अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम् ॥ 145 ॥

अयं वातात्मजः श्रीमान्प्लवते सागरोपरि ।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ॥ 146 ॥

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।
दंष्ट्राकरालं पिंगाक्षं वक्त्रं कृत्वा नभः समम् ॥ 147 ॥

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।
त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ॥ 148 ॥

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ॥ 149 ॥

विकृतं च विरूपं च सर्वस्य च भयावहम् ।
प्लवमानं हनूमंतमावृत्येदमुवाच ह ॥ 150 ॥

मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ॥ 151 ॥

एवमुक्तः सुरसया प्रांजलिर्वानरर्षभः ।
प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ॥ 152 ॥

रामो दाशरथिर्नाम प्रविष्टो दंडकावनम् ।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ 153 ॥

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीता हृता भार्या रावणेन यशस्विनी ॥ 154 ॥

तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि ॥ 155 ॥

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ 156 ॥

एवमुक्ता हनुमता सुरसा कामरूपिणी ।
अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ॥ 157 ॥

तं प्रयांतं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।
बलं जिज्ञासमाना वै नागमाता हनूमतः ॥ 158 ॥

प्रविश्य वदनं मेऽद्य गंतव्यं वानरोत्तम ।
वर एष पुरा दत्तो मम धात्रेति सत्वरा ॥ 159 ॥

व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः ।
एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः ॥ 160 ॥

अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे ।
इत्युक्त्वा सुरसां क्रुद्धो धशयोजनमायता ॥ 161 ॥

दशयोजनविस्तारो बभूव हनुमांस्तदा ।
तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् ॥ 162 ॥

चकार सुरसा चास्यं विंशद्योजनमायतम् ।
हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः ॥ 163 ॥

चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।
बभूव हनुमावनीरः पंचाशद्योजनोच्छ्रितः ॥ 164 ॥

चकार सुरसा वक्त्रं षष्टियोजनमायतम् ।
तथैव हनुमावनीरः सप्ततीयोजनोच्छ्रितः ॥ 165 ॥

चकार सुरसा वक्त्रमशीतीयोजनायतम् ।
हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ॥ 166 ॥

चकार सुरसा वक्त्रं शतयोजनमायतं तव सानुषु विश्रांतः शेषं प्रक्रमतामिति ।
तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।
दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ॥ 167 ॥

सुसंक्षिप्यात्मनः कायं बभूवांगुष्ठमात्रकः ।
सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाबलः ।
अंतरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ॥ 168 ॥

प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते ।
गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥ 169 ॥

तं दृष्ट्वा वदनान्मुक्तं चंद्रं राहुमुखादिव ।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ॥ 170 ॥

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानयस्व वैदेहीं राघवेण महात्मना ॥ 171 ॥

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।
साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ॥ 172 ॥

स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।
जगामाकाशमाविश्य वेगेन गरुडोपमः ॥ 173 ॥

सेविते वारिधाराभिः पतगैश्च निषेविते ।
चरिते कैशिकाचार्यैरैरावतनिषेविते ॥ 174 ॥

सिंहकुंजरशार्दूलपतगोरगवाहनैः ।
विमानैः संपतद्भिश्च विमलैः समलंकृते ॥ 175 ॥

वज्राशनिसमाघातैः पावकैरुपशोभिते ।
कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते ॥ 176 ॥

वहता हव्यमत्यर्धं सेविते चित्रभानुना ।
ग्रहनक्षत्रचंद्रार्कतारागण विभूषिते ॥ 177 ॥

महर्षिगणगंधर्वनागयक्षसमाकुले ।
विविक्ते विमले विश्वे विश्वावसुनिषेविते ॥ 178 ॥

देवराजगजाक्रांते चंद्रसूर्यपथे शिवे ।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥ 179 ॥

बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।
जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ॥ 180 ॥

प्रदृश्यमानः सर्वत्रः हनुमान्मारुतात्मजः ।
भेजेऽंबरं निरालंबं लंबपक्ष इवाद्रिराट् ॥ 181 ॥

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।
मनसा चिंतयामास प्रवृद्धा कामरूपिणी ॥ 182 ॥

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।
इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ॥ 183 ॥

इति संचिंत्य मनसा छायामस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिंतयामास वानरः ॥ 184 ॥

समाक्षिप्तोऽस्मि सहसा पंगूकृतपराक्रमः ।
प्रतिलोमेन वातेन महानौरिव सागरे ॥ 185 ॥

तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।
ददर्श स महत्सत्त्वमुत्थितं लवणांभसि ॥ 186 ॥

तद्धृष्ट्वा चिंतयामास मारुतिर्विकृताननम् ।
कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ॥ 187 ॥

छायाग्राहि महावीर्यं तदिदं नात्र संशयः ।
स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः ॥ 188 ॥

व्यवर्धत महाकायः प्रावृषीव वलाहकः ।
तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ॥ 189 ॥

वक्त्रं प्रसारयामास पातालांतरसन्निभम् ।
घनराजीव गर्जंती वानरं समभिद्रवत् ॥ 190 ॥

स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।
कायमात्रं च मेधावी मर्माणि च महाकपिः ॥ 191 ॥

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।
संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ॥ 192 ॥

आस्ये तस्या निमज्जंतं ददृशुः सिद्धचारणाः ।
ग्रस्यमानं यथा चंद्रं पूर्णं पर्वणि राहुणा ॥ 193 ॥

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ।
उत्पपाताथ वेगेन मनः संपातविक्रमः ॥ 194 ॥

तां तु दृष्ट्वा च धृत्या च दाक्षिण्येन निपात्य च ।
स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥ 195 ॥

हृतहृत्सा हनुमतापपात विधुरांभसि ।
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ॥ 196 ॥

भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ।
भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ॥ 197 ॥

साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ।
यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव ॥ 198 ॥

धृतिर्दृष्टिर्मतिर्दाक्ष्यं सः कर्मसु न सीदति ।
स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः ॥ 199 ॥

जगामाकाशमाविश्य पन्नगाशनवत्कपिः ।
प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ॥ 200 ॥

योजनानां शतस्यांते वनराजिं ददर्श सः ।
ददर्श च पतन्नेव विविधद्रुमभूषितम् ॥ 201 ॥

द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च ।
सागरं सागरानूपं सागरानूपजान् द्रुमान् ॥ 202 ॥

सागरस्य च पत्नीनां मुख्यान्यपि विलोकयन् ।
स महामेघसंकाशं समीक्ष्यात्मानमात्मवान् ॥ 203 ॥

निरुंधंतमिवाकाशं चकार मतिमान् मतिम् ।
कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ॥ 204 ॥

मयि कौतूहलं कुर्यरिति मेने महाकपिः ।
ततः शरीरं संक्षिप्य तन्महीधरसन्निभम् ॥ 205 ॥

पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ।
तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ॥ 206 ॥

त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।
स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।
परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्धः ॥ 207 ॥

ततः स लंबस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे ।
सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ॥ 208 ॥

ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लंकां गिरिवर्यमूर्ध्नि ।
कपिस्तु तस्निन्निपपात पर्वते विधूय रूपं व्यथयन्मृगद्विजान् ॥ 209 ॥

स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।
निपत्य तीरे च महोदधेस्तदा ददर्श लंकाममरावतीमिव ॥ 210 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे प्रथमस्सर्गः ॥




Browse Related Categories: